ते परत्रांधकूपे च पात्यंते च महार्दिताः । योऽन्नं स्वयमुपाहृत्य मधुरं चात्तिलोलुपः
न देवाय न सुहृदे ददाति रसनापरः । स पतत्येव नरके कृमिभोजनसंज्ञिते
अनापदि नरो यस्तु हिरण्यादीन्यपाहरेत् । ब्रह्मस्वं वा महादुष्टे संदंशे नरके पतेत्
यः स्वदेहं प्रपुष्णाति नान्यं जानाति मूढधीः । स पात्यते तैलतप्ते कुंभीपाकेऽतिदारुणे
यो नागम्यां स्त्रियं मोहाद्योषिद्भावाच्च कामयेत् । तं तया किंकराः सूर्म्या परिरंभं च कुर्वते
ये बलाद्वेदमर्यादां लुंपंति स्वबलोद्धताः । ते वैतरण्यां पतिता मांसशोणितभक्षकाः
वृषलद्यं यः स्त्रियं कृत्वा तया गार्हस्थ्यमाचरेत् । पूयोदे निपतत्येव महादुःखसमन्वितः
ये दंभमाश्रयंते वै धूर्ता लोकस्य वंचने । वैशसे नरके मूढाः पतंति यमताडिताः
ये सवर्णां स्त्रियं मूढा रेतः स्वं पाययंति च । रेतःकुल्यासु ते पापा रेतःपानेषु तत्पराः
ये चौरा वह्निदा दुष्टा गरदा ग्रामलुंठकाः । सारमेयादने ते वै पात्यंते पातकान्विताः
कूटसाक्ष्यं वदत्यद्धा पुरुषः पापसंभृतः । परकीयं तु द्रव्यं यो हरति प्रसभं बली
सोऽवीचिनरके पापी अवाग्वक्त्रः पतत्यधः । तत्र दुःखं महद्भुक्त्वा पापिष्ठां योनिमाव्रजेत्
यो नरो रसनास्वादात्सुरां पिबति मूढधीः । तं पाययंति लोहस्य रसं धर्मस्य किंकराः
यो गुरूनवमन्येत स्वविद्याचारदर्पितः । स मृतः पात्यते क्षारनरकेऽधोमुखः पुमान्
विश्वासघातं कुर्वंति ये नरा धर्मनिष्कृताः । शूलप्रोते च नरके पात्यंते बहुयातने
पिशुनो यो नरान्सर्वानुद्वेजयति वाक्यतः । दंदशूके च पतितो दंदशूकैः स दश्यते
एवं राजन्ननेके वै नरकाः पापकारिणाम् । पापं कृत्वा प्रयांत्येते पीडां यांति सुदारुणाम्
यैर्न श्रुता रामकथा न परोपकृतिः कृता । तेषां सर्वाणि दुःखानि भवंति नरकांतरे
अत्र यस्य सुखं स्वर्गे भूयात्तस्य इतीर्यते । ये दुःखिनो रोगयुता नरकादागताश्च ते
शेष उवाच। एतच्छ्रुत्वा महीपालः कंपमानः क्षणे क्षणे । पप्रच्छ भूयस्तं विप्रं सर्वसंशयनुत्तये
तत्तत्पापस्य चिह्नानि कथयस्व महामुने । केन पापेन किं चिह्नं भूलोके उपजायते
इति श्रुत्वा तु तद्वाक्यं मुनिः प्रोवाच भूपतिम् । शृणु राजन्प्रवक्ष्यामि चिह्नानि पापकारिणाम्
शौनक उवाच। सुरापः श्यामदंतश्च नरकांते प्रजायते । अभक्ष्यभक्षकारी च जायते गुल्मकोदरः
उदक्यावीक्षितं भुक्त्वा जायते कृमिलोदरः । श्वमार्जारादिसंस्पृष्टं भुक्त्वा दुर्गंधिमान्भवेत्
अनिवेद्य सुरादिभ्यो भुंजानो जायते नरः । उदरे रोगवान्दुःखी महारोगप्रपीडितः
परान्नविघ्नकरणादजीर्णमभिजायते । मंदोदराग्निर्भवति सति द्रव्ये कदन्नदः
विषदश्छर्दिरोगी स्यान्मार्गहा पादरोगवान् । पिशुनो नरकस्यांते जायते श्वासकासवान्
धूर्तोऽपस्माररोगी स्याच्छूली च परतापनः । दावाग्निदायकश्चैव रक्तातीसारवान्भवेत्
सुरालये जले वापि शकृत्क्षेपं करोति यः । गुदरोगो भवेत्तस्य पापरूपः सुदारुणः
गर्भपातनजा रोगाः क्षयमेहजलोदराः । प्रतिमा भंगकारी च अप्रतिष्ठश्च जायते