हसंतं तं मुनिं प्राह हसने कारणं किमु । कथयस्व प्रसादेन यथा स्यान्मनसः सुखम्
ततो मुनिर्नृपं प्राह शृणु राजन्धियायुतः । यदहं तेऽभिधास्यामि स्मिते कारणमुत्तमम्
त्वया प्रोक्तं हरेः कीर्तिं कथयस्व ममाग्रतः । को हरिः कस्य वा कीर्तिः सर्वे कर्मवशा नराः
कर्मणा प्राप्यते स्वर्गः कर्मणा नरकं व्रजेत् । कर्मणैव भवेत्सर्वं पुत्रपौत्रादिकं बहु
शक्रः शतं क्रतूनां तु कृत्वागात्परमं पदम् । ब्रह्मापि कर्मणा लोकं प्राप्य सत्याख्यमद्भुतम्
अनेके कर्मणा सिद्धा मरुदादय ईशिनः । कुर्वन्ति भोगसौख्यं च अप्सरोगणसेविताः
तस्मात्कुरुष्व यज्ञादीन्यजस्व किल देवताः । यथा ते विमलाकीर्तिर्भविष्यति महीतले
इति श्रुत्वा तु तद्वाक्यं कोपक्षुभितमानसः । उवाच रामैकमना विप्रं कर्मविशारदम्
मा ब्रूहि कर्मणो वार्तां क्षयिष्णुफलदायिनीम् । गच्छ मन्नगरोपांताद्बहिर्लोकविगर्हितः
इंद्रः पतिष्यति क्षिप्रं पतिष्यत्यपि पद्मजः । न पतिष्यंति मनुजा रामस्य भजनोत्सुकाः
पश्य ध्रुवं च प्रह्लादं बिभीषणमथाद्भुतम् । ये चान्ये रामभक्ता वै कदापि न पतंति ते
ये रामनिंदका दुष्टास्तानि मे यमकिंकराः । ताडयिष्यंति लोहस्य मुद्गरैः पाशबन्धनैः
ब्राह्मणत्वाद्देहदंडं न कुर्यां ते द्विजाधम । गच्छ गच्छ मदालोकात्ताडयिष्यामि चान्यथा
इत्थमुक्तवति श्रेष्ठे भूपे सुरथसंज्ञिते । सेवका बाहुना धृत्वा निष्कासयितुमुद्यताः
तदा यमो निजं रूपं धृत्वा लोकैकवंदितम् । प्राह भूपं प्रतुष्टोऽस्मि याचस्व हरिसेवक
मया प्रलोभितो वाग्भिर्बह्वीभिरपि सुव्रत । चलितोसि न रामस्य सेवायाः साधुसेवितः
तदा प्रोवाच भूमीशो यमं दृष्ट्वा सुतोषितम् । उवाच यदि तुष्टोसि देहि मे वरमुत्तमम्
तावन्मम न वै मृत्युर्यावद्रामसमागमः । न भयं मे भवत्तो हि कदाचन हि धर्मराट्
तदोवाच यमो भूपमिदं तव भविष्यति । सर्वं त्वदीप्सितं तथ्यं करिष्यति रघोःपतिः
इत्युक्त्वांतर्हितो धर्मो जगाम स्वपुरं प्रति । प्रशस्य तस्य चरितं हरिभक्तिपरात्मनः
स राजा धार्मिको रामसेवकः परया मुदा । गृहीत्वाश्वं प्रत्युवाच सेवकान्हरिसेवकान्
मया गृहीतो वाहोऽसौ राघवस्य महीपतेः । सज्जी भवंतु सर्वत्र यूयं रणविशारदाः
इति प्रोक्तास्तु ते सर्वे भटा राज्ञो महाबलाः । सज्जीभूताः क्षणादेव सभायां जग्मुरुत्सुकाः
राज्ञो वीरा दशसुताश्चंपको मोहकस्तथा । रिपुंजयोऽतिदुर्वारः प्रतापीबलमोदकः
हर्यक्षः सहदेवश्च भूरिदेवः सुतापनः । इति राज्ञो दश सुताः सज्जीभूता रणांगणे
यातुमिच्छामकुर्वंस्ते महोत्साहसमन्विताः । राजापि स्वरथं चित्रं हेमशोभाविनिर्मितम्
आह्वयामास सुजवैर्वाजिभिः समलंकृतम् । रणोत्साहेन संयुक्तः सर्वसैन्यपरीवृतः
सभायां सेवकान्सर्वान्दिशन्नास्ते महीपतिः
शेष उवाच। अथ रामानुजो वेगात्समागत्य स्वसेवकान् । पप्रच्छ कुत्र वाहोऽसौ याज्ञिकः सुमनोहरः
तदा ते वचनं प्रोचुः शत्रुघ्नं सुमहाबलाः । न जानीमो भटाः केचिद्धयं नीत्वा गताः पुरे