तदाहं चरणौ नत्वा दास्यामि सुतसंयुतः । सर्वं राज्यं कुटुंबं च धनं धान्यं बलं बहु
क्षत्त्रियाणामयं धर्मः स्वामिनापि विरुद्ध्यते। धर्मेण युद्धं तत्रापि रामदर्शनमिच्छता
शत्रुघ्नादीन्प्रवीरांस्तानधुनाहं क्षणादपि । जित्वा बध्नामि मद्गेहे नोचेद्रामः समाव्रजेत्
शेष उवाच। इति श्रुत्वांगदो धीमाञ्जहास नृपतिं तदा । उवाच च महद्वाक्यं महाधैर्यसमन्वितम्
अंगद उवाच। बुद्धिहीनः प्रवदसि वृद्धत्वात्सागता तव । यत्त्वं शत्रुघ्ननृपतिं धिक्करोषि धिया बली
यो मांधातृरिपुं दैत्यं लवणं लीलयावधीत् । येनानेके जिताः संख्ये वैरिणः प्रबलोद्धताः
विद्युन्माली हतो येन राक्षसः कामगे स्थितः । त्वं तं बध्नासि वीरेंद्रं मतिहीनः प्रभासि मे
भ्रातृजो यस्य सुबली पुष्कलः परमास्त्रवित् । येन रुद्रगणः संख्ये वीरभद्रः सुतोषितः
वर्णयामि किमेतस्य पराक्रांतिं बलोर्जिताम् । येन नास्ति समः पृथ्व्यां बलेन यशसा श्रिया
हनूमान्यस्य निकटे रघुनाथपदाब्जधीः । यस्यानेकानि कर्माणि भविष्यंति श्रुतानि ते
सत्रिकूटा राक्षसपूर्दग्धा येन क्षणाद्बलात् । अक्षो येन हतः पुत्रो राक्षसेंद्रस्य दुर्मतेः
द्रोणोनाम गिरिर्येन पुच्छाग्रेण सदैवतः । आनीतो जीवनार्थं तु सैनिकानां मुहुर्मुहुः
जानाति रामश्चारित्रं नान्यो जानाति मूढधीः । यं कपींद्रं मनाक्स्वान्तान्न विस्मरति सेवकम्
सुग्रीवाद्याः कपींद्रा ये पृथ्वीं सर्वां ग्रसंति ये । ते शत्रुघ्नं नृपं सर्वे सेवंते प्रेक्षणोत्सुकाः
कुशध्वजो नीलरत्नो रिपुतापो महास्त्रवित् । प्रतापाग्र्यः सुबाहुश्च विमलः सुमदस्तथा
राजा वीरमणिः सत्ययुतो रामस्य सेवकः । एतेऽन्येपि नृपा भूमेः पतयः पर्युपासते
तत्र त्वं वीर जलधौ मशकः को भवानिति । तज्ज्ञात्वा गच्छ शत्रुघ्नं कृपालुं पुत्रकैर्युतः
वाहं समर्प्य गंतासि रामं राजीवलोचनम् । दृष्ट्वा कृतार्थी कुरुषे स्वांगानि जनुषा सह
शेष उवाच। राजा प्रोवाच तं दूतं प्रब्रुवंतमनेकधा । एतान्दर्शयसि क्षिप्रं सर्वे न ममगोचराः
यादृशं मद्बलं दूत तादृशं न हनूमतः । यो रामं पृष्ठतः कृत्वा प्रागाद्यागस्य पालने
यद्यहं मनसा वाचा कर्मणा कुतुकान्वितः । भजामि रामं तर्ह्याशु दर्शयिष्यति स्वां तनुम्
अन्यथा हनुमन्मुख्या वीरा बध्नंतु मां बलात् । गृह्णंतु वाहं तरसा रामभक्तिसमन्विताः
गच्छ त्वं नृप शत्रुघ्नं कथयस्व ममोदितम् । सज्जीभवंतु सुभटा एष यामि रणे बली
स विचार्य यथायुक्तं करिष्यति रणांगणे । मोचयंतु महावाहं न वामा मा ददंतु ते
शेष उवाच। इति श्रुत्वास्मि तं कृत्वा ययौ वीरो यतो नृपः । गत्वा निवेदयामास यथोक्तं सुरथेन वै
शेष उवाच। तच्छ्रुत्वा भाषितं तस्य सुरथस्यांगदाननात् । सज्जीभूता रणे सर्वे रथस्था रणकोविदाः
पटहानां निनादोऽभूद्भेरीनादस्तथैव च । वीराणां गर्जनानादाः प्रादुर्भूता रणांगणे
रथचीत्कारशब्देन गजानां बृंहितेन च । व्याप्तं तत्सकलं विश्वं दिवं यातो महारवः
रणोत्साहेन संयुक्ता वीरा रणविशारदाः । कुर्वंति विविधान्नादान्कातरस्य भयंकरान्
एवं कोलाहले वृत्ते सुरथो नाम भूमिपः । स्वसुतैः सैनिकैश्चाथ वृतः प्रायाद्रणांगणे