ते मूर्च्छां तत्यजुर्दृष्टा रामेण सुरसेविना । उत्थिता ददृशुः श्रीमद्रामचंद्रं मनोरमम्
प्रणतास्ते रघुपतिं तेन पृष्टा अनामयम् । सुखीभूता नृपं प्रोचुः सर्वं स्वकुशलं नृपाः
सुरथो वीक्ष्य रामं च कृपार्थं सेवकात्मनः । आगतं सकलं राज्यं सहयं सुमुदार्पयत्
अनेकवरिवस्याभिः श्रीरामं समतोषयत् । कथयामास मेऽन्याय्यं कृतं ते क्षम राघव । श्रीरामस्तमुवाचाथ कृतं ते वाहरक्षणम्
क्षत्त्रियाणामयं धर्मः स्वामिना सह युद्ध्यते । त्वया साधुकृतं कर्म रणे वीराः प्रतोषिताः
इत्युक्तवंतं नृहरिं पूजयन्ससुतोऽभवत् । श्रीरामस्त्रिदिनं स्थित्वा ययौ तमनुमंत्र्य च
कामगेन विमानेन मुनिभिः सहितो महान् । तं दृष्ट्वा विस्मितास्तस्य कथाश्चक्रुर्मनोहराः
चंपकं स्वपुरे स्थाप्य सुरथः क्षत्रियो बली । शत्रुघ्नेन समं यातुं मनश्चक्रे महाबलः
शत्रुघ्नः स्वहयं प्राप्य भेरीनादानकारयत् । शंखनादान्बहुविधान्सर्वत्र समवादयत्
सुरथेन समं वीरो यज्ञवाहममूमुचत् । स बभ्रामापरान्देशान्न कोपि जगृहे बली
यत्रयत्र गतो वाहस्तत्रतत्र परिभ्रमन् । सैन्येन महता यातः शत्रुघ्नः सुरथेन च
कदाचिज्जाह्नवीतीरे वाल्मीकेराश्रमं वरम् । गतो मुनिवरैर्जुष्टं प्रातर्धूमेन चिह्नितम्
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे रघुनाथसमागमोनाम त्रिपंचाशत्तमोऽध्यायः
शेष उवाच। गतः प्रातःक्रियां कर्तुं समिधस्तत्क्रियार्हकाः । आनेतुं जानकीसूनुर्वृतो मुनिसुतैर्लवः
ददर्श तत्र यज्ञाश्वं स्वर्णपत्रेण चिह्नितम् । कुंकुमागरुकस्तूरी दिव्यगंधेन वासितम्
विलोक्य जातकुतुको मुनिपुत्रानुवाच सः । अर्वा कस्य मनोवेगः प्राप्तो दैवान्मदाश्रमम्
आगच्छंतु मया सार्धं प्रेक्षंतां मा भयं कृथाः । इत्युक्त्वा स लवस्तूर्णं वाहस्य निकटे गतः
स रराज समीपस्थो वाहस्य रघुवंशजः । धनुर्बाणधरः स्कंधे जयंत इव दुर्जयः
गत्वा मुनिसुतैः सार्धं वाचयामास पत्रकम् । भालस्थितं स्पष्टवर्णराजिराजितमुत्तमम्
विवस्वतो महान्वंशः सर्वलोकेषु विश्रुतः । यत्र कोपि पराबाधी न परद्रव्यलंपटः
सूर्यवंशध्वजो धन्वी धनुर्दीक्षा गुरुर्गुरुः । यं देवाः सामराः सर्वे नमंति मणिमौलिभिः
तस्यात्मजो वीर बलदर्पहारी रघूद्वहः । रामचंद्रो महाभागः सर्वशूरशिरोमणिः
तन्माता कोशलनृपपुत्रीरत्नसमुद्भवा । तस्याः कुक्षिभवं रत्नं रामः शत्रुक्षयंकरः
करोति हयमेधं स ब्राह्मणेन सुशिक्षितः । रावणाभिधविप्रेंद्र वधपापापनुत्तये
मोचितस्तेन वाहानां मुख्योऽसौ याज्ञिको हयः । महाबलपरीवारो परिखाभिः सुरक्षितः
तद्रक्षकोऽस्ति मद्भ्राता शत्रुघ्नो लवणांतकः । हस्त्यश्वरथपादातसंघसेनासमन्वितः
यस्य राज्ञ इति श्रेष्ठो मानो जायेत्स्वकान्मदात् । शूरा वयं धनुर्धारि श्रेष्ठा वयमिहोत्कटाः
ते गृह्णंतु बलाद्वाहं रत्नमालाविभूषितम् । मनोवेगं कामजवं सर्वगत्याधिभास्वरम्
ततो मोचयिता भ्राता शत्रुघ्नो लीलया हठात् । शरासनविनिर्मुक्त वत्सदंतकृतव्यथात्
ये क्षत्रियाः क्षत्रियकन्यकायां । जाताश्च सत्क्षेत्रकुलेषु सत्सु । गृह्णंतु ते तद्विपरीतदेहा । नमंतु राज्यं रघवे निवेद्य