ततः पितामहो ब्रह्मचक्रपद्मादिचिह्नितम् । पादं तद्देवदेवस्य हर्षसंकुलचेतसा
धन्योस्मीति वदन्ब्रह्मा गृहीत्वा स्वकमंडलुम् । भक्त्या प्रक्षालयामास तत्रसंस्थित वारिणा
अक्षय्यमभवत्तोयं तस्य विष्णोः प्रभावतः । तत्तीर्थं मेरुशिखरे पपात विमलं जलम्
जगतः पावनार्थं वै चतुर्दिक्षु प्रवाहितम् । सिता चालकनन्दा च चक्षुर्भद्रा यथाक्रमम्
ततश्चालकनन्दा च मेरोर्दक्षिणतः स्मृता । त्रिधा नाम्ना त्रिपथगा त्रिस्रोता लोकपावनी
स्वर्गे मंदाकिनी प्रोक्ता त्वधो भोगवती तथा । मध्ये वेगवती गंगा पावनार्थं नृणां शिवा
तां दृष्ट्वा मेरुमध्ये तु प्रस्रवंतीं शुभानने । आत्मनः पावनार्थाय शिरसाहमधारयम्
दिव्यं वर्षसहस्रं तु धृत्वा गंगाजलं शुभम् । शिवत्वमगमं देवि सर्वलोकेषु पूजितः
यो वहेच्छिरसा गंगातोयं विष्णुपदोद्भवम् । प्राशयेद्वा जगत्पूज्यो भविष्यति न संशयः
गंगागंगेति यो ब्रूयाद्योजनानां शतैरपि । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति
ततो भगीरथो राजा गौतमश्च महातपाः । तपसा पूजयित्वा मां गंगार्थं समयाचत
सर्वलोकहितार्थाय तां गंगां वैष्णवीं शिवाम् । तयोरहं तामददां प्रीत्या देवि सरिद्वराम्
गौतमेन समानीता गौतमी तेन कीर्त्तिता । भागीरथीति विख्याता तेन राज्ञा वृता यतः
प्रसंगात्ते समाख्यातं गंगाजन्मात्यनुत्तमम् । ततो नारायणः श्रीमान्बलिं दैत्यपतिं प्रभुः
रसातलं शुभं लोकं प्रददौ भक्तवत्सलः । सर्वेषां दानवानां तु नागानां यादसामपि
राजानं तु बलिं चक्रे यावदाभूतसंप्लवम् । प्रतिगृह्य बलेर्लोकान्बटुवेषेण दैत्यहा
महेंद्राय ददौ प्रीत्या काश्यपो विष्णुरव्ययः । ततो देवाः सगंधर्वा ऋषयश्च महौजसः
तुष्टुवुः स्तुतिभिर्द्दिव्यैः पूजयामासुरच्युतम् । संक्षिप्य तन्महद्रूपं तेषां संदर्शनाय वै
संपूज्यमानास्त्रिदशैरंतर्द्धानं ययौ हरिः । इत्थं सुरक्षितः शक्रो विष्णुना प्रभविष्णुना
त्रैलोक्यं महदैश्वर्य्यमवाप त्रिदिवेश्वरः । एतत्ते सर्वमाख्यातं वामनं वैभवं शुभम् । शेषं यद्वैभवं देवि तद्वक्ष्यामि यथाक्रमात्
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे वामनप्रादुर्भावोनाम चत्वारिंशदधिकद्विशततमोऽध्यायः
रुद्र उवाच- हत्वाथ यवनं तत्र मुचुकुंदेन धीमता । दत्त्वा तस्मै वरं मुक्तिं निष्क्रांतो यदुनंदनः
हतं च यवनं श्रुत्वा जरासंधः सुदुर्मतिः । ययुधे रामकृष्णाभ्यां स्वबलेन समावृतः
कृष्णेन निहतं सैन्यं सर्वं तस्य दुरात्मनः । स पपात महीपृष्ठे मूर्च्छितो मगधाधिपः
चिरेण लब्ध्वा संज्ञां तु विह्वलांगो भयातुरः । न शशाक रणे योद्धुं रामेण मगधेश्वरः
विमुखः प्राद्रवत्तूर्णं हतशेषबलानुगः । अजेयाविति तौ मत्वा रामकृष्णौ महाबलौ
तयोर्विरोधं त्यक्त्वाथ नगरीं स्वां विवेश ह । अथ तौ वसुदेवस्य तनयौ सह सेनया
मथुरां त्यज्य नगरीं प्रविष्टौ द्वारिकां पुरीम् । इंद्रेण प्रेषितो वायुः सभां तत्र दिवौकसाम्
कृष्णाय प्रददौ प्रीत्या निर्मितां विश्वकर्मणा । वज्रवैडूर्यरचितां बह्वासनविचित्रिताम्
नानारत्नमयैर्दिव्यैः स्वर्णच्छत्रैर्विराजिताम् । तां प्राप्य रम्यां तु सभामुग्रसेनादयो नृपाः