चंपकस्तं हनूमंतं युयुधे नभसि स्थितः । बाहुयुद्धेन महता ताडितः कपिपुंगवः
चुकोप मानसे वीरो गर्वपर्वतदारुणः । पदा धृत्वा चंपकं तं ताडयामास भूतले
ताडितोऽसौ कपींद्रेण क्षणादुत्थाय वेगवान् । हनूमंतं तु लांगूले धृत्वा बभ्राम सर्वतः
कपींद्रस्तद्बलं वीक्ष्य हसन्पादेऽग्रहीत्पुनः । भ्रामयित्वा शतगुणं गजोपस्थे ह्यपातयत्
पपात भूमौ सुबलो राजसूनुः स चंपकः । मूर्च्छितो वीरभूषाढ्यमलंकुर्वन्रणांगणम्
तदा हाहेति वै लोकाश्चुक्रुशुश्चंपकानुगाः । पुष्कलं मोचयामास बद्धं चंपकपाशतः
शेष उवाच। चंपकं पतितं दृष्ट्वा सुरथः क्षत्रियो बली । पुत्रदुःखपरीतांगो जगाम स्यंदने स्थितः
कपींद्रमाजुहावाथ सुरथः कोपसंयुतः । निःश्वासवेगं संमुंचन्महाबलसमन्वितः
आह्वयानं नृपं दृष्ट्वा निजं वीरः कपीश्वरः । जगाम तं महावीरो महावेगसमन्वितः
तमागतं हनूमंतं तृणीकुर्वं तमुद्भटान् । उवाच सुरथो राजा मेघगंभीरसुस्वरः
सुरथ उवाच। धन्योसि कपिवर्य त्वं महाबलपराक्रमः । येन राममहत्कृत्यं कृतं राक्षसके पुरे
त्वं रामचरणस्यासि सेवको भक्तिसंयुतः । त्वया वीरेण मत्पुत्रः पातितश्चंपको बली
इदानीं त्वां तु संबध्य गंतास्मि नगरेमम । यत्नात्तिष्ठ कपीशेशसत्यमुक्तं मया स्मृतम्
इति भाषितमाकर्ण्य सुरथस्य कपीश्वरः । उवाच धीरया वाण्या रणे वीरैकभूषिते
हनूमानुवाच। त्वं रामचरणस्मारी वयं रामस्य सेवकाः । बध्नासि चेन्मां प्रसभं मोचयिष्यति मत्प्रभुः
कुरु वीर भवत्स्वांतस्थितं सत्यं प्रतिश्रुतम् । रामं स्मरन्वै दुःखांतं याति वेदा वदंत्यदः
शेष उवाच। इति ब्रुवंतं सुरथः प्रशस्य पवनात्मजम् । विव्याध बाणैर्बहुभिः शितैः शाणेन दारुणैः
तान्मुक्तानगणय्याथ बाणाञ्छोणितपातिनः । करे जग्राह कोदंडं सज्यं शरसमन्वितम्
गृहीत्वा करयोश्चापं बभंज कुपितः कपिः । चीत्कुर्वंस्त्रासयन्वीरान्नखैर्दीर्णान्सृजन्भटान्
तेन भग्नं धनुर्दृष्ट्वा स्वकीयं गुणसंयुतम् । अपरं धनुरादत्त महद्गुणविशोभितम्
तच्चापि जगृहे रोषात्कपिश्चापं बभंज तत् । अन्यच्चापं समादत्त तद्बभंज महाबलः
तस्मिंश्चापे प्रभग्नेऽपि सोऽन्यद्धनुरुपाददत् । सोपि चापं बभंजाशु महावेगसमन्वितः
एवं राज्ञस्तु चापानामशीतिर्विदलीकृता । क्षणे क्षणे महारोषात्कुर्वन्नादाननेकधा
तदात्यंतं प्रकुपितः शक्तिमुग्रामथाददे । शक्त्या स ताडितो वीरः पपात क्षणमुत्सुकः
उत्थाय स्यंदनं राज्ञो जग्राह कुपितो भृशम् । उड्डीनस्तं गृहीत्वा तु समुद्रमतिवेगतः
तमुड्डीनं समालक्ष्य सुरथः परवीरहा । ताडयामास परिघैर्हृदि मारुतिमुद्यतम्
मुक्तस्तेन रथो दूराच्चूर्णीभूतोऽभवत्क्षणात् । सोऽन्यरथं समारुह्य ययौ वेगात्समीरजम्
हनूमांस्तद्रथं पुच्छे संवेष्ट्य प्रधनांगणे । हयसारथिसंयुक्तं बभंज सपताकिनम्
अन्यं रथं समास्थाय ययौ राजा महाबलः । बभंज तं रथं वेगान्मारुतिः कुपितांगकः
भग्नं तं स्यंदनं वीक्ष्य सुरथोऽन्यसमाश्रितः । भग्नः स तेन सहसा हयसारथिसंयुतः