ये त्वद्भक्तास्त एवासन्मद्भक्ता धर्मसंयुताः । मद्भक्ता अपि भूयस्या भक्त्या तव नतिंकराः
शेष उवाच। इत्थं भाषितमाकर्ण्य शर्वो वीरमणिं नृपम् । मूर्च्छितं जीवयामास करस्पर्शादिना प्रभुः
अन्यानपि सुतानस्य मूर्च्छिताञ्छरपीडितान् । जीवयामास स मृडः समर्थः प्रभुरीश्वरः
सज्जं विधाय तं भूपं श्रीरामपदयोर्नतिम् । कारयामास भूतेशः पुत्रपौत्रैः परीवृतम्
धन्यो राजा वीरमणिर्यो ददर्श रघूत्तमम् । योगिभिर्योगनिष्ठाभिर्दुष्प्रापमयुतायुतैः
ते नत्वा रघुनाथं तं कृतार्थी कृतविग्रहाः । ब्रह्मादिभिः पूज्यतमा अभूवन्द्विजसत्तम
शत्रुघ्न हनुमद्भ्यां च पुष्कलादिभिरुद्भटैः । परिष्टुताय रामाय ददौ राजा हयोत्तमम्
राज्येन सहितं सर्वं सपुत्रपशुबांधवम् । शर्वेण प्रेरितः प्रादाद्भूपो वीरमणिस्तदा
ततो रामो नुतः सर्वैर्वैरिभिर्निजसेवकैः । शत्रुघ्नादिभिरत्यंतमुत्सुकैश्च विशेषतः
रथे मणिमये तिष्ठन्बभूव स तिरोहितः । अंतर्हिते रामभद्रे सर्वे प्रापुः सुविस्मयम्
मा जानीहि मनुष्यं तं रामं लोकैकवंदितम् । जले स्थले च सर्वत्र वर्तते संस्थितः सदा
ततो वीरा अलं हृष्टा अन्योन्यं परिरेभिरे । तूर्यमंगलवादित्रैः सुमहानुत्सवोऽभवत्
ततो मुक्तो हयः सर्वैर्वीरैः शस्त्रास्त्रकोविदैः । सर्वैरनुगतः प्रीतैर्विस्मयेन समन्वितैः
शर्वः सत्यप्रतिज्ञश्च तमनुज्ञाप्य सेवकम् । श्रीरामं शरणं प्रोच्य याहि लोकैकदुर्ल्लभम्
स्वयमंतर्हितस्तत्र प्रलयोत्पत्तिकारकः । कैलासमगमच्छर्वः सेवकैः परिशोभितः
भूपो वीरमणिर्ध्यायञ्छ्रीरामचरणोदजम् । शत्रुघ्नेन ययौ साकं बलिना बलसंयुतः
एतद्रामस्य चरितं ये शृण्वंति नरोत्तमाः । तेषां संसारजं दुःखं न भविष्यति कर्हिचित्
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे हयप्रस्थानंनाम षट्चत्वारिंशत्तमोऽध्यायः
शेष उवाच। हयो गतो हेमकूटं भारतांते ततो द्विज । अनेकभटसाहस्रै रक्षितो बद्धचामरः
यो वै विस्तरतो दैर्घ्याद्योजनानां समं ततः । अयुतेन सुशृङ्गैश्च राजतैः कांचनादिभिः
तत्रोद्यानं महच्छ्रेष्ठं पादपैः परिशोभितम् । शालैस्तालैस्तमालैश्च कर्णिकारैः समन्ततः
हिंतालैर्नागपुन्नागैः कोविदारैः सबिल्वकैः । चम्पकैर्बकुलैर्मेघैर्मदनैः कुटजादिभिः
जातिकाभिर्यूथिकाभिर्नवमालिकया तथा । आम्रैर्माधवद्राक्षाभिर्दाडिमैः शोभितं वनम्
अनेकपक्षिसंघुष्टं भ्रमरैर्निनदीकृतम् । मयूरकेकारवितं सर्वर्तुसुखदं हयः
प्रविवेश स शत्रुघ्नो मनोवेगसमन्वितः । स्वर्णपत्रं विशाले स्वे भाले बिभ्रन्मनोहरम्
गच्छतस्तस्य वाहस्य हयमेधक्रतोस्तदा । अकस्मादभवच्चित्रं तच्छृणुष्व द्विजोत्तम
गात्रस्तंभोऽभवत्तस्य न चचाल पथिस्थितः । हेमकूटइवाचाल्यो बभूव हयसत्तमः
तदा तद्रक्षकाः सर्वे कशाघातान्वितेनिरे । तदाहतेऽपि न ययौ स्तब्धगात्रो हयोत्तमः
शत्रुघ्नं सविधे गत्वा चुक्रुशुर्वाहरक्षकाः । स्वामिन्वयं न जानीमः किमभूद्धयसत्तमे
गच्छतो वाहवर्यस्य मनोवेगस्य भूपते । आकस्मिकोऽभवत्तस्य गात्रस्तंभो महामते