क्षणात्तज्ज्ञानतां प्राप्य विस्मयोत्फुल्ललोचनः । जगाद स महीपालं दुःखितं संशयान्वितम्
शौनक उवाच। शृणु राजन्प्रवक्ष्यामि हयस्तंभस्य कारणम् । यच्छ्रुत्वा मुच्यते दुःखादतिचित्रकथानकम्
गौडदेशे महारण्ये कावेरीतीरभूषिते । वाडवः सात्वको नाम्ना चचार परमं तपः
एकाहं पयसः प्राशी दिनैकं वायुभक्षकः । दिनैकं तु निराहार एवं त्रिदिनमुन्नयेत्
एवं व्रते प्रवृत्तस्य कालः सर्वक्षयंकरः । जग्राह स्वस्य दंष्ट्रायां मृतिं प्राप महाव्रती
विमाने सर्वशोभाढ्ये सर्वरत्नविभूषिते । अप्सरोभिः सह क्रीडन्ययौ मेरोः शिखास्थितौ
जंबूनाममहावृक्षस्तत्र सेव्यरसोऽभवत् । नदी जांबवती संज्ञा स्वर्णद्रवसमन्विता
तस्यां मुनयइच्छाभिः क्रीडंते कुतुकान्विताः । अनेकतपसा पुण्याः सर्वसौख्यसमन्विताः
तत्रासौ स्वेच्छया क्रीडन्नप्सरोभिर्मुदान्वितः । प्रतीपमाचरत्तेषां स्वाभिमानमदोद्धतः
ततः शप्तः स मुनिभी राक्षसो भव दुर्मुखः । ततोऽतिदुःखितः प्राह मुनीन्विद्यातपोधनान्
अनुगृह्णंतु मां सर्वे विप्रा यूयं कृपालवः । तदा तैरनुगृहीतो यदा रामहयं भवान्
स्तंभयिष्यति वेगेन ततो रामकथाश्रुतिः । पश्चान्मुक्तिर्भवित्री ते शापादस्मात्सुदारुणात्
स प्रोक्तो मुनिभिर्देवो राक्षसत्वमितः प्रभो । स्तंभयामास रामाश्वं मोचयानघकीर्तनैः
शेष उवाच। इति प्रोक्तं तु मुनिना संश्रुत्य परवीरहा । विस्मयं मानयामास हृदि शौनकमब्रवीत्
शत्रुघ्न उवाच। कर्मणो गहना वार्ता यया सात्वकनामधृत् । दिवं प्राप्तोऽपि महता कर्मणा राक्षसीकृतः
स्वामिन्वद महर्षे त्वं कर्मणां स्वगतिर्यथा । येन कर्मविपाकेन यादृशं नरकं भवेत्
शौनक उवाच। धन्योसि राघवश्रेष्ठ यत्ते मतिरियं शुभा । जानन्नपि हितार्थाय लोकानां त्वं ब्रवीषि भोः
कथयामि विचित्राणां कर्मणां विविधा गतीः । ताः शृणुष्व महाराज यच्छ्रुत्वा मोक्षमाप्नुयात्
परवित्तं परापत्यं कलत्रं पारकं च यः । बलात्कारेण गृह्णाति भोगबुद्ध्या च दुर्मतिः
कालपाशेन संबद्धो यमदूतैर्महाबलैः । तामिस्रे पात्यते तावद्यावद्वर्षसहस्रकम्
तत्र ताडनमुद्धूताः कुर्वंति यमकिंकराः । पापभोगेन संतप्तस्ततो योनिं तु शौकरीम्
तत्र भुक्त्वा महादुःखं मानुषत्वं गमिष्यति । रोगादिचिह्नितं तत्र दुर्यशो ज्ञापकं स्वकम्
भूतद्रोहं विधायैव केवलं स्वकुटुंबकम् । पुष्णाति पापनिरतः सोंऽधतामिस्रके पतेत्
ये नरा इह जंतूनां वधं कुर्वंति वै मृषा । ते रौरवे निपात्यंते भिद्यंते रुरुभी रुषा
यः स्वोदरार्थे भूतानां वधमाचरति स्फुटम् । महारौरवसंज्ञे तु पात्यते स यमाज्ञया
यो वै निजं तु जनकं ब्राह्मणं द्वेष्टि पापकृत् । कालसूत्रे महादुष्टे योजनायुतविस्तृते
यावंति पशुरोमाणि गवां द्वेषं करोति यः । तावद्वर्षसहस्राणि पच्यते यमकिंकरैः
यो भूमौ भूपतिर्भूत्वा दंडायोग्यं तु दंडयेत् । करोति ब्राह्मणस्यापि देहदंडं च लोलुपः
स सूकरमुखैर्दुष्टैः पीड्यते यमकिंकरैः । पश्चाद्दुष्टासु योनीषु जायते पापमुक्तये
ब्राह्मणानां गवां ये तु द्रव्यं वृत्तं तथाल्पकम् । वृत्तिं वा गृह्णते मोहाल्लुंपंति स्वबलान्नराः