दुष्टवादी खंडितः स्यात्खल्वाटः परनिंदकः । सभायां पक्षपाती च जायते पक्षघातवान्
परोक्तहास्यकृत्काणः कुनखी विप्रहेमहृत् । तुंदीवरी ताम्रचौरः कांस्यहृत्पुंडरीकिकः
त्रपुहारी च पुरुषो जायते पिंगमूर्द्धजः । शीसहारी च पुरुषो जायते शीर्षरोगवान्
घृतचौरस्तु पुरुषो जायते नेत्ररोगवान् । लोहहारी च पुरुषो बर्बरांगः प्रजायते
चर्महारी च पुरुषो जायते मेदसा वृतः । मधुचौरस्तु पुरुषो जायते बस्तिगंधवान्
तैलचौर्येण भवति नरः कण्ड्वातिपीडितः । आमान्नहरणाच्चैव दंतहीनः प्रजायते
पक्वान्नहरणाच्चैव जिह्वारोगयुतो भवेत् । मातृगामी च पुरुषो जायते लिंगवर्जितः
गुरुजायाभिगमनान्मूत्रकृच्छ्रः प्रजायते । भगिनीं चैव गमने पीतकुष्ठः प्रजायते
स्वसुतागमने चैव रक्तकुष्ठः प्रजायते । भ्रातृभार्याभिगमने गुल्मकुष्ठः प्रजायते
स्वामिगम्यादिगमने जायते दद्रुमंडलम् । विश्वस्तभार्यागमने गजचर्मा प्रजायते
पितृष्वस्रभिगमने दक्षिणांगे व्रणी भवेत् । मातुलान्यास्तु गमने वामांगे व्रणवान्भवेत्
पितृव्यपत्नीगमने कटौ कुष्ठः प्रजायते । मित्रभार्याभिगमने मृतभार्यः प्रजायते
स्वगोत्रस्त्रीप्रसंगेन जायते च भगंदरः । तपस्विनीप्रसंगेन प्रमेहो जायते नरे
श्रोत्रियस्त्रीप्रसंगेन जायते नासिकाव्रणी । दीक्षितस्त्रीप्रसंगेन जायते दुष्टरक्तसृक्
स्वजातिजायागमने जायते हृदयव्रणी । जात्युन्नतस्त्रीगमने जायते मस्तकव्रणी
पशुयोनौ च गमनान्मूत्रघातः प्रजायते । एते दोषा नराणां स्युर्नरकांते न संशयः
स्त्रीणामपि भवंत्येते तत्तत्पुरुषसंगमात् । एवं राजन्हि चिह्नानि कीर्तितानि सुपापिनाम्
दानपुण्यप्रसंगेन तीर्थादिक्रियया तथा । रामस्य चरितं श्रुत्वा तपसा वाक्षयं व्रजेत्
सर्वेषामेव पापानां हरिकीर्तिधुनी नृणाम् । क्षालयेत्पापिनां पंकं नात्र कार्या विचारणा
यो नावमन्येत हरिं तस्य यागाविधि श्रुताः । तीर्थान्यपि सुपुण्यानि पावितुं न क्षमाणि तम्
हसते कीर्त्यमानं यश्चरित्रं ज्ञानदुर्बलः । न तस्य नरकान्मुक्तिः कल्पांतेऽपि भविष्यति
या हि राजन्विमोक्षार्थं हयस्यानुचरैः सह । श्रावय श्रीशचरितं यतो वाहगतिर्भवेत्
शेष उवाच। इति श्रुत्वा प्रहृष्टोऽभूच्छत्रुघ्नः परवीरहा । प्रणम्य तं परिक्रम्य ययौ सेवकसंयुतः
तत्र गत्वा स हनुमान्हयवर्यस्य पार्श्वतः । उवाच रामचरितं महादुर्गतिनाशकम्
याहि देव विमानं स्वं रामकीर्तनपुण्यतः । स्वैरं चर स्वलोके त्वं मुक्तो भव कुयोनितः
इति वाक्यं समाकर्ण्य शत्रुघ्नो यावदास्थितः । तावद्ददर्श विमलं देवं वैमानिकं वरम्
स उवाच विमुक्तोऽहं रामकीर्तनसंश्रुतेः । यामि स्वं भवनं राजन्नाज्ञापय महामते
इत्युक्त्वा प्रययौ देवो विमाने स्वे परिस्थितः । तदा विस्मयमापुस्ते शत्रुघ्नेन सहानुगाः
ततो वाहो विनिर्मुक्तो गात्रस्तंभाच्च भूतलात् । ययौ तद्विपिनं सर्वं भ्रमन्पक्षिसमाकुलम्
शेष उवाच। मासाः सप्ताभवंस्तस्य हयवर्यस्य हेलया । चरतो भारतं वर्षमनेकनृपपूरितम्