तदाशु शंस मां सर्वं कारणं मुख्यतोऽनघ । एवं वदंतं नृपतिर्वृत्तांतं सर्वमादितः
शशंस लक्ष्मणं क्षिप्रं दुःखपूरपरिप्लुतम् । लक्ष्मणस्तद्वचः श्रुत्वा सीतायास्त्यागसंभवम्
निःश्वसन्मुहुरुच्छ्वासं स्तब्धगात्र इवाभवत् । भ्रातरं स्तब्धगात्रं च कंपमानं मुहुर्मुहुः
न किंचन वदन्तं तं वीक्ष्य शोकार्दितोऽब्रवीत् । किं करिष्याम्यहं भूमौ स्थित्वा दुर्यशसांकितः
त्यजामीदं वपुः श्रीमल्लोकभीत्या च शोकवान् । सर्वदा भ्रातरो मह्यं मद्वाक्यकरणोत्सुकाः
इदानीं तेपि दैवेन प्रतिकूलवचः कराः । कुत्र गच्छामि कं यामि हसिष्यंति नृपा भुवि
दुर्यशो लांछितं मां वै कुष्ठिनं रूपवन्नराः । मनोर्वंशे पुरा भूपा जाता जाता गुणाधिकाः
इदानीं मयि जाते तु विपरीतं बभूव तत् । इति संभाषमाणं तं रामभद्रं समीक्ष्य सः
संस्तभ्याश्रूणि विपुलान्युवाच विकल स्वरः । स्वामिन्विषादं मा कार्षीः कथं तव मतिर्हृता
सीतामनिंदितां को नु त्यजति श्रुतवान्भवान् । आकारयामि रजकं परिपृच्छामि तं प्रति
कथं त्वयानिंदिता सा जानकी योषितां वरा । तव देशे बलात्कश्चिद्बाध्यते न जनोऽल्पकः
तस्मात्तस्य यथास्वांते प्रतीतिः स्यात्तथाचर । किमर्थं त्यज्यते भीरुः पतिव्रतपरायणा
मनसा वचसा नान्यं जानाति जनकात्मजा । तस्मादेनां गृहाण त्वमेतां मा त्यज जानकीम्
ममोपरि कृपां कृत्वा मदुक्तं संश्रयाशु तत् । एवं वदंतं प्रत्यूचे रामः शोकेन कर्षितः
लक्ष्मणं धर्मवाक्येन बोधयंस्त्यजनोद्यमः
राम उवाच। कथं तु मां ब्रवीषि त्वं मा त्यजैनामनिंदिताम् । लोकापवादात्त्यक्ष्येऽहं जानन्नपि विपापिनीम्
स्वयशः कारणेऽहं स्वं देहं त्यक्ष्याम्यशोभनम् । त्वामपि भ्रातरं त्यक्ष्ये लोकवादाद्विगर्हितम्
किमुतान्ये गृहाः पुत्रा मित्राणि वसुशोभनम् । स्वयशःकारणे सर्वं त्यजामि किमु मैथिलीम्
न तथा मे प्रियो भ्राता न कलत्रं न बांधवाः । यथा मे विमलाकीर्तिर्वल्लभा लोकविश्रुता
इदानीं रजको नैव प्रष्टव्यो भवति ध्रुवम् । कालेन सर्वं भविता लोकचित्तस्य रंजनम्
आमयो यद्वदामस्तु न चिकित्स्यो भवेत्क्षितौ । सकालेन परीपाकाद्भेषजादेव नश्यति
तथा कालेन संभावि सांप्रतं मा विलंबय । त्यजैनां विपिने साध्वीं मां वा खड्गेन घातय
इत्युक्तं वाक्यमाकर्ण्य दुःखितोऽभूत्तदा महान् । चिंतयामास च स्वांते लक्ष्मणः शोककर्षितः
पित्राज्ञप्तो जामदग्न्यो मातरं चाप्यघातयत् । गुरोराज्ञा नैव लंघ्या युक्ताऽयुक्तापि सर्वथा
तस्मादेनां त्यजाम्येव रामस्य प्रियकाम्यया । इति संचिंत्य मनसि भ्रातरं प्रत्युवाच सः
लक्ष्मणउवाच। अकृत्यमपि कार्यं वै गुर्वाज्ञां नैव लंघयेत् । तस्मात्कुर्वे भवद्वाक्यं यत्त्वं वदसि सुव्रत
इत्येवं भाषमाणं तं लक्ष्मणं प्रत्युवाच सः । साधुसाधु महाप्राज्ञ त्वया मे तोषितं मनः
अद्यैव रात्रौ जानक्या दोहदस्तापसी क्षणे । तन्मिषेण रथे स्थाप्य मोचयैनां महावने
इत्थं भाषितमाकर्ण्य विशुष्यद्वदनोऽभितः । रुदन्बाष्पकलां मुंचञ्जगाम स्वं निवेशनम्
सुमंत्रं तु समाहूय वचनं तमथाब्रवीत् । रथं मे कुरु सज्जं वै सदश्ववरभूषितम्