यस्याभवादृशः स्वामी देवसंस्तुतसत्पदः । तस्याः सर्वं वरीवर्ति न किंचिदवशिष्यते
त्वमाग्रहात्पृच्छसि मां दोहदं मनसि स्थितम् । ब्रवीमि पुरतः सत्यं तव स्वामिन्मनोहर
चिरं जातं मया सत्यो लोपामुद्रादिकाः स्त्रियः । दृष्ट्वा स्वामिन्मनो द्रष्टुं ता उत्सुकति सुंदरीः
राज्यं प्राप्ता त्वया सार्द्धमनेकसुखमास्थिता । कृतघ्नाहं कदापीह ता नमस्कर्तुमानसा
तत्र गत्वा तपःकोशान्वस्त्राद्यैः परिपूजये । रत्नानि चैव भास्वंति भूषा अपि समर्पये
यथा मे तोषिताः सत्यो ददत्याशीर्मनोहराः । एष मे दोहदः कांत परिपूरय मानसः
इत्थमाकर्ण्य वचनं सीतायाः सुमनोहरम् । जगाद परमप्रीतो रामचंद्रः प्रियां प्रति
धन्यासि जानकी प्रातर्गमिष्यसि तपोधनाः । प्रेक्ष्यतास्तु कृतार्था त्वमागमिष्यसि मेंऽतिकम्
इति रामवचः श्रुत्वा परमां प्रीतिमाप सा । प्रातर्मम भवत्यद्धा तापसीनां समीक्षणम्
अथ तन्निशि रामेण चाराः कीर्तिं निजां श्रुताम् । प्रेक्षितुं प्रेषितास्ते तु निशीथे ह्यगमनञ्छनैः
ते प्रत्यहं रामकथाः शृण्वंतः सुमनोहराः । तद्दिने गतवंतस्तु धनाढ्यस्य गृहं महत्
दीपं वीक्ष्य प्रज्वलंतं वचनं वीक्ष्य मानुषम् । स्थितास्तत्र क्षणं चाराः समशृण्वन्यशो भृशम्
तत्र काचन वामाक्षी बालकं प्रति हर्षिता । स्तनं धयंतं निजगौ वाक्यं तु सुमनोहरम्
पिब पुत्र यथेष्टं त्वं स्तन्यं मम मनोहरम् । पश्चात्तव सुदुष्प्रापं भविष्यति ममात्मज
एतत्पुर्याः पती रामो नीलोत्पलदलप्रभः । तत्पुरीस्थजनानां तु न भविष्यति वै जनुः
जन्माभावात्कथं पानं स्तन्यस्य भुवि जायते । तस्मात्पिब मुहुः स्तन्यं दुर्ल्लभं हृदि मन्य च
ये श्रीरामं स्मरिष्यंति ध्यायंति च वदंति ये । तेषामपि पयःपानं न भविष्यति जातुचित्
इत्यादिवाक्यं संश्रुत्य श्रीरामयशसोऽमृतम् । हर्षिताः प्रययुर्गेहमन्यद्भाग्यवतो महत्
तावदन्यश्चरस्तत्र मनोरममिदं गृहम् । मत्वा तिष्ठन्हि रामस्य क्षणं शुश्रूषया यशः
तत्र काचिन्निजं कांतं पर्यंकोपरि सुस्थितम् । तांबूलं चर्वती दत्तं भर्त्तास्नेहेन सुंदरी
कंकणस्वरशोभाढ्या कर्पूरागरुधूपिता । कांतं वीक्ष्य चलन्नेत्रा कामरूपमवोचत
नाथ त्वं तादृशो मह्यं भासि यादृग्रघोः पतिः । अत्यंतं सुंदरतरं वपुर्बिभ्रत्सुकोमलम्
पद्मप्रांतं नेत्रयुग्मं वक्षो मोहनविस्तृतम् । भुजौ च सांगदौ बिभ्रत्साक्षाद्राम इवासि मे
इति वाक्यं समाकर्ण्य कांतायाः सुमनोहरम् । उवाच नेत्रयोः प्रांतं नर्तयन्कामसुंदरः
शृणु कांते त्वया प्रोक्तं साध्व्या तु सुमनोहरम् । पतिव्रतानां तद्योग्यं स्वकांतो राम एव हि
परं क्वाहं मंदभाग्यः क्व रामो भाग्यवान्महान् । क्व चाहं कीटवत्तुच्छः क्व ब्रह्मादिसुरार्चितः
खद्योतः क्व नभोरत्नं शलभः क्व नु पामरः । गजारिः क्व मृगेंद्रोऽसौ शशकः क्व नु मंदधीः
क्व च सा जाह्नवी देवी क्व रथ्या जलमुत्पथम् । क्व मेरुः सुरसंवासः क्व गुंजापुंजकोल्पकः
तथाहं क्व क्व रामोऽसौ यत्पादरजसांगना । शिलीभूता क्षणाज्जाता ब्रह्ममोहनरूपधृक्
इति वाक्यं प्रब्रुवाणं परिरेभे निजं पतिम् । जातकामा हृतप्रेम्णा नर्तित भ्रू धनुर्धरा