इत्यादि वाक्यं संश्रुत्य गतश्चान्यनिवेशनम् । तावदन्यश्चरो वाक्यं शुश्राव यशसान्वितम्
काचित्पुष्पमयीं शय्यां चंदनं सह चंद्रकम् । सर्वं विधाय कामार्हं जगाद वचनं पतिम्
पते कुरुष्व भोगार्हे शयनं पुष्पमंचके । चंदनादिकलेपं च तथा भोगमनेकधा
त्वादृशा एव भोगार्हा न च रामपराङ्मुखाः । सर्वं रामकृपाप्राप्तमुपभुंक्ष्व यथातथम्
मत्सदृशी कामिनी ते चंदनं तापहारकम् । पर्यंकः पुष्परचितः सर्वं रामकृपाभवम्
ये रामं न भजिष्यंति ते नरा जठरं स्वयम् । न भर्तुं शक्नुवंत्येव वस्त्रभोगादि वर्जिताः
इति ब्रुवंतीं महिलां हर्षितः पतिरब्रवीत् । सर्वं तथ्यं ब्रवीषि त्वं मम रामकृपाभवम्
इत्येवं रामभद्रस्य यशः श्रुत्वा गतश्चरः । तावदन्यस्य वेश्मस्थश्चरोऽन्य शुश्रुवे वचः
काचित्कांतेन पर्यंके वीणावादनतत्परा । कांतेन रामसत्कीर्तिं गायमाना पतिं जगौ
स्वामिन्वयं धन्यतमा येषां पुर्याः पतिः प्रभुः । श्रीरामः स्वप्रजाः पुत्रानिव पाति च रक्षकः
यो महत्कर्मदुःसाध्यं कृतवान्सुलभं न तत् । समुद्रं यो निजग्राह सेतुं तत्र बबंध च
रावणं यो रिपुं हत्वा लंकां संभज्य वानरैः । जानकीमाजहारात्र महदाचारमाचरत्
इति प्रोक्तं समाकर्ण्य वचः सुमधुराक्षरम् । पतिः स्मितं चकारेमां वाक्यं पुनरथाब्रवीत्
मुग्धेनेदं महत्कर्म रामचंद्रस्य भामिनी । दशाननवधादीनि समुद्र दमनानि च
लीलयायोऽवनिं प्राप्तो ब्रह्मादिप्रार्थितो महान् । करोति सच्चरित्राणि महापापहराणि च
मा जानीहि नरं रामं कौसल्यानंददायकम् । सृजत्यवति हंत्येतद्विश्वं लीलात्तमानुषः
धन्या वयं ये रामस्य पश्यामो मुखपंकजम् । ब्रह्मादिसुरदुर्दर्शं महत्पुण्यकृतो वयम्
अशृणोद्रामचंद्रस्य चरित्रं श्रुतिसौख्यदम् । इत्यादिवाक्यं शुश्राव चारो द्वारिस्थितो मुहुः
अन्यो ह्यन्यं गृहं गत्वा तस्थौ श्रोतुं हरेर्यशः । तत्रापि रामभद्रस्य यशः शुश्राव शोभनम्
खेलंती स्वामिना सार्धं द्यूतेन सुमनोहरा । उवाच वाक्यं मधुरं नर्तयंतीव कंकणे
जितं मया कांत जवेन सर्वं । करिष्यसि त्वं किमु हारिमानसः । इत्यादि वाक्यं परिहासपूर्वकं । कृत्वा स्वकांतं परिषस्वजे मुदा
उवाच कांतश्चार्वंगि जितमेव सुशोभने । रामं मे स्मरतो नित्यं न कुत्रापि पराजयः
इदानीं त्वां तु जेष्यामि रामं स्मृत्वा मनोहरम् । देवा यथा पुरा स्मृत्वा दितिजानजयन्क्षणात्
एवमुक्त्वा पाशकानां परिवर्तनमाकरोत् । तावज्जयं प्रपेदेऽसौ हर्षितो वाक्यमब्रवीत्
मम प्रोक्तमृतं जातं जिता त्वं नवयौवना । रामस्मारी कदाप्येव न भवेद्रिपुतो भयी
इत्येवं तौ वदंतौ च परस्परमथोत्सुकौ । परिरभ्य दृढं प्रेम्णा ततश्चारो गतो गृहम्
एवं पंचमहाचारा राज्ञः संश्रुत्य वै यशः । परस्परं प्रशंसंतो गेहं स्वं स्वं ययुर्मुदा
एकः षष्ठश्चरः कारुगेहानालोक्य तत्र ह । जगाम श्रोतुकामोऽसौ यशो राज्ञो महीपतेः
रजकः क्रोधसंस्पृष्टो भार्यामन्यगृहोषिताम् । पदा संताडयामास धिक्कुर्वञ्छोणनेत्रवान्
गच्छ त्वं मद्गृहात्तस्य गेहं यत्रोषिता दिनम् । नाहं गृह्णामि भवतीं दुष्टां वचनलंघिनीम्