नभःस्था देवताः सर्वाः प्रशशंसुः कपीश्वरम् । धन्योसि प्लवगाधीश महत्कर्म त्वया कृतम्
श्रीशिवं विरथं दृष्ट्वा नंदी तं समुपाद्रवत् । उवाच श्रीमहादेवं मत्पृष्ठं गम्यतामिति
वृषस्थितं तु भूतेशं हनूमान्कुपितो भृशम् । शिलामुत्पाट्य तरसा प्राहनद्धृदये तदा
तदाहतो भूतपतिः शूलं तीक्ष्णं समाददे । जाज्वल्यमानं त्रिशिखं वह्निज्वालासमप्रभम्
आयातं तन्महद्दृष्ट्वा शूलं प्रज्वलनप्रभम् । हस्ते गृहीत्वा तरसा बभंज तिलशः क्षणात्
भग्ने त्रिशूले तरसा कपीन्द्रेण क्षणाच्छिवः । शक्तिं करे समाधत्त सर्वलोहविनिर्मिताम्
सा शक्तिः शिवनिर्मुक्ता हृदये तस्य धीमतः । लग्ना क्षणादभूत्तत्र विक्लवः प्लवगाधिपः
क्षणाच्च तद्व्यथां तीर्त्वा गृहीत्वा वृक्षमुल्बणम् । ताडयामास हृदये महाव्यालविभूषिते
ताडितास्तेन वीरेण फणीन्द्रास्त्रा समागताः । इतस्ततस्ते तं मुक्त्वा गताः पातालमुज्जवाः
शिवस्तस्मिन्नगे मुक्ते वक्षसि स्वे निरीक्ष्य च । कुपितो व्यदधाद्घोरं मुसलं करयुग्मके
हतोसि गच्छ संग्रामात्पलाय्य प्लवगाधम । एष ते प्राणहंताहं मुसलेन क्षणादिह
मुसलं वीक्ष्य निर्मुक्तं शिवेन कुपितेन वै । कीशस्तद्वंचयामास महावेगाद्धरिं स्मरन्
मुसलं तत्पपाताधः शिवमुक्तं महायसम् । विदार्य पृथिवीं सर्वां जगाम च रसातलम्
तदा प्रकुपितोऽत्यतं हनूमान्रामसेवकः । गृहीत्वा पर्वतं हस्ते ताडयामास वक्षसि
स यावत्पर्वतं छेत्तुं मतिं चक्रे सतीपतिः । तावद्धतः कपींद्रेण शालेन बहुशाखिना
तमपिच्छेत्तुमुद्युक्तो यावत्तावच्छिलाहतः । शिलास्ता भेदितुं स्वांतं चकार मृड उद्यतः
तावद्वृष्टिं चकारायं शिलाभिर्नगपर्वतैः । लांगूलेन च संवेष्ट्य ताडयत्येष भूतपम्
शिलाभिः पर्वतैर्वृक्षैः पुच्छास्फोटेन भूरिशः । नंदी प्राप्तो महात्रासं चंद्रोऽपि शकलीकृतः
अत्यंतं विह्वलो जातो महेशानः प्रकोपनः । क्षणेक्षणे प्रहारेण विह्वलं कुर्वतं भृशम्
जगाद प्लवगाधीशं धन्योसि रघुपानुग । महत्कर्म कृतं तेऽद्य यत्तेहं सुप्रतोषितः
न दानेन न यज्ञेन नाल्पेन तपसा ह्यहम् । सुलभोऽस्मि महावेग तस्मात्प्रार्थय मे वरम्
शेष उवाच। एवं ब्रुवंतं तं दृष्ट्वा हनूमान्निजगाद तम् । प्रहसन्निर्भिया वाण्या महेशानं सुतोषितम्
हनूमानुवाच। रघुनाथप्रसादेन सर्वं मेऽस्ति महेश्वर । तथापि याचे हि वरं त्वत्तः समरतोषितात्
एष पुष्कलसंज्ञो नः समरे पतितो हतः । तथैव रामावरजः शत्रुघ्नो मूर्च्छितो रणे
अन्ये च वीरा बहवः पतिताः शरविक्षताः । मूर्च्छिताः पतिताः केचित्तान्रक्षस्व गणैः सह
यथा चैतान्महाभूता वेतालाश्च पिशाचकाः । न हरंति न खादंति श्वशृगालादयस्तथा
एतेषां वपुषो भेदो न भवेत्त्वं तथाचर । यावदिंद्रगणं जित्वा न यामि द्रोणपर्वतम्
तत्रस्था औषधीर्वापि नीत्वा संस्थापितान्भटान् । जीवयामि बलात्सर्वांस्तावत्त्वं रक्ष सर्वशः
एष गच्छामि तं नेतुं द्रोणं पर्वतसत्तमम् । यस्मिन्वसंत्योषधयः प्राणिसंजीवनंकराः
एतद्वचः समाकर्ण्य तथेति निजगाद तम् । याहि शीघ्रं नगं तं तु रक्षामि त्वद्भटान्मृतान्