एवं भ्रात्रा प्रोच्यमानो गद्गदस्वरया गिरा । प्रोवाच भ्रातरं वीरो रामचंद्रश्च धार्मिकः
शृणु भ्रातर्वचो मह्यं मम दुःखस्य कारणम् । तन्मार्जनं कुरुष्वाद्य भ्रातः प्रातर्महामते
वंशे वैवस्वते राजा न कश्चिदयशः क्षतः । मत्कीर्तिरद्य कलुषा गंगायमुनया गता
येषां यशो नृणां भूमौ तेषामेव सुजीवितम् । अपकीर्तिक्षतानां तु जीवितं मृतकैः समम्
येषां यशो भवेद्भूमौ तेषां लोकाः सनातनाः । अपकीर्त्युरगी दष्टास्तेषां भूयादधोगतिः
अद्य मे कलुषा कीर्तिः स्वर्धुनी लोकविश्रुता । तच्छृणुष्व वचो मेऽद्य रजकेन यथोदितम्
अस्मिन्पुरेऽद्य रजक उक्तवाञ्जानकीभवम् । किंचिद्वाच्यं ततो भ्रातः किं करोमि महीतले
किमात्मानं जहाम्यद्य किमेनां जानकीं स्त्रियम् । उभयोः किं मया कार्यं तत्तथ्यं ब्रूहि मे भवान्
इत्युक्त्वा निर्गलद्बाष्पो वेपथु क्षुभितांगकः । पपात भूमौ विरजो धार्मिकाणां शिरोमणिः
भ्रातरं पतितं दृष्ट्वा भरतो दुःखसंयुतः । संवीक्ष्य शनकै रामं प्राप्तसंज्ञं चकार सः
संज्ञां प्राप्तं तु संवीक्ष्य रामचंद्रं सुदुःखितम् । उवाच दुःखनाशाय वाक्यं तु सुमनोहरम्
कोऽयं वै रजकः किंतु वाच्यं वाक्यं यथाब्रवीत् । जिह्वाच्छेदं करिष्यामि जानकीवाच्यकारिणः
तदा रामोऽब्रवीद्वाक्यं रजकस्य मुखोद्गतम् । श्रुतं चारेण तत्सर्वं भरताय महात्मने
तच्छ्रुत्वा भरतः प्राह भ्रातरं दुःखशोकिनम् । जानकीवह्निशुद्धाभूल्लंकायां वीरपूजिता
ब्रह्माब्रवीदियं शुद्धा पिता दशरथस्तव । कथं सा रजकोक्तित्वाद्धातव्या लोकपूजिता
ब्रह्मादिसंस्तुता कीर्तिस्तवलोकान्पुनाति हि । सा कथं रजकोक्त्या वै कलुषाद्य भविष्यति
तस्मात्त्यज महादुःखं सीतावाच्यसमुद्भवम् । कुरु राज्यं तया सार्धमंतर्वत्न्या सुभाग्यया
त्वं कथं स्वशरीरं तु हातुमिच्छसि शोभनम् । वयं हताः स्म सर्वेऽद्य त्वां विना दुःखनाशकम्
क्षणं सीता न जीवेत त्वां विना सुमहोदया । तस्मात्पतिव्रता साकं भुनक्तु विपुलां श्रियम्
इति वाक्यं समाकर्ण्य भरतस्य च धार्मिकः । पुनरेव जगादेमं वाक्यं वाक्यविदां वरः
यत्त्वं कथयसि भ्रातस्तत्सर्वं धर्मसंयुतम् । परं यद्वच्म्यहं वाक्यं तत्कुरुष्व ममाज्ञया
जानाम्येनां वह्निशुद्धां पवित्रां लोकपूजिताम् । लोकापवादाद्भीतोऽहं त्यजामि स्वां तु जानकीम्
तस्मात्करे शितं धृत्वा करवालं सुदारुणम् । शिरश्छिंध्यथवा जायां जानकीं मुंच वै वने
इति वाक्यं समाकर्ण्य रामस्य भरतोऽपतत् । मूर्च्छितः सन्क्षितौ देहे कंपयुक्तः सबाष्पकः
वात्स्यायन उवाच। जगत्पवित्रसत्कीर्ति जानक्या वाच्यवाचनम् । कथं समकरोत्स्वामी तन्मे कथय सुव्रत
यथा मे मनसः सौख्यं भविष्यति सुशोभनम् । तथा कुरुष्व शेषाद्य त्वन्मुखान्निःसृतामृतम् । पिबतस्तृप्तिरेव स्याद्यया संसृतिकृं तनम्
शेष उवाच। मिथिलायां महापुर्यां जनको नाम भूपतिः । तस्यां करोति सद्राज्यं धर्मेणाराधयन्प्रजाः
तस्य संकर्षतो भूमिं सीतया दीर्घमुख्यया । सीरध्वजस्य निरगात्कुमारी ह्यतिसुंदरी
तदात्यंतं मुदं प्राप्तः सीरकेतुर्महीपतिः । सीता नामाकरोत्तस्या मोहिन्या जगतः श्रियः
सैकदोद्यानविपिने खेलंती सुमनोहरा । अपश्यत्स्वमनःकांतं शुकशुक्योर्युगं वदत्