तदा रामं प्रत्युवाच चारो वाक्यं शनैः शनैः । अकथ्यमपि ते वाच्यं वाक्यं कारुजनोदितम्
चार उवाच। स्वामिन्सर्वत्र ते कीर्तिर्दशाननवधादिका । अन्यत्र राक्षसगृहे स्थितायास्ते स्त्रिया अहो
कारुरेकस्तु रजको निशीथे महिलां स्वकाम् । अन्यगेहोषितां दृष्ट्वा धिक्कुर्वन्समताडयत्
तन्माता प्रत्युवाचेमां कथं ताडयसेऽनघाम् । गृहाण मा कृथा निंदां स्त्रियं मद्वाक्यमाचर
तदावोचत्स रजको नाहं रामो महीपतिः । यद्राक्षसगृहेध्युष्टां सीतामंगीचकार सः
सर्वं राज्ञः कृतं कर्म नीतिमद्भवति प्रभो । अन्येषां पुण्यकर्तॄणामपि कृत्यमनीतिमत्
पुनः पुनरुवाचासौ नाहं रामो महीपतिः । चुक्रुधे समये राजन्मया वाक्यं तव स्मृतम्
तदानीं शिर आच्छिद्य पातयामि महीतले। कृतः पुनर्विचारोमे क्व रामो रजकः क्व नु
अयं दुष्टोऽनृतं वक्ति न हीदं तथ्यमुच्यते । आज्ञापयसि चेद्राम सांप्रतं मारयामि तम्
अवाच्यमपि ते प्रोक्तं त्वदाग्रहत उन्नयम् । राजा प्रमाणमत्रेदं विचारयतु संगतम्
शेष उवाच। इति वाक्यं समाकर्ण्य महावज्रनिभाक्षरम् । निःश्वसन्मुहुरुच्छ्वासमाचरन्मूर्च्छितोऽपतत्
तं मूर्च्छितं नृपं दृष्ट्वा चारा दुःखसमन्विताः । वीजयामासुर्वासोग्रैर्दुःखापनय हेतवे
स लब्धसंज्ञो नृपतिर्मुहूर्तेन जगाद तान् । गच्छंतु भरतं शीघ्रं प्रेषयंतु च मां प्रति
ते दुःखिताश्चरास्तूर्णं भरतस्य गृहं गताः । कथयामासु रामस्य संदेशं नयहारकाः
भरतो रामसंदेशं श्रुत्वा धीमान्ययौ सदः । रामं प्रति रहःसंस्थं श्रुत्वा तं त्वरया युतः
आगत्य तं प्रतीहारं प्रत्युवाच महामनाः । कुत्रास्ते रामभद्रोऽसौ मम भ्राता कृपानिधिः
तन्निर्दिष्टं गृहं वीरो ययौ रत्नमनोहरम् । रामं विलोक्य विक्लांतं भयमाप स मानसे
किं वासौ कुपितो रामः किं वा दुःखमिदं विभोः । तदा प्रोवाच नृपतिं निःश्वसंतं मुहुर्मुहुः
स्वामिन्सुखसमाराध्यं वक्त्रं ते कथमानतम् । अश्रुभिर्लक्ष्यते राहुग्रस्तदेहः शशीव ते
सर्वं मे कारणं तथ्यं ब्रूहि मां किं करोमि ते । त्यज दुःखं महाराज कथं दुःखस्य भाजनम्
एवं भ्रात्रा प्रोच्यमानो गद्गदस्वरया गिरा । प्रोवाच भ्रातरं वीरो रामचंद्रश्च धार्मिकः
शृणु भ्रातर्वचो मह्यं मम दुःखस्य कारणम् । तन्मार्जनं कुरुष्वाद्य भ्रातः प्रातर्महामते
वंशे वैवस्वते राजा न कश्चिदयशः क्षतः । मत्कीर्तिरद्य कलुषा गंगायमुनया गता
येषां यशो नृणां भूमौ तेषामेव सुजीवितम् । अपकीर्तिक्षतानां तु जीवितं मृतकैः समम्
येषां यशो भवेद्भूमौ तेषां लोकाः सनातनाः । अपकीर्त्युरगी दष्टास्तेषां भूयादधोगतिः
अद्य मे कलुषा कीर्तिः स्वर्धुनी लोकविश्रुता । तच्छृणुष्व वचो मेऽद्य रजकेन यथोदितम्
अस्मिन्पुरेऽद्य रजक उक्तवाञ्जानकीभवम् । किंचिद्वाच्यं ततो भ्रातः किं करोमि महीतले
किमात्मानं जहाम्यद्य किमेनां जानकीं स्त्रियम् । उभयोः किं मया कार्यं तत्तथ्यं ब्रूहि मे भवान्
इत्युक्त्वा निर्गलद्बाष्पो वेपथु क्षुभितांगकः । पपात भूमौ विरजो धार्मिकाणां शिरोमणिः
भ्रातरं पतितं दृष्ट्वा भरतो दुःखसंयुतः । संवीक्ष्य शनकै रामं प्राप्तसंज्ञं चकार सः