तमागतं नृपं ज्ञात्वा शत्रुघ्नं बलिनां वरम् । अर्घ्यपाद्यादिकं चक्रे प्रीतस्तद्दर्शनादभूत्
सुखोपविष्टं विश्रान्तं नृपं प्राह मुनीश्वरः । किमर्थमटनं देव महत्पर्यटनं तव
त्वादृशाः पृथिवीं सर्वां नृपा वै न भ्रमंति चेत् । तदा दुष्टजनाः साधून्बाधंते विगतज्वरान्
कथयस्व महीपाल शत्रुघ्न बलिनां वर । सर्वं शुभायनो भूयात्तव पर्यटनादिकम्
शेष उवाच। इत्युक्तवंतं भूदेवं प्रत्युवाच महीश्वरः । गद्गद स्वरया वाण्या हर्षित स्वीयविग्रहः
शत्रुघ्न उवाच। अकस्मादभवच्चित्रं रामाश्वस्य मनोहृतः । नातिदूरे त्वदावासात्तच्छृणुष्व विदांवर
उद्याने तव शोभाढ्ये यदृच्छातो हयो गतः । तत्प्रांते तस्य वाहस्य गात्रस्तंभोऽभवत्क्षणात्
तदा मे बलिनो वीराः पुष्कलाद्या मदोत्कटाः । बलादाचकृषुर्वाहं न चचाल तथाप्यसौ
अस्मानपारदुःखाब्धौ मग्नान्प्रतितरिः स्मृतः । दैवाद्दृष्टः सुभाग्यैस्त्वं कथयस्व निदानकम्
शेष उवाच। एवं पृष्टो मुनिवरः क्षणं दध्यौ महामतिः । ततः कारणसंयुक्तं विचारेण दधद्धयम्
क्षणात्तज्ज्ञानतां प्राप्य विस्मयोत्फुल्ललोचनः । जगाद स महीपालं दुःखितं संशयान्वितम्
शौनक उवाच। शृणु राजन्प्रवक्ष्यामि हयस्तंभस्य कारणम् । यच्छ्रुत्वा मुच्यते दुःखादतिचित्रकथानकम्
गौडदेशे महारण्ये कावेरीतीरभूषिते । वाडवः सात्वको नाम्ना चचार परमं तपः
एकाहं पयसः प्राशी दिनैकं वायुभक्षकः । दिनैकं तु निराहार एवं त्रिदिनमुन्नयेत्
एवं व्रते प्रवृत्तस्य कालः सर्वक्षयंकरः । जग्राह स्वस्य दंष्ट्रायां मृतिं प्राप महाव्रती
विमाने सर्वशोभाढ्ये सर्वरत्नविभूषिते । अप्सरोभिः सह क्रीडन्ययौ मेरोः शिखास्थितौ
जंबूनाममहावृक्षस्तत्र सेव्यरसोऽभवत् । नदी जांबवती संज्ञा स्वर्णद्रवसमन्विता
तस्यां मुनयइच्छाभिः क्रीडंते कुतुकान्विताः । अनेकतपसा पुण्याः सर्वसौख्यसमन्विताः
तत्रासौ स्वेच्छया क्रीडन्नप्सरोभिर्मुदान्वितः । प्रतीपमाचरत्तेषां स्वाभिमानमदोद्धतः
ततः शप्तः स मुनिभी राक्षसो भव दुर्मुखः । ततोऽतिदुःखितः प्राह मुनीन्विद्यातपोधनान्
अनुगृह्णंतु मां सर्वे विप्रा यूयं कृपालवः । तदा तैरनुगृहीतो यदा रामहयं भवान्
स्तंभयिष्यति वेगेन ततो रामकथाश्रुतिः । पश्चान्मुक्तिर्भवित्री ते शापादस्मात्सुदारुणात्
स प्रोक्तो मुनिभिर्देवो राक्षसत्वमितः प्रभो । स्तंभयामास रामाश्वं मोचयानघकीर्तनैः
शेष उवाच। इति प्रोक्तं तु मुनिना संश्रुत्य परवीरहा । विस्मयं मानयामास हृदि शौनकमब्रवीत्
शत्रुघ्न उवाच। कर्मणो गहना वार्ता यया सात्वकनामधृत् । दिवं प्राप्तोऽपि महता कर्मणा राक्षसीकृतः
स्वामिन्वद महर्षे त्वं कर्मणां स्वगतिर्यथा । येन कर्मविपाकेन यादृशं नरकं भवेत्
शौनक उवाच। धन्योसि राघवश्रेष्ठ यत्ते मतिरियं शुभा । जानन्नपि हितार्थाय लोकानां त्वं ब्रवीषि भोः
कथयामि विचित्राणां कर्मणां विविधा गतीः । ताः शृणुष्व महाराज यच्छ्रुत्वा मोक्षमाप्नुयात्
परवित्तं परापत्यं कलत्रं पारकं च यः । बलात्कारेण गृह्णाति भोगबुद्ध्या च दुर्मतिः
कालपाशेन संबद्धो यमदूतैर्महाबलैः । तामिस्रे पात्यते तावद्यावद्वर्षसहस्रकम्