एवं ब्रुवंतीं संवीक्ष्य जानकीं च स लक्ष्मणः । न किंचिदुक्तवान्रुद्ध कंठो बाष्पप्रपूरितः
सा गच्छंती मृगान्वामं परिवर्तनकारकान् । अपश्यद्दुःखसंघातकारकान्समभाषत
अद्य यन्मे मृगा वामं वर्तयंति तदिष्यते । श्रीरामचरणौ मुक्त्वा गच्छंत्यायुक्तमेव तत्
महिलानां परोधर्मः स्वभर्तृचरणार्चनम् । तन्मुक्त्वान्यत्र यांत्या मे यद्भवेद्युक्तमेव तत्
एवं पथि विचारं तु कुर्वंत्या परमार्थतः । जाह्नवी ददृशे देव्या मुनिवृंदैकसेविता
यस्यां जलस्य कल्लोला दृश्यंते दुग्धसंनिभाः । तरंगो दृश्यते यत्र स्वर्गसोपानमूर्तिभृत्
यस्या वारिकणस्पर्शान्महापातकसंचयः । पलायते न कुत्रापि स्थानमीक्षन्समंततः
गंगां प्राप्याथ सौमित्रिर्जानकीं स्यंदने स्थिताम् । उवाच निर्गलद्बाष्प एहि सीते रथाद्भुवि
सीता तद्वाक्यमाकर्ण्य क्षणादवततार सा । लक्ष्मणेन धृता बाहौ स्खलंती पथि कंटकैः
शेष उवाच। अथ नावा समुत्तीर्य जाह्नवीं लक्ष्मणस्तदा । जानकीं परतस्तीरे हस्ते धृत्वा वनं ययौ
सा चलंती पथि तदा शुष्यद्वदनलक्षिता । कंटकक्षतसत्पादा स्खलंती च पदे पदे
लक्ष्मणस्तां महाघोरे विपिने दुःखदायिनि । प्रवेशयामास तदा राघवाज्ञाविधायकः
यत्र वृक्षा महाघोरा बर्बूलाः खदिरा घनाः । श्लेष्मातकाश्चिंचिणीकाः शुष्का दावेन वह्निना
कोटरस्था महासर्पाः फूत्कुर्वंति सुकोपिताः । घूका घूत्कुर्वते यत्र लोकचित्तभयंकराः
व्याघ्राः सिंहाः सृगालाश्च द्वीपिनोऽतिभयंकराः । दृश्यंते यत्र सरला मनुष्यादाः सुकोपनाः
महिषाः सूकरा दुष्टा दंष्ट्रा द्वयविलक्षिताः । कुर्वंति प्राणिनां तापं मानसस्य मदोद्धुराः
ईदृग्वनं प्रपश्यंती भयेनोपगतज्वरा । कंटकैर्दष्टचरणा लक्ष्मणं वाक्यमब्रवीत्
जानक्युवाच। वीरर्षिमुनिसंसेव्या नाश्रमान्नेत्रसौख्यदान् । नाहं पश्यामि नो तेषां पत्नीश्च सुतपोधनाः
पश्यामि केवलं घोरान्पक्षिणः शुष्कवृक्षकान् । दावानलेन तत्सर्वं दह्यमानमिदं वनम्
त्वां च पश्यामि दुःखार्तमश्रुपूर्णाकुलेक्षणम् । शकुनेतरसाहस्रं भवेन्मम पदे पदे
तन्मे कथय वीराग्र्य कथं मुक्ता महात्मना । रामेण दुष्टहृदया क्षिप्रं कथय मे हि तत्
इति वाक्यं समाकर्ण्य लक्ष्मणः शोककर्शितः । संरुद्धबाष्पवदनो न किंचित्प्रोक्तवांस्तदा
तदेव विपिनं घोरं गच्छंती लक्ष्मणान्विता । पुनरप्याह तं वीरं दुःखार्ता पश्यती मुखम्
तदापि स न तां वक्ति किमपि प्रेक्षुलोलुपः । तदा सात्यंतनिर्बंधं चकार परिपृच्छती
आग्रहेण यदा पृष्टो लक्ष्मणः सीतया तदा । रुद्धकंठो मुहुः शोचन्नवदत्त्यागसंभवम्
तद्वाक्यं पविना तुल्यं निशम्य मुनिसत्तम । सुलताकृत्तमूलेव बभूवाकल्पवर्जिता
तदैव पृथिवी तां न जग्राह तनयामिमाम् । रामो विपापिनीं सीतां न जह्यादिति शंकिनी
पतितां तां तु वैदेहीं दृष्ट्वा सौमित्रिरुत्सुकः । पल्लवाग्र्यसमीरेण संज्ञितां तु चकार सः
संज्ञां प्राप्ता ह्युवाचेदं मा हास्यं कुरु देवर । कथं मां पापरहितां त्यजते स रघूद्वहः
एवं बहुविलप्याथ लक्ष्मणं दुःखसंयुतम् । संवीक्ष्यमू र्च्छिता भूमौ पपात परिदुःखिता