मा जानीहि मनुष्यं तं रामं लोकैकवंदितम् । जले स्थले च सर्वत्र वर्तते संस्थितः सदा
ततो वीरा अलं हृष्टा अन्योन्यं परिरेभिरे । तूर्यमंगलवादित्रैः सुमहानुत्सवोऽभवत्
ततो मुक्तो हयः सर्वैर्वीरैः शस्त्रास्त्रकोविदैः । सर्वैरनुगतः प्रीतैर्विस्मयेन समन्वितैः
शर्वः सत्यप्रतिज्ञश्च तमनुज्ञाप्य सेवकम् । श्रीरामं शरणं प्रोच्य याहि लोकैकदुर्ल्लभम्
स्वयमंतर्हितस्तत्र प्रलयोत्पत्तिकारकः । कैलासमगमच्छर्वः सेवकैः परिशोभितः
भूपो वीरमणिर्ध्यायञ्छ्रीरामचरणोदजम् । शत्रुघ्नेन ययौ साकं बलिना बलसंयुतः
एतद्रामस्य चरितं ये शृण्वंति नरोत्तमाः । तेषां संसारजं दुःखं न भविष्यति कर्हिचित्
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे हयप्रस्थानंनाम षट्चत्वारिंशत्तमोऽध्यायः
शेष उवाच। हयो गतो हेमकूटं भारतांते ततो द्विज । अनेकभटसाहस्रै रक्षितो बद्धचामरः
यो वै विस्तरतो दैर्घ्याद्योजनानां समं ततः । अयुतेन सुशृङ्गैश्च राजतैः कांचनादिभिः
तत्रोद्यानं महच्छ्रेष्ठं पादपैः परिशोभितम् । शालैस्तालैस्तमालैश्च कर्णिकारैः समन्ततः
हिंतालैर्नागपुन्नागैः कोविदारैः सबिल्वकैः । चम्पकैर्बकुलैर्मेघैर्मदनैः कुटजादिभिः
जातिकाभिर्यूथिकाभिर्नवमालिकया तथा । आम्रैर्माधवद्राक्षाभिर्दाडिमैः शोभितं वनम्
अनेकपक्षिसंघुष्टं भ्रमरैर्निनदीकृतम् । मयूरकेकारवितं सर्वर्तुसुखदं हयः
प्रविवेश स शत्रुघ्नो मनोवेगसमन्वितः । स्वर्णपत्रं विशाले स्वे भाले बिभ्रन्मनोहरम्
गच्छतस्तस्य वाहस्य हयमेधक्रतोस्तदा । अकस्मादभवच्चित्रं तच्छृणुष्व द्विजोत्तम
गात्रस्तंभोऽभवत्तस्य न चचाल पथिस्थितः । हेमकूटइवाचाल्यो बभूव हयसत्तमः
तदा तद्रक्षकाः सर्वे कशाघातान्वितेनिरे । तदाहतेऽपि न ययौ स्तब्धगात्रो हयोत्तमः
शत्रुघ्नं सविधे गत्वा चुक्रुशुर्वाहरक्षकाः । स्वामिन्वयं न जानीमः किमभूद्धयसत्तमे
गच्छतो वाहवर्यस्य मनोवेगस्य भूपते । आकस्मिकोऽभवत्तस्य गात्रस्तंभो महामते
कशाभिस्ताडितोऽस्माभिः परं तत्र चचाल न । एवं विचार्य यत्कर्म तत्कुरुष्व नृपोत्तम
तदा विस्मयमापन्नो भूपतिः सह सैनिकैः । जगाम सहितः सर्वैर्हयस्य महतोऽन्तिके
पुष्कलो बाहुना धृत्वा चरणौ तस्य भूतलात् । उत्पाटयामास तदा परं नो चेलतुस्ततः
बलेन बलिनाक्रांतो नाकम्पत हयस्तदा । हनूमांस्तं समुद्धर्तुं मतिं चक्रे महामनाः
लांगूलेन समावेष्ट्य बलेन बलिनां वरः । आचकर्ष बलाद्वाहं न चचाल तथापि सः
तदोवाच कपिश्रेष्ठो हनूमान्विस्मयान्वितः । शत्रुघ्नं बलिनां श्रेष्ठं वीराणां परिशृण्वताम्
मया द्रोणो लांगुलेन लीलयोत्पाटितोऽधुना । परमत्र महाश्चर्यं कम्पते न हयोऽल्पकः
दृष्टमत्र निदानं हि वीरैर्बलिभिरुद्धतैः । आकृष्टोऽपि न च स्थानाच्चचाल तिलमात्रतः
कपिभाषितमाकर्ण्य शत्रुघ्नो विस्मयान्वितः । सुमतिं मंत्रिणां श्रेष्ठमुवाच वदतां वरः
शत्रुघ्न उवाच। मंत्रिन्किमभवद्वाहे स्तंभनं वपुषोऽनघ । कोऽत्रोपायो विधेयः स्याद्येन वाहगतिर्भवेत्