तत्रोद्यानं महच्छ्रेष्ठं पादपैः परिशोभितम् । शालैस्तालैस्तमालैश्च कर्णिकारैः समन्ततः
हिंतालैर्नागपुन्नागैः कोविदारैः सबिल्वकैः । चम्पकैर्बकुलैर्मेघैर्मदनैः कुटजादिभिः
जातिकाभिर्यूथिकाभिर्नवमालिकया तथा । आम्रैर्माधवद्राक्षाभिर्दाडिमैः शोभितं वनम्
अनेकपक्षिसंघुष्टं भ्रमरैर्निनदीकृतम् । मयूरकेकारवितं सर्वर्तुसुखदं हयः
प्रविवेश स शत्रुघ्नो मनोवेगसमन्वितः । स्वर्णपत्रं विशाले स्वे भाले बिभ्रन्मनोहरम्
गच्छतस्तस्य वाहस्य हयमेधक्रतोस्तदा । अकस्मादभवच्चित्रं तच्छृणुष्व द्विजोत्तम
गात्रस्तंभोऽभवत्तस्य न चचाल पथिस्थितः । हेमकूटइवाचाल्यो बभूव हयसत्तमः
तदा तद्रक्षकाः सर्वे कशाघातान्वितेनिरे । तदाहतेऽपि न ययौ स्तब्धगात्रो हयोत्तमः
शत्रुघ्नं सविधे गत्वा चुक्रुशुर्वाहरक्षकाः । स्वामिन्वयं न जानीमः किमभूद्धयसत्तमे
गच्छतो वाहवर्यस्य मनोवेगस्य भूपते । आकस्मिकोऽभवत्तस्य गात्रस्तंभो महामते
कशाभिस्ताडितोऽस्माभिः परं तत्र चचाल न । एवं विचार्य यत्कर्म तत्कुरुष्व नृपोत्तम
तदा विस्मयमापन्नो भूपतिः सह सैनिकैः । जगाम सहितः सर्वैर्हयस्य महतोऽन्तिके
पुष्कलो बाहुना धृत्वा चरणौ तस्य भूतलात् । उत्पाटयामास तदा परं नो चेलतुस्ततः
बलेन बलिनाक्रांतो नाकम्पत हयस्तदा । हनूमांस्तं समुद्धर्तुं मतिं चक्रे महामनाः
लांगूलेन समावेष्ट्य बलेन बलिनां वरः । आचकर्ष बलाद्वाहं न चचाल तथापि सः
तदोवाच कपिश्रेष्ठो हनूमान्विस्मयान्वितः । शत्रुघ्नं बलिनां श्रेष्ठं वीराणां परिशृण्वताम्
मया द्रोणो लांगुलेन लीलयोत्पाटितोऽधुना । परमत्र महाश्चर्यं कम्पते न हयोऽल्पकः
दृष्टमत्र निदानं हि वीरैर्बलिभिरुद्धतैः । आकृष्टोऽपि न च स्थानाच्चचाल तिलमात्रतः
कपिभाषितमाकर्ण्य शत्रुघ्नो विस्मयान्वितः । सुमतिं मंत्रिणां श्रेष्ठमुवाच वदतां वरः
शत्रुघ्न उवाच। मंत्रिन्किमभवद्वाहे स्तंभनं वपुषोऽनघ । कोऽत्रोपायो विधेयः स्याद्येन वाहगतिर्भवेत्
सुमतिरुवाच। स्वामिन्कश्चिन्मुनिर्मृग्योऽखिलज्ञानविचक्षणः । देशोद्भवमहं जाने प्रत्यक्षं न परोक्षजम्
शेष उवाच। इति वाक्यं समाकर्ण्य सुमतेर्धर्मकोविदः । अन्वेषयामास मुनिं सेवकैः सह शोभनम्
ते सर्वे सर्वतो गत्वा मुनिं धर्मविदं भटाः । व्यालोकयंतः सर्वत्र न चापश्यन्मुनीश्वरम्
एकस्त्वनुचरो विप्र गतो योजनमात्रतः । पूर्वस्यां दिशि चोद्युक्तः पश्यति स्म महाश्रमम्
यत्र निर्वैरिणः सर्वे पशवो जनतास्तथा । गंगास्नानहताशेषकिल्बिषाः सुमनोहराः
यत्र केचित्तपः श्रेष्ठं कुर्वंति स्म हुताशनैः । धूमैरधोमुखाः पत्रैर्वायुभिः स्वोदरंभराः
यत्राग्निहोत्रजो धूमः पवित्रयति सर्वदा । अनेकमुनिसंहृष्टो मुक्तपत्रलतोत्तमः
तमाश्रमं मुनेर्ज्ञात्वा शौनकस्य मनोहरम् । न्यवेदयन्नृपायासौ विस्मयाविष्टचेतसे
तच्छ्रुत्वा हर्षितोऽत्यंतं शत्रुघ्नः सह सेवकैः । हनूमत्पुष्कलाद्यैश्च सयुतोऽगात्तदाश्रमम्
तत्र वीक्ष्य मुनिश्रेष्ठं सम्यग्घुतहुताशनम् । प्रणम्य दंडवत्तस्य चरणौ पापहारिणौ