कूटसाक्ष्यं वदत्यद्धा पुरुषः पापसंभृतः । परकीयं तु द्रव्यं यो हरति प्रसभं बली
सोऽवीचिनरके पापी अवाग्वक्त्रः पतत्यधः । तत्र दुःखं महद्भुक्त्वा पापिष्ठां योनिमाव्रजेत्
यो नरो रसनास्वादात्सुरां पिबति मूढधीः । तं पाययंति लोहस्य रसं धर्मस्य किंकराः
यो गुरूनवमन्येत स्वविद्याचारदर्पितः । स मृतः पात्यते क्षारनरकेऽधोमुखः पुमान्
विश्वासघातं कुर्वंति ये नरा धर्मनिष्कृताः । शूलप्रोते च नरके पात्यंते बहुयातने
पिशुनो यो नरान्सर्वानुद्वेजयति वाक्यतः । दंदशूके च पतितो दंदशूकैः स दश्यते
एवं राजन्ननेके वै नरकाः पापकारिणाम् । पापं कृत्वा प्रयांत्येते पीडां यांति सुदारुणाम्
यैर्न श्रुता रामकथा न परोपकृतिः कृता । तेषां सर्वाणि दुःखानि भवंति नरकांतरे
अत्र यस्य सुखं स्वर्गे भूयात्तस्य इतीर्यते । ये दुःखिनो रोगयुता नरकादागताश्च ते
शेष उवाच। एतच्छ्रुत्वा महीपालः कंपमानः क्षणे क्षणे । पप्रच्छ भूयस्तं विप्रं सर्वसंशयनुत्तये
तत्तत्पापस्य चिह्नानि कथयस्व महामुने । केन पापेन किं चिह्नं भूलोके उपजायते
इति श्रुत्वा तु तद्वाक्यं मुनिः प्रोवाच भूपतिम् । शृणु राजन्प्रवक्ष्यामि चिह्नानि पापकारिणाम्
शौनक उवाच। सुरापः श्यामदंतश्च नरकांते प्रजायते । अभक्ष्यभक्षकारी च जायते गुल्मकोदरः
उदक्यावीक्षितं भुक्त्वा जायते कृमिलोदरः । श्वमार्जारादिसंस्पृष्टं भुक्त्वा दुर्गंधिमान्भवेत्
अनिवेद्य सुरादिभ्यो भुंजानो जायते नरः । उदरे रोगवान्दुःखी महारोगप्रपीडितः
परान्नविघ्नकरणादजीर्णमभिजायते । मंदोदराग्निर्भवति सति द्रव्ये कदन्नदः
विषदश्छर्दिरोगी स्यान्मार्गहा पादरोगवान् । पिशुनो नरकस्यांते जायते श्वासकासवान्
धूर्तोऽपस्माररोगी स्याच्छूली च परतापनः । दावाग्निदायकश्चैव रक्तातीसारवान्भवेत्
सुरालये जले वापि शकृत्क्षेपं करोति यः । गुदरोगो भवेत्तस्य पापरूपः सुदारुणः
गर्भपातनजा रोगाः क्षयमेहजलोदराः । प्रतिमा भंगकारी च अप्रतिष्ठश्च जायते
दुष्टवादी खंडितः स्यात्खल्वाटः परनिंदकः । सभायां पक्षपाती च जायते पक्षघातवान्
परोक्तहास्यकृत्काणः कुनखी विप्रहेमहृत् । तुंदीवरी ताम्रचौरः कांस्यहृत्पुंडरीकिकः
त्रपुहारी च पुरुषो जायते पिंगमूर्द्धजः । शीसहारी च पुरुषो जायते शीर्षरोगवान्
घृतचौरस्तु पुरुषो जायते नेत्ररोगवान् । लोहहारी च पुरुषो बर्बरांगः प्रजायते
चर्महारी च पुरुषो जायते मेदसा वृतः । मधुचौरस्तु पुरुषो जायते बस्तिगंधवान्
तैलचौर्येण भवति नरः कण्ड्वातिपीडितः । आमान्नहरणाच्चैव दंतहीनः प्रजायते
पक्वान्नहरणाच्चैव जिह्वारोगयुतो भवेत् । मातृगामी च पुरुषो जायते लिंगवर्जितः
गुरुजायाभिगमनान्मूत्रकृच्छ्रः प्रजायते । भगिनीं चैव गमने पीतकुष्ठः प्रजायते
स्वसुतागमने चैव रक्तकुष्ठः प्रजायते । भ्रातृभार्याभिगमने गुल्मकुष्ठः प्रजायते
स्वामिगम्यादिगमने जायते दद्रुमंडलम् । विश्वस्तभार्यागमने गजचर्मा प्रजायते