हेमंते प्रथमे मासि प्राप्य ह्येकादशीं शुभाम् । ब्राह्मे मुहूर्त्ते चोत्थाय कामक्रोधविवर्जितः
नदीसंगमतीर्थेषु तडागेषु सरित्सु च । स्नानं समाचरेत्तत्र गृहे वा नियतात्मवान्
स्नातोऽहं सर्वतीर्थे तत्स्नानं देहि मे सदा
स्नानमंत्रः । देवान्पितॄंश्च संतर्प्य कृतजप्यो जितेंद्रियः । ततः संपूजयेद्देवं लक्ष्मीनारायणं प्रभुम् । पंचामृतेन संस्नाप्य ततो गंधोदकेन च
स्नातोऽसि लक्ष्म्या सहितो देवदेव जगत्पते । मां समुद्धर देवेश घोरात्संसारबंधनात्
ततः संपूजयेद्देवं लक्ष्म्या सह जनार्दनम् । मंत्रैस्तु वैदिकैर्भक्त्या तथा पौराणिकैरपि
अतो देवेति गंधादि पौरुषेणापि वा पुनः । नमो मत्स्याय देवाय कूर्मदेवाय वै नमः
नमो वाराहदेवाय नरसिंहाय वै नमः । नमोऽस्तु बुद्धदेवाय कल्किने च नमोनमः
नमोऽस्तु रामदेवाय विष्णुदेवाय ते नमः । नमः सर्वात्मने तुभ्यं शि रइत्यभिपूजयेत् । केशवादीनि नामानि तैर्वा संपूजयेद्धरिम्
वनस्पतिरसो दिव्यः सुरभिर्गंधवाञ्छुचिः । धूपोऽयं देवदेवेश नमस्ते प्रतिगृह्यताम्
धूपमंत्रः । दीपस्तमो नाशयति दीपः कांतिं प्रयच्छति । तस्माद्दीपप्रदानेन प्रीयतां मे जनार्दनः
दीपमंत्रः । नैवेद्यमिदमन्नाद्यं देवदेव जगत्पते । लक्ष्म्या सह गृहाण त्वं परमामृतमुत्तमम्
नैवेद्यमंत्रः । अर्घ्यं दद्यात्ततो भक्त्या एवं ध्यात्वा जनार्दनम् । फलेन चैव हस्तेन शंखेनादाय चोदकम्
जन्मांतरसहस्रेण यन्मया पातकं कृतम् । तत्सर्वं नाशमायातु प्रसादात्तव केशव
इति अर्घमंत्रः । ततः कुंभं नवं शुभ्रं घृतपूर्णं समानयेत् । लक्ष्मीनारायणस्याग्रे तैलपूर्णमथापि वा
तस्योपरि न्यसेत्पात्रं ताम्रं मृन्मयमेव च । नवतंतुसमां वर्तिं तस्मिन्पात्रे तु निर्वपेत्
ततः प्रबोधयेद्दीपं स्थाप्य कुंभं सुनिश्चलम् । पुष्पगंधादिभिः पूज्य ततः संकल्पयेच्छुचिः
मंत्रेणानेन देवर्षे असमीरेषु धामसु । कामो भूतस्य भव्यस्य सम्राडेको विराजते
दीपः संवत्सरं यावत्मयायं परिकल्पितः । अग्निहोत्रमविच्छिन्नं प्रीयतां मम केशव
ततो जितेंद्रियो भूत्वा श्रुतिज्ञानपरायणः । नालपेत्पतितान्पापांस्तथा पाखण्डिनो नरान्
रात्रौ जागरणं गीतं नृत्यवाद्यादिकैस्तथा । पुण्यपाठैश्च विविधैर्धर्माख्यानैरुपोषणैः
ततः प्रभातसमये कृतपूर्वाह्णिक क्रियः । ब्राह्मणान्भोजयेद्भक्त्या यथाशक्त्या प्रपूजयेत्
स्वयं च पारणं कृत्वा प्रणिपत्य विसर्जयेत् । एवं संवत्सरं यावदहोरात्रं दृढव्रतः
दीपं पलसुवर्णेन तदर्द्धार्द्धेन वा पुनः । वर्तिस्तु राजती प्रोक्ता द्विपलार्द्धार्द्धिकापि वा
घृतपूर्णं तथा कुंभं ताम्रपात्रसमन्वितम् । लक्ष्मीनारायणो देवो यथाशक्त्या हिरण्मयः
कार्यो भक्तिमता पुंसा मुक्तिद्वारमभीप्सता । ततो निमंत्रयेद्विद्वान्ब्रह्मणान्साधुसत्तमान्
द्वादशोत्तमपक्षे तु विप्रान्षण्मध्यमे तथा । अन्यथा कारयेत्त्रीन्वा एकं कर्मकरं द्विजम्
सपत्नीकं द्विजं शांतं क्रियावंतं विशेषतः । इतिहासपुराणज्ञं धर्मज्ञं मृदुमेव च
पितृभक्तं गुरुपरं देवब्राह्मणपूजकम् । पादार्घदानविधिना वस्त्रालंकारभूषणैः
संपूज्य पत्न्या सहितमेकं भक्त्या च पूर्ववत् । लक्ष्मीनारायणं देवं दीपवर्तियुतं तथा