एवमेकोनपंचाशद्रथा भग्ना हनूमता । तत्कर्म वीक्ष्य राजापि विसिस्माय ससैनिकः
कुपितः प्राह कीशेंद्रं धन्योसि पवनात्मज । पराक्रमन्निदं कर्म न कर्ता न करिष्यति
क्षणमेकं प्रतीक्षस्व यावत्सज्यं धनुस्त्वहम् । करोमि पवनोद्भूत रामपादाब्जषट्पद
इत्युक्त्वा चापमात्तज्यं कृत्वा रोषपरिप्लुतः । अस्त्रं पाशुपतं नाम संदधे शर उल्बणे
ततो भूताश्च वेतालाः पिशाचा योगिनीमुखाः । प्रादुर्बभूवुः सहसा भीषयंतः समीरजम्
कपिः पाशुपतैरस्त्रैर्बद्धो लोकैरभीक्षितः । हाहेति च वदंत्येते यावत्तावत्समीरजः
स्मृत्वा रामं स्वमनसा त्रोटयामास तत्क्षणात् । स मुक्तगात्रः सहसा युयुधे सुरथं नृपम्
तं मुक्तगात्रं संवीक्ष्य सुरथः परमास्त्रवित् । महाबलं मन्यमानो ब्राह्ममस्त्रं समाददे
मारुतिर्ब्राह्ममस्त्रं तु निजगाल हसन्बली । तन्निगीर्णं नृपो दृष्ट्वा रामं सस्मार भूमिपः
स्मृत्वा दाशरथिं रामं रामास्त्रं स्वशरासने । संधाय तं जगादेदं बद्धोसि कपिपुंगव
श्रुत्वा तत्प्रक्रमेद्यावत्तावद्बद्धो रणांगणे । राज्ञा रामास्त्रतो वीरो हनूमान्रामसेवकः
उवाच भूपं हनुमान्किंकरोमि महीभुज । मत्स्वाम्यस्त्रेण संबद्धो नान्येन प्राकृतेन वै
तन्मानयामिभूपालनयस्वस्वपुरंप्रति । मोचयिष्यति मत्स्वामी आगत्य स दयानिधिः
बद्धे समीरजे क्रुद्धः पुष्कलो भूमिपं ययौ । तं पुष्कलं समायांतं विव्याध वसुभिः शरैः
अनेकबाणसाहस्रैर्निजघान नृपं बली । राज्ञानेके शरास्तस्य च्छिन्नाः प्रधनमंडले
एवं समरसंक्रुद्धे सुरथे पुष्कले तथा । बाणैर्व्याप्तं जगत्सर्वं स्थास्नुभूयश्चरिष्णु च
तेषां रणोद्यमं वीक्ष्य मुमुहुः सुरसैनिकाः । मानवानां तु का वार्ता क्षणात्त्रासं समीयुषाम्
अस्त्रप्रत्यस्त्रविगमैर्महामंत्रपरिस्तुतैः । बभूव तुमुलं युद्धं वीराणां रोमहर्षणम्
तदा प्रकुपितो राजा नाराचं तु समाददे । छिन्नः स तु क्रुधा मुक्तैर्वत्सदंतैः सभारतैः
छिन्ने तस्मिञ्छरे राजा कोपादन्यं समाददे । छिनत्ति यावत्स शरं तावल्लग्नो हृदि क्षतः
मूर्च्छां प्राप महातेजाः पुष्कलो महदद्भुतम् । युद्धं विधाय सुमहद्राज्ञा सह महामतिः
पुष्कले पतिते राजा शत्रुघ्नः शत्रुतापनः । सुरथं प्रति संक्रुद्धो जगाम स्यंदनस्थितः
उवाच सुरथं भूपं रामभ्राता महाबलः । त्वया महत्कृतं कर्म यद्बद्धः पवनात्मजः
पुष्कलोऽपि महावीरस्तथान्ये मम सैनिकाः । पातिताः प्रधने घोरे महाबलपराक्रमाः
इदानीं तिष्ठ मद्वीरान्पातयित्वा रणांगणे । कुत्र यास्यसि भूमीश सहस्व मम सायकान्
इत्थमाश्रुत्य वीरस्य भाषितं सुरथो बली । जगाद रामपादाब्जं दधच्चेतसि शोभनम्
मया ते पातिताः संख्ये वीरा मारुतजोन्मुखाः । इदानीं पातयिष्यामि त्वामपि प्रधनांगणे
स्मरस्व रामं यो वीरः स्वमागत्य प्ररक्षति । अन्यथा जीवितं नास्ति मत्पुरः शत्रुतापन
इत्युक्त्वा बाणसाहस्रैस्तं जघान महीपतिः । शत्रुघ्नं शरसंघातपंजरे न्यदधात्परम्
शत्रुघ्नः शरसंघातं मुंचंतं वह्निदैवतम् । अस्त्रं मुमोच दाहार्थं शराणां नतपर्वणाम्