हसते कीर्त्यमानं यश्चरित्रं ज्ञानदुर्बलः । न तस्य नरकान्मुक्तिः कल्पांतेऽपि भविष्यति
या हि राजन्विमोक्षार्थं हयस्यानुचरैः सह । श्रावय श्रीशचरितं यतो वाहगतिर्भवेत्
शेष उवाच। इति श्रुत्वा प्रहृष्टोऽभूच्छत्रुघ्नः परवीरहा । प्रणम्य तं परिक्रम्य ययौ सेवकसंयुतः
तत्र गत्वा स हनुमान्हयवर्यस्य पार्श्वतः । उवाच रामचरितं महादुर्गतिनाशकम्
याहि देव विमानं स्वं रामकीर्तनपुण्यतः । स्वैरं चर स्वलोके त्वं मुक्तो भव कुयोनितः
इति वाक्यं समाकर्ण्य शत्रुघ्नो यावदास्थितः । तावद्ददर्श विमलं देवं वैमानिकं वरम्
स उवाच विमुक्तोऽहं रामकीर्तनसंश्रुतेः । यामि स्वं भवनं राजन्नाज्ञापय महामते
इत्युक्त्वा प्रययौ देवो विमाने स्वे परिस्थितः । तदा विस्मयमापुस्ते शत्रुघ्नेन सहानुगाः
ततो वाहो विनिर्मुक्तो गात्रस्तंभाच्च भूतलात् । ययौ तद्विपिनं सर्वं भ्रमन्पक्षिसमाकुलम्
शेष उवाच। मासाः सप्ताभवंस्तस्य हयवर्यस्य हेलया । चरतो भारतं वर्षमनेकनृपपूरितम्
स पूजितो भूपवरैः परीत्य वरभारतम् । परीवृतो वीरवरैः शत्रुघ्नादिभिरुद्भटैः
स बभ्राम बहून्देशान्हिमालयसमीपतः । न कोपि तं निजग्राह हयं रामबलं स्मरन्
अंगवंगकलिंगानां राजभिः संस्तुतो हयः । जगाम राज्ञो नगरे सुरथस्य मनोहरे
कुंडलं नाम नगरमदितेर्यत्र कुंडलम् । कर्णयोः पतितं भूमौ हर्षभयसुकंपयोः
यत्र धर्मव्यतिक्रांतिं न करोति कदापिना । श्रीरामस्मरणं प्रेम्णा करोति जनतान्वहम्
अश्वत्थानां तु यत्रार्चा तुलस्याः प्रत्यहं नृभिः । क्रियते रघुनाथस्य सेवकैः पापवर्जितैः
यत्र देवालया रम्या राघवप्रतिमायुताः । पूज्यंते प्रत्यहं शुद्धचित्तैः कपटवर्जितैः
वाचि नाम हरेर्यत्र न वै कलहसंकथा । हृदि ध्यानं तु तस्यैव न च कामफलस्मृतिः
देवनं यत्र रामस्य वार्त्ताभिः पूतदेहिनाम् । न जातुचिन्नृणामस्ति सत्यव्यसनमानिनाम्
तस्मिन्वसति धर्मात्मा सुरथः सत्यवान्बली । रघुनाथपदस्मारहृष्टचित्तः परोन्मदः
किं वर्णयामि रामस्य सेवकं सुरथं वरम् । यस्याशेषगुणा भूमौ विस्तृताः पावयंत्यघम्
सेवकास्तस्य भूपस्य पर्यटंतः कदाचन । अपश्यन्हयमेधस्य हयं चंदनचर्चितम्
ते दृष्ट्वा विस्मयं प्राप्ता हयपत्रमलोकयन् । स्पष्टाक्षरसमायुक्तं चंदनादिकचर्चितम्
ज्ञात्वा रामेण संमुक्तं हयं नेत्रमनोहरम् । हृष्टा राज्ञे सभास्थाय कथयामासुरुत्सुकाः
स्वामिन्नयोध्यानगरीपतिस्तस्यास्तु राघवः । हयमेधक्रतोर्योग्यो हयो मुक्तः परिभ्रमन्
स ते पुरस्य निकटे प्राप्तः सेवकसंयुतः । गृहाण त्वं महाराज हयं तं सुमनोहरम्
शेष उवाच। इति श्रुत्वा निजप्रोक्तं वाक्यं हर्षपरिप्लुतः । उवाच वीरान्बलिनो मेघगंभीरया गिरा
सुरथ उवाच। धन्या वयं राममुखं पश्यामः सह सेवकाः । ग्रहीष्यामि हयं तस्य भटकोटिपरीवृतम्
तदा मोक्ष्यामि वाहं तं यदा रामः समाव्रजेत् । कृतार्थं मम भक्तस्य चिरं ध्यानरतस्य वै
शेष उवाच। इत्थमुक्त्वा महीपालः सेवकान्स्वयमादिशत् । गृह्णंतु वाहं प्रसभं मोच्यो नाश्वोऽक्षिगोचरः