रुक्मिणा राजपुत्रेण युद्धाय समुपस्थिताः । अनुयाता हरिं क्रुद्धाश्चतुरंगबलान्विताः
बलभद्रो महाबाहुरवरुह्य रथोत्तमात् । लांगलं मुशलं गृह्य निजघान क्षणादरीन्
रथानश्वान्महानागांस्तथा पादचरानपि । लांगलमुशलाम्यां वै निजघान बलाद्रणे
तस्य लांगलपातेन चूर्णिता रथपंक्तयः । नागाश्च पतिता भूमौ वज्रेणेव महीधराः
निर्भिन्नमस्तकाः सर्वे वमंतो रुधिरं बहु । क्षणेनैव हतं सैन्यं बलरामेण वै तदा
साश्वं सनागं सरथं सपदातिं महारणे । समंतात्समरे तत्र सुस्रुवुः शोणितापगाः
प्रभग्नाः पार्थिवाः सर्वे दुद्रुवुर्भयपीडिताः । कृष्णेन कदनं चक्रे रुक्मी क्रोधवशाद्बली
धनुरुद्यम्य बाणौघैस्ताडयामास शार्ङ्गिणम् । ततः प्रहस्य गोविंदः शार्ङ्गमादाय लीलया
जघानैकेनबाणेन रथाश्वांस्तस्य सारथिम् । रथंध्वजं पताकां च चिच्छेद धरणीधरः
विरथः खङ्गमादाय धरण्यां स उपस्थितः । कृष्णस्तु खङ्गं चिच्छेद बाणेनैकेन वीर्यवान्
ततः स मुष्टिमुद्यम्य कृष्णं वक्षस्यताडयत् । तं जग्राह रणे वीरं निबध्य निबिडं हरिः
तीक्ष्णं क्षुरप्रमादाय प्रहसन्मधुसूदनः । शिरसो मुंडनं कृत्वा मुमोच च जनार्दनः
स तु शोकसमाविष्टो निःश्वसन्नुरगो यथा । आविवेश पुरं स्वीयं स तु तत्रैव चावसत्
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे श्रीकृष्णचरिते विदर्भसेनाविध्वंसनंनाम सप्तचत्वारिंशदधिकद्विशततमोऽध्यायः
रुद्र उवाच- अथ कृष्णस्तु रामेण रुक्मिण्या दारुकेण च । दिव्यं स्यंदनमारुह्य ययौ तूर्णं स्वमालयम्
ततः प्रविश्य नगरीं द्वारकां देवकीसुतः । शुभेह्रि शुभलग्ने वै वेदोक्तविधिना हरिः
उपयेमे नृपसुतां रुक्मिणीं रुक्मभूषिताम् । तस्मिन्नुद्वाहसमये देवदुंदुभयो दिवि
विनेदुः पुष्पवर्षाणि ववृषुः सुरसत्तमाः । वसुदेवोग्रसेनौ च तथाक्रूरो यदूत्तमः
बलभद्रो महातेजा ये चान्ये यदुपुंगवाः । चक्रुः कृष्णस्य रुक्मिण्या विवाहं सुसुखं यथा
नंदगोपोथ गोपालैर्गोपवृंदैः समागतः । स्वलंकृताभिर्योषाभिर्यशोदा च समागता
वसुदेवस्त्रियः सर्वा देवकीप्रमुखास्तथा । रेवती रोहिणी देवी याश्चान्याः पुरयोषितः
सर्वाण्युद्वाहकर्माणि चक्रुर्हर्षसमन्विताः । सुराणामर्चनं प्रीत्या कर्त्तव्यं तत्र देवकी
वृद्धाभिर्नृपयोषिद्भिश्चकार विधिना तदा । सर्वमौद्वाहिकं कर्म उत्सवं हि द्विजोत्तमैः
ब्राह्मणान्भोजयामास वस्त्रैराभरणैः शुभैः । उग्रसेनादयस्तत्र राजानश्च सुपूजिताः
नंदगोपादयो गोपा यशोदाद्याश्च योषितः । बहुभिः स्वर्णरत्नाद्यैर्वासोभिः सविभूषणैः
पूजिताः संप्रहृष्टास्ते तद्विवाहमहोत्सवे । तौ दंपती समाश्लिष्य प्रणतौ जातवेदसम्
वेदविद्भिर्विप्रमुख्यैराशीर्भिरभिनंदितौ । तस्यां विवाहवेद्यां तु शुशुभाते वधूवरौ
ब्राह्मणेभ्योऽथ वृद्धेभ्यो राजन्यः सह भार्य्यया । ववंदे देवकीपुत्रो ज्येष्ठस्य भ्रातुरेव च
एवमौद्वाहिकं सर्वं निर्वर्त्य मधुसूदनः । व्यसर्जयन्नृपान्सर्वान्ये च तत्र समागताः
प्रस्थिता हरिणा तत्र पूजिता नृपपुंगवाः । ब्राह्मणाः सुमहात्मानो निर्ययुः स्वकमालयम्