तच्छ्रुत्वा वाक्यमीशस्य जगाम द्रोणपर्वतम् । द्वीपान्सर्वानतिक्रम्य जगाम क्षीरसागरम्
अत्र तु स्वगणैश्चायं रक्षति स्म शिवो महान् । श्मशानं तद्गणैः स्वीयैर्महाबलपराक्रमैः
हनूमान्द्रोणमासाद्य द्रोणंनाम महागिरिम् । लांगूले तं निधायाशु प्रतस्थे रणमंडलम्
तं नेतुमुद्यते विप्र चकंपे स च पर्वतः । कंपमानं तु तं दृष्ट्वा तत्पाला देवतागणाः
हाहेति कृत्वा प्रोचुस्ते किमिदं भविता गिरौ । को ह्येनं नयते वीरो महाबलपराक्रमः
एवं कृत्वा सुराः सर्वे संहता ददृशुः कपिम् । मुंचैनमिति तं प्रोच्य जघ्नुः शस्त्रास्त्रकोटिभिः
तान्सर्वान्निघ्नतो दृष्ट्वा हनूमान्कुपितो भृशम् । जघान तान्क्षणाद्वीरः शक्रः सर्वासुरान्यथा
केचित्पदाहतास्तत्र केचित्करविमर्दिताः । लांगूलेन हताः केचित्केचिच्छृंगेण चाहताः
सर्वे ते नाशमापन्नाः क्षणात्कीशेन ताडिताः । केचिन्निपतिता भूमौ रुधिरेण परिप्लुताः
केचित्कीशभयात्त्रस्ता जग्मुः शक्रं सुराधिपम् । क्षतेन च परिप्लुष्टा रुधिरक्षतदेहिनः
तान्दृष्ट्वा भयसंविग्नान्रुधिरेण परिप्लुतान् । सुराञ्जगाद विमनाः शक्रः सर्वसुरोत्तमः
कथं यूयं भयत्रस्ताः कथं रुधिरविप्लुताः । केन दैत्येन निहता राक्षसेनाधमेन वा
सर्वं शंसत मे तथ्यं यथा ज्ञात्वा व्रजामि तम् । निहत्य बद्ध्वा चायामि युष्मद्घातकमुन्मदम्
इति वाक्यं समाकर्ण्य तुरासाहं सुरोत्तमाः । जगदुर्दीनया वाचा सुरासुरनमस्कृतम्
देवा ऊचुः। इहागत्य न जानीमः कश्चिद्वानररूपधृक् । नेतुं द्रोणं समुद्युक्तो लांगूले वेष्ट्य तं गिरिम्
गंतुं कृतमतिस्तावद्वयं सर्वे सुसंहताः । युद्धं चक्रुः सुसंनद्धाः सर्वशस्त्रास्त्रवर्षिणः
तेन सर्वे वयं युद्धे निर्जिता बलशालिना । अनेके निहतास्तत्र भूमौ पेतुः सुरोत्तमाः
वयं तु बहुभिः पुण्यैर्जीविता इह चागताः । शोणितेन सुसिक्तांगाः क्षतपीडासमन्विताः
एतद्वाक्यं समाकर्ण्य सुराणां स पुरंदरः । आदिदेश सुरान्सर्वान्महाबलसमन्वितान्
यात महाद्रोणगिरिं कपिं बद्धुं महाबलम् । बद्ध्वा नयत यूयं वै सुराणां रणपातकम्
इत्याज्ञप्ता ययुस्ते वै द्रोणं पर्वतसत्तमम् । यत्रास्ते बलवान्वीरो हनूमान्कपिसत्तमः
गत्वा ते प्राहरन्सर्वे हनूमंतं महाबलम् । हनूमता ते निहता मुष्टिभिः करताडनैः
पतितास्ते क्षणात्तत्र रुधिरक्षतविग्रहाः । अन्ये पलायनपरा जग्मुस्ते त्रिदिवेश्वरम्
तच्छ्रुत्वा कुपितः शक्रः सर्वानमरसत्तमान् । आदिदेश महावीरं वानरेंद्रं सुरोत्तमः
तदाज्ञप्ता ययुस्ते वै यत्र कीशेश्वरो बली । तान्सर्वानागतान्दृष्ट्वा जगाद कपिसत्तमः
मायां तु वीराः समरे संहर्तारं हि मां बलात् । नेष्यामि युष्मानधुना संयमिन्याः पुरोंऽतिके
इत्युक्ता अपि ते सर्वे सन्नद्धाः प्राहरन्कपिम् । शस्त्रास्त्रैर्बहुधा मुक्तैर्महाबलसमन्विताः
केचिच्छूलैः परशुभिः केचित्खड्गैश्च पट्टिशैः । मुसलैः शक्तिभिः केचित्क्रोधेन कलुषीकृताः
स आहतोऽमरवरैर्विविधैरायुधैर्बली । शिलाभिस्ताञ्जघानाशु सर्वानमरसत्तमान्
केचित्पलाय्य आहुस्ते गताः शक्रसमीपकम् । तदुक्तं वाक्यमाकर्ण्य भयं प्राप सुराधिपः