इत्युक्तं स श्रुतौ धृत्वा जगाद स द्विजात्मजान् । यूयं बलं न जानीथ क्षत्रियाणां द्विजोत्तमाः
क्षत्रिया वीर्यशौंडीर्या द्विजा भोजनशालिनः । तस्माद्यूयं गृहे गत्वा भुंजंतु जननी हृतम्
इत्युक्तास्तेऽभवंस्तूष्णीं प्रेक्षंतस्तत्पराक्रमम् । लवस्य मुनिपुत्रास्ते संतस्थुर्दूरतो बहिः
एवं व्यतिकरे वृत्ते सेवकास्तस्य भूपतेः । आयातास्तं हयं बद्धं दृष्ट्वा प्रोचुस्तदा लवम्
बबंध को हयमहो रुष्टः कस्य च धर्मराट् । को बाणव्रजमध्यस्थः प्राप्स्यते परमां व्यथाम्
तदा लवो जगादाशु मया बद्धोऽश्व उत्तमः । यो मोचयति तस्याशु रुष्टो भ्राता कुशो महान्
यमः करिष्यति किमु ह्यागतोऽपि स्वयं प्रभुः । नत्वा गमिष्यति क्षिप्रं शरवृष्ट्या सुतोषितः
शेष उवाच। इति वाक्यं समाकर्ण्य बालोयमिति तेब्रुवन् । समागता मोचयितुं हयं बद्धं तु ये हरेः
तान्वैमोचयितुं प्राप्ताञ्छत्रुघ्नस्य च सेवकान् । कोदंडं करयोर्धृत्वा क्षुरप्रान्सममूमुचत्
ते छिन्नबाहवः शोकाच्छत्रुघ्नं प्रतिसंगताः । पृष्टास्ते जगदुः सर्वे लवात्स्वभुजकृंतनम्
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे लवेन हयबंधनंनाम चतुःपंचाशत्तमोऽध्यायः
व्यास उवाच। एतां श्रुत्वा कथां रम्यां लवस्य बलिनो मुनिः । संशयानः पर्यपृच्छन्नागं दशशताननम्
श्रीवात्स्यायन उवाच। त्वयोक्तं तु पुरा रामः सीतामेकाकिनीं वने । रजकस्य दुरुक्त्यासौ तत्याज महि लोलुपः
जानक्यां क्व सुतौ जातौ क्व धनुर्धरतां गतौ । कथं च शिक्षिता विद्या यो रामहयमाहरत्
व्यास उवाच। इति श्रुत्वा मुनेर्वाक्यं शेषो नागो महामतिः । प्रशस्य विप्रं जगदे रामचारित्रमद्भुतम्
शेष उवाच। रामो राज्यमयोध्यायां भ्रातृभिः सहितोऽकरोत् । धर्मेण पालयन्सर्वं क्षितिखंडं स्वया स्त्रिया
सीता दधार तद्वीर्यं मासाः पंचाभवंस्तदा । अत्यंतं शुशुभे देवी त्रयीव पुरुषं धरा
कदाचित्समये रामः पप्रच्छ च विदेहजाम् । कीदृशो दोहदः साध्वि मया ते साध्यते हि सः
रहस्येव तु सा पृष्टा त्रपमाणा पतिं सती । लज्जा गद्गद वाग्रामं निजगाद वचोऽमृतम्
सीतोवाच। त्वत्कृपातो मया सर्वं भुक्तं भोक्ष्यामि शोभनम् । न कश्चिन्मानसे कांत विषयो ह्यतिरिच्यते
यस्याभवादृशः स्वामी देवसंस्तुतसत्पदः । तस्याः सर्वं वरीवर्ति न किंचिदवशिष्यते
त्वमाग्रहात्पृच्छसि मां दोहदं मनसि स्थितम् । ब्रवीमि पुरतः सत्यं तव स्वामिन्मनोहर
चिरं जातं मया सत्यो लोपामुद्रादिकाः स्त्रियः । दृष्ट्वा स्वामिन्मनो द्रष्टुं ता उत्सुकति सुंदरीः
राज्यं प्राप्ता त्वया सार्द्धमनेकसुखमास्थिता । कृतघ्नाहं कदापीह ता नमस्कर्तुमानसा
तत्र गत्वा तपःकोशान्वस्त्राद्यैः परिपूजये । रत्नानि चैव भास्वंति भूषा अपि समर्पये
यथा मे तोषिताः सत्यो ददत्याशीर्मनोहराः । एष मे दोहदः कांत परिपूरय मानसः
इत्थमाकर्ण्य वचनं सीतायाः सुमनोहरम् । जगाद परमप्रीतो रामचंद्रः प्रियां प्रति
धन्यासि जानकी प्रातर्गमिष्यसि तपोधनाः । प्रेक्ष्यतास्तु कृतार्था त्वमागमिष्यसि मेंऽतिकम्
इति रामवचः श्रुत्वा परमां प्रीतिमाप सा । प्रातर्मम भवत्यद्धा तापसीनां समीक्षणम्
अथ तन्निशि रामेण चाराः कीर्तिं निजां श्रुताम् । प्रेक्षितुं प्रेषितास्ते तु निशीथे ह्यगमनञ्छनैः