आमयो यद्वदामस्तु न चिकित्स्यो भवेत्क्षितौ । सकालेन परीपाकाद्भेषजादेव नश्यति
तथा कालेन संभावि सांप्रतं मा विलंबय । त्यजैनां विपिने साध्वीं मां वा खड्गेन घातय
इत्युक्तं वाक्यमाकर्ण्य दुःखितोऽभूत्तदा महान् । चिंतयामास च स्वांते लक्ष्मणः शोककर्षितः
पित्राज्ञप्तो जामदग्न्यो मातरं चाप्यघातयत् । गुरोराज्ञा नैव लंघ्या युक्ताऽयुक्तापि सर्वथा
तस्मादेनां त्यजाम्येव रामस्य प्रियकाम्यया । इति संचिंत्य मनसि भ्रातरं प्रत्युवाच सः
लक्ष्मणउवाच। अकृत्यमपि कार्यं वै गुर्वाज्ञां नैव लंघयेत् । तस्मात्कुर्वे भवद्वाक्यं यत्त्वं वदसि सुव्रत
इत्येवं भाषमाणं तं लक्ष्मणं प्रत्युवाच सः । साधुसाधु महाप्राज्ञ त्वया मे तोषितं मनः
अद्यैव रात्रौ जानक्या दोहदस्तापसी क्षणे । तन्मिषेण रथे स्थाप्य मोचयैनां महावने
इत्थं भाषितमाकर्ण्य विशुष्यद्वदनोऽभितः । रुदन्बाष्पकलां मुंचञ्जगाम स्वं निवेशनम्
सुमंत्रं तु समाहूय वचनं तमथाब्रवीत् । रथं मे कुरु सज्जं वै सदश्ववरभूषितम्
स तद्वाक्यं समाकर्ण्य रथमानीतवांस्तदा । आनीतं तं रथं दृष्ट्वा लक्ष्मणः शोककर्षितः
परमं दुःखमापन्नः संरुह्य स्यंदनं वरम् । निःश्वसञ्जानकीगेहं प्रतस्थे भ्रातृसेवकः
गत्वा चांतःपुरे भ्राता रामस्य मिथिलात्मजाम् । प्रत्यूचे निःश्वसन्वाक्यं दुःखपूरपरिप्लुतः
मातर्जानकि रामेण प्रेषितो भवनं तव । तापसीः प्रति याहि त्वं दोहदप्राप्तिहेतवे
इति वाक्यं समाकर्ण्य लक्ष्मणस्य विदेहजा । परमं हर्षमापन्ना लक्ष्मणं प्रत्यभाषत
जानक्युवाच। धन्याहं मैथिली राज्ञी रामस्य चरणस्मरा । यस्या दोहदपूर्त्यर्थं प्रेषयामास लक्ष्मणम्
अद्याहं ता वनचरीस्तापसीः पतिदेवताः । नमस्कुर्यां च वासोभिः पूजयामि मनोहराः
इत्युक्त्वा रम्यवस्त्राणि महार्हाभरणानि च । मणीन्विमलमुक्ताश्च कर्पूरादिसुगंधिमत्
चंदनादिकवस्तूनि विचित्राणि सहस्रधा । जग्राह रघुनाथस्य पत्नी स्वप्रियकाम्यया
सीता गृहीत्वा सर्वाणि दासीनां करयोर्मुहुः । लक्ष्मणं प्रतिगच्छंती देहल्यां चास्खलत्तदा
अविचार्य तदौत्सुक्याल्लक्ष्मणं प्रियकारिणम् । उवाच कुत्र सरथो येन मां प्रापयिष्यसि
स निःश्वसन्रथं हैमं जानक्या सह निर्विशत् । सुमंत्रं प्रत्युवाचासौ चालयाश्वान्मनोजवान्
स सुयुक्तं रथं वाक्याल्लक्ष्मणस्य तु चाह्वयत् । अश्रुपूर्णमुखं पश्यँल्लक्ष्मणं स मुहुर्मुहुः
आहतास्तेन कशया वाहास्तस्यापतन्पथि । न चलंति यदा वाहास्तदा लक्ष्मणमब्रवीत्
सुमंत्र उवाच। स्वामिंश्चलंति नो वाहा यत्नेन परिचालिताः । किं करोमि न जानेऽत्र कारणं वाहपातने
एवं ब्रुवंतं प्रत्यूचे लक्ष्मणो गद्गदस्वरः । सारथिं धैर्यमास्थाय ताडयैतान्कशादिभिः
एतच्छ्रुत्वोदितं यंता कथंचित्समचालयत् । तदा स्फुरद्दक्षनेत्रं जानक्या दुःखशंसकम्
तदैव हृदये शोकः समभूद्दुःखशंसकः । तदैव पक्षिणः पुण्याः कुर्वंति परिवर्तनम्
एवं वीक्ष्यैव वैदेही प्रत्युवाचाथ देवरम् । कथं मे तापसीक्षायै यातुमिच्छा रघूद्वह
रामे भूयाद्धि कल्याणं भरते वा तथानुजे । तत्प्रजासु च सर्वत्र मा भवंतु विपर्ययाः