वयं वै पक्षिणः साध्वि वनस्था वृक्षगोचराः । परिभ्रमाम सर्वत्र नो सुखं नो भवेद्गृहे
अंतर्वत्नी स्वके स्थाने गत्वा संसूय पुत्रकान् । त्वत्स्थानमागमिष्यामि सत्यं मे ह्युदितं वचः
एवं प्रोक्ता तया सा तु न मुमोच शुकीं स्वयम् । तदापतिस्तां प्रोवाच विनीतवदनुत्सुकः
सीते मुंच कथं भार्यां रक्षसे मे मनोहरीम् । आवां गच्छाव विपिने विचरावः सुखं वने
अंतर्वत्नी तु वर्तेत भार्या मम मनोरमा । तस्याः प्रसूतिं कृत्वा त्वामागमिष्यामि शोभने
इत्युक्ता निजगादेमं सुखं गच्छ महामते । एतां रक्षामि सुखिनीं मत्पार्श्वे प्रियकारिणीम्
इत्युक्तो दुःखितः पक्षी तामूचे करुणान्वितः । योगिभिः प्रोच्यते यद्वै तद्वचस्तथ्यमेव हि
न वक्तव्यं न वक्तव्यं मौनमाश्रित्य तिष्ठताम् । नोचेत्स वाक्यदोषेण प्राप्नोत्यालानमुन्मदः
वयं चेदत्र वाक्यं नाकरिष्याम नगोपरि । बंधनं कथमावां स्यात्तस्मान्मौनं समाचरेत्
इत्युक्त्वा तां प्रत्युवाच नाहं जीवामि सुंदरि । एतया भार्यया सीते तस्मान्मुंच मनोहरे
अनेकविधवाक्यैः सा बोधिता नामुचत्तदा । कुपिता दुःखिता भार्या शशाप जनकात्मजाम्
यथा त्वं पतिना सार्धं वियोजयसि मामितः । तथा त्वमपि रामेण वियुक्ता भव गर्भिणी
इत्युक्तवत्यां तस्यां तु दुःखितायां पुनः पुनः । प्राणा निरगमन्दुःखात्पतिदुःखेन पूरितात्
रामं रामं स्मरंत्याश्च वदंत्यांश्च पुनः पुनः । विमानमागतं सुष्ठु पक्षिणी स्वर्गता बभौ
तस्यां मृतायां दुःखार्तो भर्ता तस्याः स पक्षिराट् । परमं क्रोधमापन्नो जाह्नव्यां दुःखितोऽपतत्
तथा भवामि रामस्य नगरे जनपूरिते । मद्वाक्यादियमुद्विग्ना वियोगेन सुदुःखिता
इत्युक्त्वा स पपातोदे जाह्नव्या भ्रमशोभिते । दुःखितः कुपितो भीतस्तद्वियोगेन कंपितः
क्रुद्धत्वाद्दुःखितत्वाच्च सीताया अपमाननात् । अंत्यजत्वं परं प्राप्तो रजकः क्रोधनाभिधः
यः क्रोधाच्च स्वकान्प्राणान्महतां दुष्टमाचरन् । संत्यजेत्स मृतो याति अंत्यजत्वं द्विजोत्तमः
तज्जातं रजकोक्त्यासौ निंदिता च वियोगिता । रजकस्य च शापेन वियुक्ता सा वनं गता
एतत्ते कथितं विप्र यत्ते पृष्टं विदेहजाम् । पुनरत्र परं वृत्तं शृणुष्व निगदामि तत्
शेष उवाच। भरतं मूर्च्छितं दृष्ट्वा रघुनाथः सुदुःखितः । प्रतीहारमुवाचेदं शत्रुघ्नं प्रापयाशु माम्
तद्वाक्यं प्रोक्तमाकर्ण्य क्षणाच्छत्रुघ्नमानयत् । यत्र रामो निजभ्राता भरतेन सह स्थितः
भरतं मूर्च्छितं दृष्ट्वा रघुनाथं च दुःखितम् । प्रणम्य दुःखितोऽवोचत्किमिदं दारुणं महत्
तदा रामोंऽत्यजप्रोक्तं वाक्यं लोकविगर्हितम् । तं प्रत्युवाच रामोऽसौ शत्रुघ्नं पदसेवकम्
अधोमुखो दीनरवो गद्गदाक्षरवेपथुः । शृणु भ्रातर्वचो मेऽद्य कुरु तत्क्षिप्रमादरात्
यथा स्याद्विमलाकीर्तिर्गंगेव पृथिवीं गता । सीताया वाच्यमतुलं लोके श्रुत्वांत्यजोदितम्
हातुमिच्छामि देहं स्वमेनां वा जानकीं किल । इति वाक्यं समाकर्ण्य रामस्य किल शत्रुहा
सवेपथुः पपातोर्व्यां दुःखितः परदारणः । संज्ञां प्राप्य मुहूर्तेन रघुनाथमवोचत
शत्रुघ्न उवाच। किमेतदुच्यते स्वामिञ्जानकीं प्रति दारुणम् । पाखंडैर्दुष्टचित्तैश्च सर्वधर्मबहिष्कृतैः