सुरथ उवाच। धन्योसि कपिवर्य त्वं महाबलपराक्रमः । येन राममहत्कृत्यं कृतं राक्षसके पुरे
त्वं रामचरणस्यासि सेवको भक्तिसंयुतः । त्वया वीरेण मत्पुत्रः पातितश्चंपको बली
इदानीं त्वां तु संबध्य गंतास्मि नगरेमम । यत्नात्तिष्ठ कपीशेशसत्यमुक्तं मया स्मृतम्
इति भाषितमाकर्ण्य सुरथस्य कपीश्वरः । उवाच धीरया वाण्या रणे वीरैकभूषिते
हनूमानुवाच। त्वं रामचरणस्मारी वयं रामस्य सेवकाः । बध्नासि चेन्मां प्रसभं मोचयिष्यति मत्प्रभुः
कुरु वीर भवत्स्वांतस्थितं सत्यं प्रतिश्रुतम् । रामं स्मरन्वै दुःखांतं याति वेदा वदंत्यदः
शेष उवाच। इति ब्रुवंतं सुरथः प्रशस्य पवनात्मजम् । विव्याध बाणैर्बहुभिः शितैः शाणेन दारुणैः
तान्मुक्तानगणय्याथ बाणाञ्छोणितपातिनः । करे जग्राह कोदंडं सज्यं शरसमन्वितम्
गृहीत्वा करयोश्चापं बभंज कुपितः कपिः । चीत्कुर्वंस्त्रासयन्वीरान्नखैर्दीर्णान्सृजन्भटान्
तेन भग्नं धनुर्दृष्ट्वा स्वकीयं गुणसंयुतम् । अपरं धनुरादत्त महद्गुणविशोभितम्
तच्चापि जगृहे रोषात्कपिश्चापं बभंज तत् । अन्यच्चापं समादत्त तद्बभंज महाबलः
तस्मिंश्चापे प्रभग्नेऽपि सोऽन्यद्धनुरुपाददत् । सोपि चापं बभंजाशु महावेगसमन्वितः
एवं राज्ञस्तु चापानामशीतिर्विदलीकृता । क्षणे क्षणे महारोषात्कुर्वन्नादाननेकधा
तदात्यंतं प्रकुपितः शक्तिमुग्रामथाददे । शक्त्या स ताडितो वीरः पपात क्षणमुत्सुकः
उत्थाय स्यंदनं राज्ञो जग्राह कुपितो भृशम् । उड्डीनस्तं गृहीत्वा तु समुद्रमतिवेगतः
तमुड्डीनं समालक्ष्य सुरथः परवीरहा । ताडयामास परिघैर्हृदि मारुतिमुद्यतम्
मुक्तस्तेन रथो दूराच्चूर्णीभूतोऽभवत्क्षणात् । सोऽन्यरथं समारुह्य ययौ वेगात्समीरजम्
हनूमांस्तद्रथं पुच्छे संवेष्ट्य प्रधनांगणे । हयसारथिसंयुक्तं बभंज सपताकिनम्
अन्यं रथं समास्थाय ययौ राजा महाबलः । बभंज तं रथं वेगान्मारुतिः कुपितांगकः
भग्नं तं स्यंदनं वीक्ष्य सुरथोऽन्यसमाश्रितः । भग्नः स तेन सहसा हयसारथिसंयुतः
एवमेकोनपंचाशद्रथा भग्ना हनूमता । तत्कर्म वीक्ष्य राजापि विसिस्माय ससैनिकः
कुपितः प्राह कीशेंद्रं धन्योसि पवनात्मज । पराक्रमन्निदं कर्म न कर्ता न करिष्यति
क्षणमेकं प्रतीक्षस्व यावत्सज्यं धनुस्त्वहम् । करोमि पवनोद्भूत रामपादाब्जषट्पद
इत्युक्त्वा चापमात्तज्यं कृत्वा रोषपरिप्लुतः । अस्त्रं पाशुपतं नाम संदधे शर उल्बणे
ततो भूताश्च वेतालाः पिशाचा योगिनीमुखाः । प्रादुर्बभूवुः सहसा भीषयंतः समीरजम्
कपिः पाशुपतैरस्त्रैर्बद्धो लोकैरभीक्षितः । हाहेति च वदंत्येते यावत्तावत्समीरजः
स्मृत्वा रामं स्वमनसा त्रोटयामास तत्क्षणात् । स मुक्तगात्रः सहसा युयुधे सुरथं नृपम्
तं मुक्तगात्रं संवीक्ष्य सुरथः परमास्त्रवित् । महाबलं मन्यमानो ब्राह्ममस्त्रं समाददे
मारुतिर्ब्राह्ममस्त्रं तु निजगाल हसन्बली । तन्निगीर्णं नृपो दृष्ट्वा रामं सस्मार भूमिपः
स्मृत्वा दाशरथिं रामं रामास्त्रं स्वशरासने । संधाय तं जगादेदं बद्धोसि कपिपुंगव