तस्य पापं ममैवास्तु चेन्न त्वां रणमंडले । पातये मूर्च्छया वीर सन्नद्धो भव भूपते
इति वाक्यं समाकर्ण्य पुष्कलस्य नृपोत्तमः । चुकोप भृशमुद्विग्नः संदधे निशिताञ्छरान्
ते शरा हृदयं भित्त्वा गतास्ते भारतेर्महत् । पेतुः क्षितावधो यद्वद्रामभक्तिपराङ्मुखाः
ततः शरं मुमोचास्मै निशितं वह्निसप्रभम् । लक्षीकृत्य महद्वक्षः कपाटतटविस्तृतम्
स बाणो भूमिपतिना द्विधा छिन्नः शरेण हि । पपात रथमध्ये स रविमंडलवज्ज्वलन्
अपरं बाणमाधत्त मातृभक्तिभवं ततः । निधाय पुण्यं सोऽप्येष चिच्छेद महता पुनः
तदा खिन्नः स हृदये किंकर्तव्यमिति स्मरन् । रामं हृदि निजार्तिघ्नं मुमोच परमास्त्रवित्
स बाणस्तस्य हृदये लग्न आशीविषोपमः । मूर्च्छामप्रापयत्तं वै ज्वलन्सूर्यसमप्रभः
ततो हाहाकृतं सर्वं पलायनपरायणम् । राज्ञि संमूर्च्छिते जाते पुष्कलो जयमाप्तवान्
शेष उवाच। आगत्य सविधे रुद्रं समरांगणमूर्धनि । जगाद हनुमान्वीरः संजिहीर्षुः सुराधिपम्
हनूमानुवाच। त्वं यदाचरसे रुद्र धर्मस्य प्रतिकूलनम् । तस्मात्त्वां शास्तुमिच्छामि रामभक्तवधोद्यतम्
मया पुरा श्रुतं देव ऋषिभिर्बहुधोदितम् । रघुनाथपदस्मारी नित्यं रुद्रः पिनाकभृत्
तत्सर्वं तु मृषा जातं शत्रुघ्नं प्रति युध्यतः । पुष्कलो मे हतः शूरः शत्रुघ्नोऽपि विमूर्च्छितः
तस्मात्त्वां पातयाम्यद्य त्रैलोक्यप्रलयोद्यतम् । यत्नात्तिष्ठस्व भोः शर्व रामभक्तिपराङ्मुखः
शेष उवाच। इत्युक्तवंतं प्लवगं प्रोवाच स महेश्वरः । धन्योऽसि वीरवर्यस्त्वं भवान्वदति नो मृषा
मत्स्वामी रामचंद्रोऽयं सुरासुरनमस्कृतः । तदश्वमानयामास शत्रुघ्नः परवीरहा
तद्रक्षार्थं समायातस्तद्भक्त्या तु वशीकृतः । यथाकथंचिद्भक्तोऽसौ रक्ष्यः स्वात्मा इति स्थितिः
रघुनाथः कृपां कृत्वा विलोकय तु निस्त्रपम् । मां स्वभक्त सुदुःखेन किंचित्कोपं दधन्महान्
शेष उवाच। एवं वदति चंडीशे हनूमान्कुपितो भृशम् । शिलामादाय महतीं ताडयामास तद्रथम्
शिलया ताडितस्तस्य रथः शकलतां गतः । ससूतः सहयः केतुपताकाभिः समन्वितः
नभःस्था देवताः सर्वाः प्रशशंसुः कपीश्वरम् । धन्योसि प्लवगाधीश महत्कर्म त्वया कृतम्
श्रीशिवं विरथं दृष्ट्वा नंदी तं समुपाद्रवत् । उवाच श्रीमहादेवं मत्पृष्ठं गम्यतामिति
वृषस्थितं तु भूतेशं हनूमान्कुपितो भृशम् । शिलामुत्पाट्य तरसा प्राहनद्धृदये तदा
तदाहतो भूतपतिः शूलं तीक्ष्णं समाददे । जाज्वल्यमानं त्रिशिखं वह्निज्वालासमप्रभम्
आयातं तन्महद्दृष्ट्वा शूलं प्रज्वलनप्रभम् । हस्ते गृहीत्वा तरसा बभंज तिलशः क्षणात्
भग्ने त्रिशूले तरसा कपीन्द्रेण क्षणाच्छिवः । शक्तिं करे समाधत्त सर्वलोहविनिर्मिताम्
सा शक्तिः शिवनिर्मुक्ता हृदये तस्य धीमतः । लग्ना क्षणादभूत्तत्र विक्लवः प्लवगाधिपः
क्षणाच्च तद्व्यथां तीर्त्वा गृहीत्वा वृक्षमुल्बणम् । ताडयामास हृदये महाव्यालविभूषिते
ताडितास्तेन वीरेण फणीन्द्रास्त्रा समागताः । इतस्ततस्ते तं मुक्त्वा गताः पातालमुज्जवाः
शिवस्तस्मिन्नगे मुक्ते वक्षसि स्वे निरीक्ष्य च । कुपितो व्यदधाद्घोरं मुसलं करयुग्मके