रुक्मिण्या सह धर्मात्मा देवकीनंदनोऽव्ययः । उवास सुसुखेनैव दिव्यहर्म्यतले शुभे
तया वै रमयामास नारायण इव श्रिया । संस्तूयमानो मुनिभिर्दिवि देवगणैरपि
अहन्यहनि हृष्टात्मा सुखेनैव जनार्दनः । अथोवास सुशोभायां द्वारवत्यां सनातनः
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे श्रीकृष्णचरिते रुक्मिणीविवाहकथनंनाम अष्टाचत्वारिंशदधिकद्विशततमोऽध्यायः
श्रीरुद्र उवाच- सत्राजितस्य तनया नाम्ना सत्या यशस्विनी । पृथिव्यंशेन संभूता भार्यां कृष्णस्य वा परा
वैवस्वती महाभागा कालिंदी नाम नामतः । तृतीया तस्य भार्या सा लीलांशा समुपस्थिता
विंदानुविंदस्य सुतां मित्रविंदां शुचिस्मिताम् । स्वयंवरस्थितां कन्यामुपयेमे जनार्दनः
पाशेनैकेन बद्ध्वा तान् वृषभान्सप्तदुर्मदान् । तां वीर्यशुल्कां जग्राह पद्मपत्रायतेक्षणः
सत्राजितो महारत्नं स्यमंताख्यं महीपतिः । अनुजाय ददौ सोऽयं प्रसेनाय महात्मने
ययाचे तं मणिवरं कदाचिन्मधुसूदनः । उवाच वासुदेवं तं प्रसेनः प्रसभं तदा
प्रसेन उवाच- भारानष्टसुवर्णानि नित्यं प्रसवते मणिः । तस्मात्कस्य न दातव्यं स्यमंताख्यमिदं मया
महादेव उवाच- कृष्णस्तु तदभिप्रायं ज्ञात्वा तूष्णीमुवास ह । कदाचिन्मृगयां कर्त्तुं कृष्णः सर्वैर्यदूत्तमैः
प्रविवेश महारण्यं प्रसेनाद्यैर्महाबलैः । प्रत्येकं वै मृगान्हंतुमनुयाताः सहस्रशः
एक एव महारण्ये प्रसेनो दूरमागतः । तं सिंहो दृष्टमासाद्य हत्वा रत्नं जहार सः
तं सिंहं जांबबान्हत्वा मणिं गृह्य महाबलः । प्रविवेश बिलं तूर्णं दिव्यस्त्रीभिर्निषेवितम्
तस्मिन्नस्तंगते सूर्ये वासुदेवं सहानुगः । चतुर्थ्यामुदितं चंद्रं दृष्ट्वा स्वं पुरमाविशत्
ततः सर्वे पुरजनाः कृष्णं प्रोचुः परस्परम् । हत्वा प्रसेनं गोविंदो मृगव्याजेन कानने
स्यमंतकं मणिवरमग्रहीदविशंकया । तदाकर्ण्य हरिस्तस्मिन्द्वारकाजनभाषितम्
अज्ञलोकभयात्सर्वैर्यदुभिर्गहनं ययौ । दर्शयामास तान्सर्वान्सिंहेन निहतं वने
लब्धात्मशुद्धिस्तत्रैव संस्थाप्य महतीं चमूम् । एकः शार्ङ्गगदापाणिर्जगाम गहनं वनम्
दृष्ट्वा महाबिलं कृष्णः प्रविवेश विशंकितः । तत्र नाना मणिवरद्योतिते विमले गृहे
सुतं जांबवतो धात्री दोलामारोप्य लीलया । दोलामुखे मणिं धृत्वा दोलयन्गायती मुदा
सिंहः प्रसेनमवधीत्सिंहो जांबवता हतः । सुकुमारक मा रोदीस्तव ह्येष स्यमंतकः
तच्छ्रुत्वा वासुदेवोऽथ शंखं दध्मौ प्रतापवान् । तेन नादेन महता निर्जगामात्र जांबवान्
तयोर्युद्धमभूद्घोरं दशरात्रं निरंतरम् । मुष्टिभिर्वज्रकल्पैश्च सर्वभूतभयावहम्
कृष्णस्य बलवृद्धिं च तथात्मबलसंक्षयम् । अवेक्ष्य पूर्ववचनं बुबुधे परमात्मनः
सोऽयं रामोऽवतीर्णोऽत्र धर्मत्राणाय वै पुनः । स आगतो मम स्वामी दातुं मम मनोरथम्
एवं ज्ञात्वाथ ऋक्षेशो निर्वर्त्य रणकर्म तत् । प्रांजलि प्राह गोविंदं को भवानिति विस्मयात्
निवर्त्य कदनं शौरिः प्रोचे गंभीरया गिरा । श्रीकृष्ण उवाच- पुत्रोऽहं वसुदेवस्य वासुदेव इतीरितः
ममरत्नं स्यमंताख्यं हृतवांस्त्वं सुनिर्भयः । तद्दीयतां च शीघ्रं मे अन्यथा वधमेष्यसि