स क्षणात्तां व्यथां तीर्त्वा जगाद रिपुमग्रतः । सहस्वैकं प्रहारं मे कुत्र यासि ममाग्रतः
एवमुक्त्वा महासंख्ये बाणमाधत्त सायके । ज्वालामालापरीतांगं स्वर्णपुंखसमन्वितम्
स बाणो धनुषो मुक्तः शत्रुघ्नेन पथिस्थितः । छिन्नोऽप्यग्रफलेनाशु हृदये समपद्यत
तेन बाणेन संमूर्छ्य पपात स्यंदनोपरि । ततो हाहाकृतं सैन्यं भग्नं सर्वं पराद्रवत्
सुरथो जयमापेदे संग्रामे रामसेवकः । दशवीरा दशसुतैर्मूर्च्छिताः पतिताः क्वचित्
सुग्रीवस्तु तत्कटकं भग्नं वीक्ष्य रणांगणे । स्वामिनं मूर्च्छितं वापि ययौ योद्धुं नृपं प्रति
आगच्छ भूप सर्वान्नो मूर्च्छयित्वा कुतो भवान् । गच्छति क्षिप्रं मां देहि युद्धं रणविशारद
एवमुक्त्वा नगं कंचिद्विशालं शाखया युतम् । उत्पाट्य प्राहरत्तस्य मस्तके बलसंयुतः
तेन प्रहारेण महाबलो नृपः । संवीक्ष्यसु ग्रीवमथो स्वचापे । बाणान्समाधाय शितान्सरोषा । ज्जघान वक्षस्यतिपौरुषो बली
तान्बाणान्व्यधमत्सर्वान्सुग्रीवः सहसा हसन् । ताडयामास हृदये सुरथं सुमहाबलः
पर्वतैः शिखरैश्चैव नगैर्द्विरदवर्ष्मभिः । वेगात्संताडयामास दारयन्सुरथं नखैः
तमप्याशु बबंधास्त्राद्रामसंज्ञात्सुदारुणात् । बद्धः कपिवरो मेने सुरथं रामसेवकम्
गजो यथायसमयीं शृंखलां पादलंबिताम् । प्राप्य किंचिन्न वै कर्तुं शक्नोति स तथा ह्यभूत्
जितं तेन महाराज्ञा सुरथेन सुपुत्रिणा । सर्वान्वीरान्रथे स्थाप्य ययौ स्वनगरं प्रति
गत्वा सभायां सुमहान्बद्धं मारुतिमब्रवीत् । स्मर श्रीरघुनाथं त्वं दयालुं भक्तपालकम्
यथा त्वां बंधनात्सद्यो मोचयिष्यति सुष्ठुधीः । नान्यथायुतवर्षेण मोचयिष्यामि बंधनात्
इत्युक्तमाकर्ण्य समीरजस्तदा । सुबद्धमात्मानमवेक्ष्य वीरान् । संमूर्च्छिताञ्छत्रुशराभिघात -। पीडायुतान्बंधनमुक्तये स्मरत्
श्रीरामचंद्रं रघुवंशजातं सीतापतिं पंकजपत्रनेत्रम् । स्वमुक्तये बंधनतः कृपालुं सस्मार सर्वैः करणैर्विशोकैः
हनूमानुवाच। हा नाथ हा नरवरोत्तम हा दयालो । सीतापते रुचिरकुंतलशोभिवक्त्र । भक्तार्तिदाहक मनोहररूपधारिन् । मां बंधनात्सपदि मोचय मा विलंबम्
संमोचितास्तु भवता गजपुंगवाद्याः । देवाश्च दानवकुलाग्नि सुदह्यमानाः । तत्सुंदरीशिरसिसंस्थितकेशबंधः । संमोचितस्तु करुणालय मां स्मरस्व
त्वं यागकर्मनिरतोऽसि मुनीश्वरेंद्रै । र्धर्मं विचारयसि भूमिपतीड्यपाद । अत्राहमद्य सुरथेन विगाढपाश -। बद्धोस्मि मोचय महापुरुषाशु देव
नो मोचयस्यथ यदि स्मरणातिरेकात् । त्वं सर्वदेववरपूजितपादपद्म । लोको भवंतमिदमुल्लसितोऽहसिष्य -। त्तस्माद्विलंबमिह माचर मोचयाशु
इति श्रुत्वा जगन्नाथो रघुवीरः कृपानिधिः । भक्तं मोचयितुं प्रागात्पुष्पकेणाशुवेगिना
लक्ष्मणेनानुगेनाथ भरतेन सुशोभितम् । मुनिवृंदैर्व्यासमुख्यैः समेतं ददृशे कपिः
तमागतं निजं नाथं वीक्ष्य भूपं समब्रवीत् । पश्य राजन्निजं मोक्तुमायातं कृपया हरिम्
अनेके मोचिताः पूर्वं स्मरणात्सेवका निजाः । तथा मां पाशतो बद्धं संमोचयितुमागतः
श्रीरामभद्रमायांतं वीक्ष्यासौ सुरथः क्षणात् । नतीश्च शतशश्चक्रे भक्तिपूरपरिप्लुतः
श्रीरामस्तं निजैर्दोर्भिः परिरेभे चतुर्भुजः । मूर्ध्नि सिंचन्नश्रुजलैर्हर्षाद्भक्तं स्वकं मुहुः
उवाच धन्यदेहोऽसि महत्कर्म कृतं त्वया । कपीश्वरस्त्वया बद्धो हनूमान्सर्वतो बलः
श्रीरामः कपिवर्यं तं मोचयामास बंधनात् । मूर्छितांस्तान्भटान्सर्वान्वीक्ष्य दृष्ट्या स्वजीवयत्