यत्रयत्र गतो वाहस्तत्रतत्र परिभ्रमन् । सैन्येन महता यातः शत्रुघ्नः सुरथेन च
कदाचिज्जाह्नवीतीरे वाल्मीकेराश्रमं वरम् । गतो मुनिवरैर्जुष्टं प्रातर्धूमेन चिह्नितम्
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे रघुनाथसमागमोनाम त्रिपंचाशत्तमोऽध्यायः
शेष उवाच। गतः प्रातःक्रियां कर्तुं समिधस्तत्क्रियार्हकाः । आनेतुं जानकीसूनुर्वृतो मुनिसुतैर्लवः
ददर्श तत्र यज्ञाश्वं स्वर्णपत्रेण चिह्नितम् । कुंकुमागरुकस्तूरी दिव्यगंधेन वासितम्
विलोक्य जातकुतुको मुनिपुत्रानुवाच सः । अर्वा कस्य मनोवेगः प्राप्तो दैवान्मदाश्रमम्
आगच्छंतु मया सार्धं प्रेक्षंतां मा भयं कृथाः । इत्युक्त्वा स लवस्तूर्णं वाहस्य निकटे गतः
स रराज समीपस्थो वाहस्य रघुवंशजः । धनुर्बाणधरः स्कंधे जयंत इव दुर्जयः
गत्वा मुनिसुतैः सार्धं वाचयामास पत्रकम् । भालस्थितं स्पष्टवर्णराजिराजितमुत्तमम्
विवस्वतो महान्वंशः सर्वलोकेषु विश्रुतः । यत्र कोपि पराबाधी न परद्रव्यलंपटः
सूर्यवंशध्वजो धन्वी धनुर्दीक्षा गुरुर्गुरुः । यं देवाः सामराः सर्वे नमंति मणिमौलिभिः
तस्यात्मजो वीर बलदर्पहारी रघूद्वहः । रामचंद्रो महाभागः सर्वशूरशिरोमणिः
तन्माता कोशलनृपपुत्रीरत्नसमुद्भवा । तस्याः कुक्षिभवं रत्नं रामः शत्रुक्षयंकरः
करोति हयमेधं स ब्राह्मणेन सुशिक्षितः । रावणाभिधविप्रेंद्र वधपापापनुत्तये
मोचितस्तेन वाहानां मुख्योऽसौ याज्ञिको हयः । महाबलपरीवारो परिखाभिः सुरक्षितः
तद्रक्षकोऽस्ति मद्भ्राता शत्रुघ्नो लवणांतकः । हस्त्यश्वरथपादातसंघसेनासमन्वितः
यस्य राज्ञ इति श्रेष्ठो मानो जायेत्स्वकान्मदात् । शूरा वयं धनुर्धारि श्रेष्ठा वयमिहोत्कटाः
ते गृह्णंतु बलाद्वाहं रत्नमालाविभूषितम् । मनोवेगं कामजवं सर्वगत्याधिभास्वरम्
ततो मोचयिता भ्राता शत्रुघ्नो लीलया हठात् । शरासनविनिर्मुक्त वत्सदंतकृतव्यथात्
ये क्षत्रियाः क्षत्रियकन्यकायां । जाताश्च सत्क्षेत्रकुलेषु सत्सु । गृह्णंतु ते तद्विपरीतदेहा । नमंतु राज्यं रघवे निवेद्य
इति संवाच्य कुपितो लवः शस्त्रधनुर्धरः । उवाच मुनिपुत्रांस्तान्रोषगद्गदभाषितः
पश्यत क्षिप्रमेतस्य धृष्टत्वं क्षत्रियस्य वै । लिलेख यो भालपत्रे स्वप्रतापबलं नृपः
कोऽसौ रामः कः शत्रुघ्नः कीटाः स्वल्पबलाश्रिताः । क्षत्रियाणां कुले जाता एते न वयमुत्तमाः
एतस्य वीरसूर्माता जानकी न कुशप्रसूः । या रत्नं कुशसंज्ञं तु दधाराग्निमिवारणिः
इदानीं क्षत्रियत्वादि दर्शयिष्यामि सर्वतः । यदि क्षत्रियभूरेष भविष्यति च शत्रुहा
गृहीष्यति मया बद्धं वाहं यज्ञक्रियोचितम् । नोचेत्क्षत्रत्वमुन्मुच्य कुशस्य चरणार्चकः
अधुना मद्धनुर्मुक्तैः शरैः सुप्तो भविष्यति । अन्ये ये च महावीरा रणमंडलभूषणाः
इत्यादिवाक्यमुच्चार्य लवो जग्राह तं हयम् । तृणीकृत्य नृपान्सर्वांश्चापबाणधरो वरः
तदा मुनिसुताः प्रोचुर्लवं हयजिहीर्षकम् । अयोध्यानृपती रामो महाबलपराक्रमः
तस्य वाहं न गृह्णाति शक्रोऽपि स्वबलोद्धतः । मा गृहाण शृणुष्वेदं मद्वाक्यं हितसंयुतम्