अनेन सुमहाँल्लाभो भविष्यति तु मे मतम् । यद्रामचरणौ प्रेक्षे ब्रह्मशक्रादिदुर्ल्लभौ
स एव धन्यः स्वजनः पुत्रो वा बांधवोऽथवा । पशुर्वा वाहनं वापि रामाप्तिर्येन संभवेत्
तस्माद्गृहीत्वा क्रत्वश्वं स्वर्णपत्रेण शोभितम् । बध्नंतु वाजिशालायां कामवेगं मनोरमम्
इत्युक्तास्ते ततो गत्वा वाहं रामस्य शोभितम् । गृहीत्वा तरसा राज्ञे ददुः सर्वं शुभांगिनम्
राजा प्राप्य मुदा चाश्वं रामस्य दनुजार्दनः । सेवकान्प्राह बलिनो धर्मकृत्यविचक्षणः
वात्स्यायन महाबुद्धे शृणुष्वैकाग्रमानसः । न तस्य विषये कश्चित्परदाररतो नरः
न परद्रव्यनिरतो न च कामेषु लंपटः । न जिह्वाभिरतोन्मार्गे कीर्त्तयेद्रामकीर्तनात्
यः सेवकान्नृपो वक्ति यूयं सेवार्थमागताः । कथयंतु भवच्चेष्टां धर्मकर्मविशारदाः
एकपत्नीव्रतधरा न परद्रव्यलोलुपाः । परापवादानिरता न च वेदोत्पथं गताः
श्रीरामस्मरणादीनि कुर्वंति प्रत्यहं भटाः । तानहं रामसेवार्थं रक्षाम्यंतक कोपवान्
एतद्विरुद्धधर्माणो ये नराः पापसंयुताः । तानहं विषये मह्यं वासयामि न दुर्मतीन्
तस्य देशे न पापिष्ठाः पापं कुर्वंति मानसे । हरिध्यानहताशेष पातकामोदसंयुताः
यदैवमभवद्देशो राजा धर्मेण संयुतः । तदा तत्स्था नराः सर्वे मृता गच्छंति निर्वृतिम्
यमानुचरनिर्वेशो नाभवत्सौरथे पुरे । तदा यमो मुनेरूपं धृत्वा प्रागान्महीश्वरम्
वल्कलांबरधारी च जटाशोभितशीर्षकः । सुरथं तु सभामध्ये ददर्श हरिसेवकम्
तुलसीमस्तके यस्य वाचि नाम हरेः परम् । धर्मकर्मरतां वार्त्तां श्रावयंतं निजाञ्जनान्
तदा मुनिं नृपो दृष्ट्वा तपोमूर्तिमिव स्थितम् । ववंदे चरणौ तस्य पाद्यादिकमथाकरोत्
सुखोपविष्टं विश्रांतं मुनिं प्राह नृपाग्रणीः । धन्यमद्य जनुर्मह्यं धन्यमद्य गृहं मम
कथाः कथयतान्मह्यं रामस्य विविधा वराः । याः शृण्वतां पापहानिर्भविष्यति पदे पदे
इत्थमुक्तं समाकर्ण्य जहास स मुनिर्भृशम् । दंतान्प्रदर्शयन्सर्वांस्तालास्फालितपाणिकः
हसंतं तं मुनिं प्राह हसने कारणं किमु । कथयस्व प्रसादेन यथा स्यान्मनसः सुखम्
ततो मुनिर्नृपं प्राह शृणु राजन्धियायुतः । यदहं तेऽभिधास्यामि स्मिते कारणमुत्तमम्
त्वया प्रोक्तं हरेः कीर्तिं कथयस्व ममाग्रतः । को हरिः कस्य वा कीर्तिः सर्वे कर्मवशा नराः
कर्मणा प्राप्यते स्वर्गः कर्मणा नरकं व्रजेत् । कर्मणैव भवेत्सर्वं पुत्रपौत्रादिकं बहु
शक्रः शतं क्रतूनां तु कृत्वागात्परमं पदम् । ब्रह्मापि कर्मणा लोकं प्राप्य सत्याख्यमद्भुतम्
अनेके कर्मणा सिद्धा मरुदादय ईशिनः । कुर्वन्ति भोगसौख्यं च अप्सरोगणसेविताः
तस्मात्कुरुष्व यज्ञादीन्यजस्व किल देवताः । यथा ते विमलाकीर्तिर्भविष्यति महीतले
इति श्रुत्वा तु तद्वाक्यं कोपक्षुभितमानसः । उवाच रामैकमना विप्रं कर्मविशारदम्
मा ब्रूहि कर्मणो वार्तां क्षयिष्णुफलदायिनीम् । गच्छ मन्नगरोपांताद्बहिर्लोकविगर्हितः
इंद्रः पतिष्यति क्षिप्रं पतिष्यत्यपि पद्मजः । न पतिष्यंति मनुजा रामस्य भजनोत्सुकाः