मूर्च्छां प्राप महातेजाः पुष्कलो महदद्भुतम् । युद्धं विधाय सुमहद्राज्ञा सह महामतिः
पुष्कले पतिते राजा शत्रुघ्नः शत्रुतापनः । सुरथं प्रति संक्रुद्धो जगाम स्यंदनस्थितः
उवाच सुरथं भूपं रामभ्राता महाबलः । त्वया महत्कृतं कर्म यद्बद्धः पवनात्मजः
पुष्कलोऽपि महावीरस्तथान्ये मम सैनिकाः । पातिताः प्रधने घोरे महाबलपराक्रमाः
इदानीं तिष्ठ मद्वीरान्पातयित्वा रणांगणे । कुत्र यास्यसि भूमीश सहस्व मम सायकान्
इत्थमाश्रुत्य वीरस्य भाषितं सुरथो बली । जगाद रामपादाब्जं दधच्चेतसि शोभनम्
मया ते पातिताः संख्ये वीरा मारुतजोन्मुखाः । इदानीं पातयिष्यामि त्वामपि प्रधनांगणे
स्मरस्व रामं यो वीरः स्वमागत्य प्ररक्षति । अन्यथा जीवितं नास्ति मत्पुरः शत्रुतापन
इत्युक्त्वा बाणसाहस्रैस्तं जघान महीपतिः । शत्रुघ्नं शरसंघातपंजरे न्यदधात्परम्
शत्रुघ्नः शरसंघातं मुंचंतं वह्निदैवतम् । अस्त्रं मुमोच दाहार्थं शराणां नतपर्वणाम्
तदस्त्रं मुक्तमालोक्य राजा वै सुरथो महान् । वारुणास्त्रेण शमयन्विव्याध शरकोटिभिः
तदा तद्योगिनीदत्तमस्त्रं धनुषि संदधे । मोहनं सर्ववीराणां निद्राप्रापकमद्भुतम्
तन्मोहनं महास्त्रं स वीक्ष्य राजा हरिंस्मरन् । जगाद शत्रुघ्नमयं सर्वशस्त्रास्त्रकोविदः
मोहितस्य मम श्रीमद्रामस्य स्मरणेन ह । नान्यन्मोहनमाभाति ममापि भयतापदम्
इत्युक्तवति वीरे तु मुमोच स महास्त्रकम् । तेन बाणेन संछिन्नं पपात रणमंडले
तन्मोहनं महास्त्रं तु निष्फलं वीक्ष्य भूमिपे । अत्यंतं विस्मयं प्राप्य बाणं धनुषि संदधे
लवणो येन निहतो महासुरविमर्दनः । तं बाणं चाप आधत्त घोरं कान्त्यानलप्रभम्
तं वीक्ष्य राजा प्रोवाच बाणोऽयमसतां हृदि । लगते रामभक्तस्य संमुखेऽपि न भात्यसौ
इत्येवं भाषमाणं तु बाणेनानेन शत्रुहा । विव्याध हृदये क्षिप्रं वह्निज्वालासमप्रभम्
तेन बाणेन दुःखार्तो महापीडासमन्वितः । रथोपस्थे क्षणं मूर्च्छामवाप परतापनः
स क्षणात्तां व्यथां तीर्त्वा जगाद रिपुमग्रतः । सहस्वैकं प्रहारं मे कुत्र यासि ममाग्रतः
एवमुक्त्वा महासंख्ये बाणमाधत्त सायके । ज्वालामालापरीतांगं स्वर्णपुंखसमन्वितम्
स बाणो धनुषो मुक्तः शत्रुघ्नेन पथिस्थितः । छिन्नोऽप्यग्रफलेनाशु हृदये समपद्यत
तेन बाणेन संमूर्छ्य पपात स्यंदनोपरि । ततो हाहाकृतं सैन्यं भग्नं सर्वं पराद्रवत्
सुरथो जयमापेदे संग्रामे रामसेवकः । दशवीरा दशसुतैर्मूर्च्छिताः पतिताः क्वचित्
सुग्रीवस्तु तत्कटकं भग्नं वीक्ष्य रणांगणे । स्वामिनं मूर्च्छितं वापि ययौ योद्धुं नृपं प्रति
आगच्छ भूप सर्वान्नो मूर्च्छयित्वा कुतो भवान् । गच्छति क्षिप्रं मां देहि युद्धं रणविशारद
एवमुक्त्वा नगं कंचिद्विशालं शाखया युतम् । उत्पाट्य प्राहरत्तस्य मस्तके बलसंयुतः
तेन प्रहारेण महाबलो नृपः । संवीक्ष्यसु ग्रीवमथो स्वचापे । बाणान्समाधाय शितान्सरोषा । ज्जघान वक्षस्यतिपौरुषो बली
तान्बाणान्व्यधमत्सर्वान्सुग्रीवः सहसा हसन् । ताडयामास हृदये सुरथं सुमहाबलः