बृहस्पतिं सुराध्यक्षं मंत्रिणं स्वर्गवासिनाम् । पप्रच्छ सविधे गत्वा नत्वा सुरगुरुं वरम्
इंद्र उवाच। कोऽसौ यो वानरो द्रोणं नेतुं स्वामिन्समागतः । येन मे निहता वीरा अमराः शस्त्रधारिणः
शेष उवाच। एतच्छ्रुत्वा तु तद्वाक्यमुक्तमांगिरसो महान् । जगाद भयसंविग्नं तुरासाहं सुराधिपम्
बृहस्पतिरुवाच। यो रावणमहन्संख्ये कुंभकर्णमदीदहत् । येन ते वैरिणः सर्वे हतास्तस्यैव सेवकः
येन लंका सत्रिकूटा निर्दग्धा पुच्छवह्निना । अक्षश्च निहतो येन हनूमंतमवेहि तम्
तेन सर्वे विनिहता द्रोणार्थमयमुद्यतः । हयमेधं महाराजः करोति बलिसत्तमः
तस्याश्वं शिवभक्तस्तु नृपो वीरमणिर्महान् । जहार तत्र समभूद्रणं सुरविमोहनम्
शिवेन निहताः संख्ये वीरा रामस्य भूरिशः । तान्वै जीवयितुं द्रोणं नेष्यत्येव महाबलः
नायं वर्षशतैर्जेयो भवता बलसंयुतः । तस्मात्प्रसादय कपिं देहि तत्रत्यमौषधम्
शेष उवाच। आगतं वीक्ष्य श्रीरामं शत्रुघ्नः प्रणतार्तिहम् । भ्रातरं सकलाद्दुःखान्मुक्तोऽभूद्द्विजसत्तम
हनूमान्वीक्ष्य विभ्रांतो रामस्य चरणौ मुदा । ववंदे भक्तरक्षार्थमागतं निजगाद च
स्वामिंस्तवैतद्युक्तं तु स्वभक्तपरिपालनम् । यत्संग्रामे जितं सर्वं पाशबद्धममोचयः
वयं त्विदानीं धन्या वै यद्द्रक्ष्यामो भवत्पदे । जेष्यामोऽरीन्क्षणादेव त्वत्कृपातो रघूद्वह
शेष उवाच। स्थाणुस्तदागतं रामं योगिनां ध्यानगोचरम् । पतित्वा पादयोर्विप्र जगाद प्रणताभयम्
एकस्त्वं पुरुषः साक्षात्प्रकृतेः पर ईर्यसे । यः स्वांशकलया विश्वं सृजस्यवसि हंसि च
अरूपस्त्वमशेषस्य जगतः कारणं परम् । एक एव त्रिधारूपं गृह्णासि कुहकान्वितः
सृष्टौ विधातृरूपेण पालने स्वयमास च । प्रलये जगतः साक्षादहं शर्वाख्यतां गतः
तव यत्परमेशस्य हयमेधक्रतुक्रिया । ब्रह्महत्यापनोदाय तद्विडंबनमद्भुतम्
यत्पादशौचममलं गंगाख्यं शिरसोंऽतरा । वहामि पापशांत्यर्थं तस्य ते पातकं कुतः
मया बह्वपकाराय कृतं कर्म तव स्फुटम् । क्षम्यतां तत्कृपालो हि भवतो व्यवधायकम्
किं करोमि मया सत्यपालनार्थमिदं कृतम् । जानन्प्रभावं भवतो भक्तरक्षार्थमागतः
असौ पुरा उज्जयिन्यां महाकालनिकेतने । स्नात्वा शिप्राख्य सरिति तपस्तेपे महाद्भुतम्
ततः प्रसन्नो जातोऽहं जगाद भूमिपं प्रति । याचस्वेति महाराज स वव्रे राज्यमद्भुतम्
मया प्रोक्तं देवपुरे तव राज्यं भविष्यति । यावद्रामहयः पुर्यामागमिष्यति याज्ञिकः
तावत्प्रभृत्यहं स्थास्ये तव रक्षार्थमुद्यतः । एतद्दत्तवरो राम किं करोमि स्वसत्यतः
घृणितोऽस्म्यधुना राज्ञा सपुत्रपशुबांधवः । हयं समर्प्यते पादसेवां राजा विधास्यति
शेष उवाच। इति वाक्यं समाकर्ण्य महेशस्य रघूत्तमः । उवाच धीरया वाचा कृपया पूर्णलोचनः
राम उवाच। देवानामयमेवास्ति धर्मो भक्तस्य पालनम् । त्वया साधुकृतं कर्म यद्भक्तो रक्षितोऽधुना
ममासि हृदये शर्व भवतो हृदये त्वहम् । आवयोरंतरं नास्ति मूढाः पश्यंति दुर्धियः
ये भेदं विदधत्यद्धा आवयोरेकरूपयोः । कुंभीपाकेषु पच्यंते नराः कल्पसहस्रकम्