ततो भगीरथो राजा गौतमश्च महातपाः । तपसा पूजयित्वा मां गंगार्थं समयाचत
सर्वलोकहितार्थाय तां गंगां वैष्णवीं शिवाम् । तयोरहं तामददां प्रीत्या देवि सरिद्वराम्
गौतमेन समानीता गौतमी तेन कीर्त्तिता । भागीरथीति विख्याता तेन राज्ञा वृता यतः
प्रसंगात्ते समाख्यातं गंगाजन्मात्यनुत्तमम् । ततो नारायणः श्रीमान्बलिं दैत्यपतिं प्रभुः
रसातलं शुभं लोकं प्रददौ भक्तवत्सलः । सर्वेषां दानवानां तु नागानां यादसामपि
राजानं तु बलिं चक्रे यावदाभूतसंप्लवम् । प्रतिगृह्य बलेर्लोकान्बटुवेषेण दैत्यहा
महेंद्राय ददौ प्रीत्या काश्यपो विष्णुरव्ययः । ततो देवाः सगंधर्वा ऋषयश्च महौजसः
तुष्टुवुः स्तुतिभिर्द्दिव्यैः पूजयामासुरच्युतम् । संक्षिप्य तन्महद्रूपं तेषां संदर्शनाय वै
संपूज्यमानास्त्रिदशैरंतर्द्धानं ययौ हरिः । इत्थं सुरक्षितः शक्रो विष्णुना प्रभविष्णुना
त्रैलोक्यं महदैश्वर्य्यमवाप त्रिदिवेश्वरः । एतत्ते सर्वमाख्यातं वामनं वैभवं शुभम् । शेषं यद्वैभवं देवि तद्वक्ष्यामि यथाक्रमात्
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे वामनप्रादुर्भावोनाम चत्वारिंशदधिकद्विशततमोऽध्यायः
रुद्र उवाच- हत्वाथ यवनं तत्र मुचुकुंदेन धीमता । दत्त्वा तस्मै वरं मुक्तिं निष्क्रांतो यदुनंदनः
हतं च यवनं श्रुत्वा जरासंधः सुदुर्मतिः । ययुधे रामकृष्णाभ्यां स्वबलेन समावृतः
कृष्णेन निहतं सैन्यं सर्वं तस्य दुरात्मनः । स पपात महीपृष्ठे मूर्च्छितो मगधाधिपः
चिरेण लब्ध्वा संज्ञां तु विह्वलांगो भयातुरः । न शशाक रणे योद्धुं रामेण मगधेश्वरः
विमुखः प्राद्रवत्तूर्णं हतशेषबलानुगः । अजेयाविति तौ मत्वा रामकृष्णौ महाबलौ
तयोर्विरोधं त्यक्त्वाथ नगरीं स्वां विवेश ह । अथ तौ वसुदेवस्य तनयौ सह सेनया
मथुरां त्यज्य नगरीं प्रविष्टौ द्वारिकां पुरीम् । इंद्रेण प्रेषितो वायुः सभां तत्र दिवौकसाम्
कृष्णाय प्रददौ प्रीत्या निर्मितां विश्वकर्मणा । वज्रवैडूर्यरचितां बह्वासनविचित्रिताम्
नानारत्नमयैर्दिव्यैः स्वर्णच्छत्रैर्विराजिताम् । तां प्राप्य रम्यां तु सभामुग्रसेनादयो नृपाः
मोदंते नैगमैः सार्द्धं दिवि देवगणा इव । इक्ष्वाकुवंशसंभूतो रैवतो नाम पार्थिवः
कन्यां दुहितरं स्वस्य सर्वलक्षणसंयुताम् । रामाय प्रददौ प्रीत्या रेवती नाम नामतः
उपयेमे विधानेन स रामस्तां च रेवतीम् । रमयामास च तया शच्या इव सुरेश्वरः
विदर्भराजो धर्मात्मा भीष्मको नाम धार्मिकः । बभूवुस्तस्य पुत्रास्तु रुक्मप्रभृतयः शुभाः
तेषामवरजा कन्या रुक्मिणी वरवर्णिनी । कमलांशेन संभूता सर्वलक्षणसंयुता
राघवत्वेभवत्सीता रुक्मिणी कृष्णजन्मनि । अन्येष्वेवावतारेषु विष्णोरेषा सहायिनी
हिरण्यक हिरण्याक्षौ संभूतौ द्वापरे पुनः । शिशुपालो दंतवक्त्र इति नाम समन्वितौ
चैद्यान्वये समुद्भूतौ महाबलपराक्रमौ । रुक्मिणी शिशुपालाय दातुमैच्छत्तदात्मजः
तं नेच्छती पतिं सा तु शिशुपालं शुभानना । बाल्यात्प्रभृति वै विष्णुमनुरक्ता दृढव्रता
उद्दिश्य कृष्णं भर्त्तारं सुराणामर्चनं सदा । चकार रुक्मिणी कन्या दानानि विविधानि च