निंदिता श्रुतिरग्राह्या भवति त्वग्र्यजन्मनाम् । जाह्नवी सर्वलोकानां पापघ्नी दुरितापहा
निस्पृष्टा पापिभिः पुंभिः सा स्पर्शेनार्हिता सताम् । सूर्यो जगत्प्रकाशाय समुदेति जगत्यहो
उलूकानां रुचिकरो न भवेत्तत्र का क्षतिः । तस्मात्त्वमेनां गृह्णीष्व मा त्यजानिंदितां स्त्रियम्
श्रीरामभद्रकृपया कुरुष्व वचनं मम । एतच्छ्रुत्वा वचस्तस्य शत्रुघ्नस्य महात्मनः
पुनःपुनर्जगादेदं यदुक्तं भरतं प्रति । तन्निशम्य वचो भ्रातुर्दुःखपूरपरिप्लुतः
पपात मूर्च्छितो भूमौ छिन्नमूल इव द्रुमः । भ्रातरं पतितं वीक्ष्य शत्रुघ्नं दुःखितो भृशम्
प्रतीहारमुवाचेदं लक्ष्मणं त्वानयांतिकम् । स लक्ष्मणगृहं गत्वा न्यवेदयदिदं वचः
प्रतीहार उवाच। स्वामिन्रामो भवंतं तु समाह्वयति वेगतः । स तच्छ्रुत्वा समाह्वानं रामचंद्रेण वेगतः
जगाम तरसा तत्र यत्र स भ्रातृकोऽनघः । भरतं मूर्च्छितं दृष्ट्वा शत्रुघ्नमपि मूर्च्छितम्
श्रीरामचंद्रं दुःखार्तं दुःखितो वाक्यमब्रवीत् । किमेतद्दारुणं राजन्दृश्यते मूर्च्छनादिकम्
तदाशु शंस मां सर्वं कारणं मुख्यतोऽनघ । एवं वदंतं नृपतिर्वृत्तांतं सर्वमादितः
शशंस लक्ष्मणं क्षिप्रं दुःखपूरपरिप्लुतम् । लक्ष्मणस्तद्वचः श्रुत्वा सीतायास्त्यागसंभवम्
निःश्वसन्मुहुरुच्छ्वासं स्तब्धगात्र इवाभवत् । भ्रातरं स्तब्धगात्रं च कंपमानं मुहुर्मुहुः
न किंचन वदन्तं तं वीक्ष्य शोकार्दितोऽब्रवीत् । किं करिष्याम्यहं भूमौ स्थित्वा दुर्यशसांकितः
त्यजामीदं वपुः श्रीमल्लोकभीत्या च शोकवान् । सर्वदा भ्रातरो मह्यं मद्वाक्यकरणोत्सुकाः
इदानीं तेपि दैवेन प्रतिकूलवचः कराः । कुत्र गच्छामि कं यामि हसिष्यंति नृपा भुवि
दुर्यशो लांछितं मां वै कुष्ठिनं रूपवन्नराः । मनोर्वंशे पुरा भूपा जाता जाता गुणाधिकाः
इदानीं मयि जाते तु विपरीतं बभूव तत् । इति संभाषमाणं तं रामभद्रं समीक्ष्य सः
संस्तभ्याश्रूणि विपुलान्युवाच विकल स्वरः । स्वामिन्विषादं मा कार्षीः कथं तव मतिर्हृता
सीतामनिंदितां को नु त्यजति श्रुतवान्भवान् । आकारयामि रजकं परिपृच्छामि तं प्रति
कथं त्वयानिंदिता सा जानकी योषितां वरा । तव देशे बलात्कश्चिद्बाध्यते न जनोऽल्पकः
तस्मात्तस्य यथास्वांते प्रतीतिः स्यात्तथाचर । किमर्थं त्यज्यते भीरुः पतिव्रतपरायणा
मनसा वचसा नान्यं जानाति जनकात्मजा । तस्मादेनां गृहाण त्वमेतां मा त्यज जानकीम्
ममोपरि कृपां कृत्वा मदुक्तं संश्रयाशु तत् । एवं वदंतं प्रत्यूचे रामः शोकेन कर्षितः
लक्ष्मणं धर्मवाक्येन बोधयंस्त्यजनोद्यमः
राम उवाच। कथं तु मां ब्रवीषि त्वं मा त्यजैनामनिंदिताम् । लोकापवादात्त्यक्ष्येऽहं जानन्नपि विपापिनीम्
स्वयशः कारणेऽहं स्वं देहं त्यक्ष्याम्यशोभनम् । त्वामपि भ्रातरं त्यक्ष्ये लोकवादाद्विगर्हितम्
किमुतान्ये गृहाः पुत्रा मित्राणि वसुशोभनम् । स्वयशःकारणे सर्वं त्यजामि किमु मैथिलीम्
न तथा मे प्रियो भ्राता न कलत्रं न बांधवाः । यथा मे विमलाकीर्तिर्वल्लभा लोकविश्रुता
इदानीं रजको नैव प्रष्टव्यो भवति ध्रुवम् । कालेन सर्वं भविता लोकचित्तस्य रंजनम्