तदास्य माता प्रोवाच मा त्यजैनां गृहागताम् । अपराधेन रहितां दुष्टकर्मविवर्जिताम्
मातरं प्रत्युवाचाथ रजकः क्रोधसंयुतः । नाहं रामइव प्रेष्ठां गृह्णाम्यन्यगृहोषिताम्
स राजा यत्करोत्येव तत्सर्वं नीतिमद्भवेत् । अहं गृह्णामि नो भार्यां परवेश्मनि संस्थिताम्
पुनःपुनरुवाचेदं नाहं रामो महीश्वरः । यः परस्य गृहे संस्थां जानकीं वै ररक्ष सः
इति वाक्यं समाश्रुत्य चारः क्रोधपरिप्लुतः । खड्गं गृहीत्वा स्वकरे तं हंतुं विदधे मनः
स रामोक्तं च सस्मार न वध्यः कोपि मे जनः । इति ज्ञात्वा सरोषं तु संजहार महामनाः
तदा श्रुत्वा सुदुःखार्तः पंचचारा यतः स्थिताः । ततो गतः प्रकुपितो निःश्वसन्मुहुरुच्छ्वसन्
ते वै परस्परं तत्र मिलितास्तु समब्रुवन् । स्वश्रुतं रामचरितं सर्वलोकैकपूजितम्
ते तद्भाषितमाकर्ण्य परस्परममंत्रयन् । न वाच्यं रघुनाथाया वाच्यं दुष्टजनोदितम्
इति संमंत्र्य ते गेहं गत्वा सुषुपुरुत्सुकाः । प्राता राज्ञे प्रशंसाम इति बुद्ध्या व्यवस्थिताः
शेष उवाच। प्रातर्नित्यं विधायासौ ब्राह्मणान्वेदवित्तमान् । हिरण्यदानैः संतर्प्य विधिवत्संसदं ययौ
लोकाः सर्वे नमस्कर्तुं रघुनाथं महीपतिम् । पुत्रवत्स्वप्रजाः सर्वाः पालयंतं ययुः सभाम्
लक्ष्मणेनातपत्रं तु धृतं मूर्धनि भूपतेः । तदा भरतशत्रुघ्नौ चामरद्वंद्व धारिणौ
वसिष्ठप्रमुखास्तत्र मुनयः पर्युपासत । सुमंत्रप्रमुखास्तत्र मंत्रिणो न्यायकर्तृकाः
एवं प्रवृत्ते समये षट्चारास्ते स्वलंकृताः । समाजग्मुर्नरपतिं नमस्कर्तुं सभास्थितम्
तान्वक्तुकामान्संवीक्ष्य चारान्नृपतिसत्तमः । सभायामंतरावेश्म रहः प्राविशदुत्सुकः
एकांते तांश्चरान्सर्वान्पप्रच्छ सुमतिर्नृपः । कथयंतु चरा मह्यं यथातथ्यमरिंदमाः
लोका ब्रुवंति मां कीदृग्भार्याया मम कीदृशम् । मंत्रिणां कीदृशं लोका वदंति चरितं कथम्
इति वाक्यं समाकर्ण्य चारा राममथाब्रुवन् । मेघगंभीरया वाचा पृच्छंतं रघुनायकम्
चारा ऊचुः। नाथ कीर्तिर्जनान्सर्वान्पावयत्यधुना भुवि । गृहेगृहे श्रुतास्माभिः पुरुषैः स्त्रीभिरीडिता
विवस्वतो महान्वंशो भवता परमेष्ठिना । अलंकर्तुं गतं भूमौ कीर्तिर्विस्तारिता बहुः
अनेके सगराद्याश्च कीर्तिमंतो महाबलाः । अभवंस्तादृशी कीर्तिस्तेषां नाभूद्यथा तव
त्वया नाथेन सकलाः कृतार्थाश्च प्रजाः कृताः । यासां नाकालमरणं न च रागाद्युपद्रुतिः
यादृशश्चंद्रमालोके यादृशी जाह्नवी सरित् । तादृक्तव च सत्कीर्तिः प्रकाशयति भूतलम्
ब्रह्मादिका भवत्कीर्तिमाकर्ण्य त्रपिता भृशम् । नाथ सर्वत्र ते कीर्तिः पावयत्यधुना जनान्
वयं धन्यतमाः सर्वे ये चारास्तव भूपते । क्षणेक्षणे तव मुखं लोकयाम मनोहरम्
इत्यादिवाक्यं चाराणां पंचानां वीक्ष्य राघवः । षष्ठं पप्रच्छ चारं तं विलक्षणमुखांकितम्
राम उवाच। सत्यं वद महाबुद्धे यच्छ्रुतं लोकसंकरे । तादृक्प्रशंस मे सर्वमन्यथा पातकादिकृत्
पुनः पुनश्च तं रामः पप्रच्छाशु सविस्तरम् । तथापि न ब्रवीत्येव रामं लौकिकभाषितम्
तदा रामः प्रत्यवोचच्चारं मुखविलक्षितम् । शपामि त्वां तु सत्येन शंस सर्वं यथातथम्