मोदंते नैगमैः सार्द्धं दिवि देवगणा इव । इक्ष्वाकुवंशसंभूतो रैवतो नाम पार्थिवः
कन्यां दुहितरं स्वस्य सर्वलक्षणसंयुताम् । रामाय प्रददौ प्रीत्या रेवती नाम नामतः
उपयेमे विधानेन स रामस्तां च रेवतीम् । रमयामास च तया शच्या इव सुरेश्वरः
विदर्भराजो धर्मात्मा भीष्मको नाम धार्मिकः । बभूवुस्तस्य पुत्रास्तु रुक्मप्रभृतयः शुभाः
तेषामवरजा कन्या रुक्मिणी वरवर्णिनी । कमलांशेन संभूता सर्वलक्षणसंयुता
राघवत्वेभवत्सीता रुक्मिणी कृष्णजन्मनि । अन्येष्वेवावतारेषु विष्णोरेषा सहायिनी
हिरण्यक हिरण्याक्षौ संभूतौ द्वापरे पुनः । शिशुपालो दंतवक्त्र इति नाम समन्वितौ
चैद्यान्वये समुद्भूतौ महाबलपराक्रमौ । रुक्मिणी शिशुपालाय दातुमैच्छत्तदात्मजः
तं नेच्छती पतिं सा तु शिशुपालं शुभानना । बाल्यात्प्रभृति वै विष्णुमनुरक्ता दृढव्रता
उद्दिश्य कृष्णं भर्त्तारं सुराणामर्चनं सदा । चकार रुक्मिणी कन्या दानानि विविधानि च
व्रतचर्यापराभूत्वा ध्यायंती पुरुषोत्तमम् । आत्मेशं स्वस्य भर्तारमुवास पितृमंदिरे
कर्त्तुं तां शिशुपालाय विवाहं पार्थिवोत्तमः । चकार यत्नं पुत्रेण रुक्मिणा सविधीमता
पुरोहितसुतं विप्रं प्रेषयामास रुक्मिणी । उद्दिश्य कृष्णं भर्त्तारं स तूर्णं द्वारकां ययौ
समेत्य कृष्णं रामं च ताभ्यां विधिवदर्चितः । एकांते सर्वमाचष्ट रुक्मिणीभाषितं तयोः
तच्छ्रुत्वा रामकृष्णौ तु तेन विप्रेण धीमता । सर्वशस्त्रास्त्रसंपूर्णं रथमाकाशगं प्रभुः
आरुह्य सूतमुख्येन दारुकेण महात्मना । विदर्भनगरीं तूर्णं जग्मतुः पुरुषोत्तमौ
राजानः सर्वराष्ट्रेभ्यो विवाहं द्रष्टुमागताः । जरासंधमुखाः सर्वे शिशुपालस्य धीमतः
तस्मिन्नुद्वाहसमये रुक्मिणी रुक्मभूषणा । दुर्गां निःसृतार्चयितुं सखीभिर्नगराद्बहिः
एतस्मिन्नेव काले तु संप्राप्तो देवकीसुतः । रथस्थां तां च जग्राह बलवान्मधुसूदनः
सहसा रथमारोप्य ययौ तूर्णं स्वमालयम् । ततः क्रोधसमाविष्टा जरासंधमुखा नृपाः
रुक्मिणा राजपुत्रेण युद्धाय समुपस्थिताः । अनुयाता हरिं क्रुद्धाश्चतुरंगबलान्विताः
बलभद्रो महाबाहुरवरुह्य रथोत्तमात् । लांगलं मुशलं गृह्य निजघान क्षणादरीन्
रथानश्वान्महानागांस्तथा पादचरानपि । लांगलमुशलाम्यां वै निजघान बलाद्रणे
तस्य लांगलपातेन चूर्णिता रथपंक्तयः । नागाश्च पतिता भूमौ वज्रेणेव महीधराः
निर्भिन्नमस्तकाः सर्वे वमंतो रुधिरं बहु । क्षणेनैव हतं सैन्यं बलरामेण वै तदा
साश्वं सनागं सरथं सपदातिं महारणे । समंतात्समरे तत्र सुस्रुवुः शोणितापगाः
प्रभग्नाः पार्थिवाः सर्वे दुद्रुवुर्भयपीडिताः । कृष्णेन कदनं चक्रे रुक्मी क्रोधवशाद्बली
धनुरुद्यम्य बाणौघैस्ताडयामास शार्ङ्गिणम् । ततः प्रहस्य गोविंदः शार्ङ्गमादाय लीलया
जघानैकेनबाणेन रथाश्वांस्तस्य सारथिम् । रथंध्वजं पताकां च चिच्छेद धरणीधरः
विरथः खङ्गमादाय धरण्यां स उपस्थितः । कृष्णस्तु खङ्गं चिच्छेद बाणेनैकेन वीर्यवान्