वयं च धिक्कृताः सर्वे बलिभी राजसेवकैः । अत्र प्रमाणं भगवानिति कर्तव्य तां प्रति
तच्छ्रुत्वा वचनं तेषां शत्रुघ्नः कुपितो भृशम् । दशन्रोषात्स्वदशनाञ्जिह्वया लेलिहन्मुहुः
उवाच वीरो मद्वाहं हृत्वा कुत्र गमिष्यसि । इदानीं पातये बाणैः पुरंजनसमन्वितम्
इत्युक्त्वा सुमतिं प्राह कस्येदं पुटभेदनम् । को वर्ततेऽस्याधिपतिर्यो मे वाहमजीहरत्
शेष उवाच। इति वाक्यं समाकर्ण्य भूपतेः कोपसंयुतम् । जगाद मंत्री सुगिरा स्फुटाक्षरसमन्वितम्
विद्धीदं कुंडलं नाम नगरं सुमनोहरम् । अस्मिन्वसति धर्मात्मा सुरथः क्षत्त्रियो बली
नित्यं धर्मपरो रामचरणद्वंद्वसेवकः । मनसा कर्मणा वाचा हनूमानिव सेवकः
चरितान्यस्य शतशो वर्तंते धर्मकारिणः । महाबलपरीवारः सुरथः सर्वशोभनः
महद्युद्धं भवेदत्र हृतश्चेद्वाहसत्तमः । अनेके प्रपतिष्यंति वीरा रणविशारदाः
एवमुक्तं समाश्रुत्य शत्रुघ्नः सचिवं प्रति । उवाच पुनरप्येवं वचनं वदतां वरः
शत्रुघ्न उवाच। कथमत्र प्रकर्तव्यं रामाश्वोऽनेन चेद्धृतः । नायाति योद्धुं प्रबलं कटकं वीरसेवितम्
सुमतिरुवाच। दूतः प्रेष्यो महाराज राजानं प्रति वाग्मिकः । यद्वाक्येन समायाति बलेन बलिनां वरः
नोचेदज्ञानतो वाहो धृतः केनापि मानिना । अर्पयिष्यति नः साधुमश्वं क्रतुवरं शुभम्
इति श्रुत्वातु तद्वाक्यं शत्रुघ्नो बुद्धिमान्बली । अंगदं प्रत्युवाचेदं वचनं विनयान्वितम्
शत्रुघ्न उवाच। याहि त्वं निकटस्थे वै सुरथस्य महापुरे । दूतत्वेन ततो गत्वा प्रब्रूहि नृपतिं प्रति
त्वया धृतो रामवाहो ज्ञानतोऽज्ञानतोपि वा । अर्पयतु न वा यातु प्रधनं वीरसंयुतम्
रामस्य दौत्यं लंकायां रावणं प्रति यत्कृतम् । तथैव कुरु भूयिष्ठ बलसंयुतबुद्धिमन्
शेष उवाच। एतच्छ्रुत्वांगदो वीर ओमिति प्रोच्य भूमिपम् । जगाम संसदो मध्ये वीरश्रेणिसमन्विते
ददर्श सुरथं भूपं तुलसीमंजरीधरम् । रामभद्रं रसनया ब्रुवंतं सेवकान्निजान्
राजापि दृष्ट्वा प्लवगं मनोहरवपुर्धरम् । शत्रुघ्नदूतं मत्वापि वालिजं प्रत्यभाषत
सुरथ उवाच। प्लवगाधिप कस्मात्त्वमागतोऽत्र कथं भवान् । ब्रूहि मे कारणं सर्वं यथा ज्ञात्वा करोमि तत्
शेष उवाच। इति संभाषमाणं तं प्रत्युवाच कपीश्वरः । विस्मयंश्चेतसि भृशं रामसेवाकरं नृपम्
जानीहि मां नृपश्रेष्ठ वालिपुत्रं हरीश्वरम् । शत्रुघ्नेन च दूतत्वे प्रेषितो भवतोंऽतिकम्
सेवकैः कैश्चिदागत्य धृतोऽश्वो मम सांप्रतम् । अज्ञानतो महान्याय्यं कुर्वद्भिः सहसा नृप
तमश्वं सह राज्येन सहपुत्रैर्मुदान्वितः । शत्रुघ्नं याहि चरणे पतित्वाशु प्रदेहि च
नोचेच्छत्रुघ्ननिर्मुक्तनाराचैः क्षतविग्रहः । पृथ्वीतलमलं कुर्वञ्छयिष्यसि विशीर्षकः
येन लंकापतिर्नाशं प्रापितो लीलया क्षणात् । तस्याश्वं यागयोग्यं तु हृत्वा कुत्र गमिष्यसि
शेष उवाच। इत्यादिभाषमाणं तं प्रत्युवाच महीश्वरः । सर्वं तथ्यं ब्रवीषि त्वं नानृतं तव भाषितम्
परं शृणुष्व मद्वाक्यं शत्रुघ्नपदसेवक । मया धृतो महानश्वो रामचंद्रस्य धीमतः
न मोक्ष्ये सर्वथा वाहं शत्रुघ्नादिभयादहम् । चेद्रामः स्वयमागत्य दर्शनं दास्यते मम