विवस्वतो महान्वंशो भवता परमेष्ठिना । अलंकर्तुं गतं भूमौ कीर्तिर्विस्तारिता बहुः
अनेके सगराद्याश्च कीर्तिमंतो महाबलाः । अभवंस्तादृशी कीर्तिस्तेषां नाभूद्यथा तव
त्वया नाथेन सकलाः कृतार्थाश्च प्रजाः कृताः । यासां नाकालमरणं न च रागाद्युपद्रुतिः
यादृशश्चंद्रमालोके यादृशी जाह्नवी सरित् । तादृक्तव च सत्कीर्तिः प्रकाशयति भूतलम्
ब्रह्मादिका भवत्कीर्तिमाकर्ण्य त्रपिता भृशम् । नाथ सर्वत्र ते कीर्तिः पावयत्यधुना जनान्
वयं धन्यतमाः सर्वे ये चारास्तव भूपते । क्षणेक्षणे तव मुखं लोकयाम मनोहरम्
इत्यादिवाक्यं चाराणां पंचानां वीक्ष्य राघवः । षष्ठं पप्रच्छ चारं तं विलक्षणमुखांकितम्
राम उवाच। सत्यं वद महाबुद्धे यच्छ्रुतं लोकसंकरे । तादृक्प्रशंस मे सर्वमन्यथा पातकादिकृत्
पुनः पुनश्च तं रामः पप्रच्छाशु सविस्तरम् । तथापि न ब्रवीत्येव रामं लौकिकभाषितम्
तदा रामः प्रत्यवोचच्चारं मुखविलक्षितम् । शपामि त्वां तु सत्येन शंस सर्वं यथातथम्
तदा रामं प्रत्युवाच चारो वाक्यं शनैः शनैः । अकथ्यमपि ते वाच्यं वाक्यं कारुजनोदितम्
चार उवाच। स्वामिन्सर्वत्र ते कीर्तिर्दशाननवधादिका । अन्यत्र राक्षसगृहे स्थितायास्ते स्त्रिया अहो
कारुरेकस्तु रजको निशीथे महिलां स्वकाम् । अन्यगेहोषितां दृष्ट्वा धिक्कुर्वन्समताडयत्
तन्माता प्रत्युवाचेमां कथं ताडयसेऽनघाम् । गृहाण मा कृथा निंदां स्त्रियं मद्वाक्यमाचर
तदावोचत्स रजको नाहं रामो महीपतिः । यद्राक्षसगृहेध्युष्टां सीतामंगीचकार सः
सर्वं राज्ञः कृतं कर्म नीतिमद्भवति प्रभो । अन्येषां पुण्यकर्तॄणामपि कृत्यमनीतिमत्
पुनः पुनरुवाचासौ नाहं रामो महीपतिः । चुक्रुधे समये राजन्मया वाक्यं तव स्मृतम्
तदानीं शिर आच्छिद्य पातयामि महीतले। कृतः पुनर्विचारोमे क्व रामो रजकः क्व नु
अयं दुष्टोऽनृतं वक्ति न हीदं तथ्यमुच्यते । आज्ञापयसि चेद्राम सांप्रतं मारयामि तम्
अवाच्यमपि ते प्रोक्तं त्वदाग्रहत उन्नयम् । राजा प्रमाणमत्रेदं विचारयतु संगतम्
शेष उवाच। इति वाक्यं समाकर्ण्य महावज्रनिभाक्षरम् । निःश्वसन्मुहुरुच्छ्वासमाचरन्मूर्च्छितोऽपतत्
तं मूर्च्छितं नृपं दृष्ट्वा चारा दुःखसमन्विताः । वीजयामासुर्वासोग्रैर्दुःखापनय हेतवे
स लब्धसंज्ञो नृपतिर्मुहूर्तेन जगाद तान् । गच्छंतु भरतं शीघ्रं प्रेषयंतु च मां प्रति
ते दुःखिताश्चरास्तूर्णं भरतस्य गृहं गताः । कथयामासु रामस्य संदेशं नयहारकाः
भरतो रामसंदेशं श्रुत्वा धीमान्ययौ सदः । रामं प्रति रहःसंस्थं श्रुत्वा तं त्वरया युतः
आगत्य तं प्रतीहारं प्रत्युवाच महामनाः । कुत्रास्ते रामभद्रोऽसौ मम भ्राता कृपानिधिः
तन्निर्दिष्टं गृहं वीरो ययौ रत्नमनोहरम् । रामं विलोक्य विक्लांतं भयमाप स मानसे
किं वासौ कुपितो रामः किं वा दुःखमिदं विभोः । तदा प्रोवाच नृपतिं निःश्वसंतं मुहुर्मुहुः
स्वामिन्सुखसमाराध्यं वक्त्रं ते कथमानतम् । अश्रुभिर्लक्ष्यते राहुग्रस्तदेहः शशीव ते
सर्वं मे कारणं तथ्यं ब्रूहि मां किं करोमि ते । त्यज दुःखं महाराज कथं दुःखस्य भाजनम्