शिरांसि च भटाग्र्याणां कच्छपाभां वहंति वै । मांसानि पंका यत्रासन्वीराणां महतां ततः
एवं व्यतिकरे वृत्ते योगिन्यः शतशो रणे । पपुः पात्रेण रुधिरं प्राणिनां रणपातिनाम्
मांसानि बुभुजुस्ता वै हर्षकौतुकसंयुताः । पीत्वा तु शोणितं तत्र भक्षित्वा मांसमुन्मदाः
ननृतुर्जहसुः प्रोच्चैरुज्जगुः प्रधनांगणे । पिशाचास्तत्र समरे प्राणिनां मस्तकानि वै
धृत्वा कराभ्यां मत्तांगास्तालवद्वादनोद्यताः । शिवास्तत्र महामांसं पतितानां रणांगणे
भक्षित्वा व्यनदन्मत्ताः कातराणां भयप्रदाः । कातरास्त्राः समापन्ना गताः कुंजरकोटरे
भक्षिता योगिनीभिस्ते पापिनां क्वापि न स्थितिः । एतत्कदनमालक्ष्य स्वसैन्यस्य रथाग्रणीः
पुष्कलोऽपि चकारात्र कदनं रणमंडले । भिद्यंते गजशीर्षाणि पतंति मौक्तिकानि तु
दृश्यते लोमभिः पूर्णा ताम्रपर्णीव तन्नदी । पुष्कलप्रहिता बाणा नृणामंगेषु संगताः । कुर्वंति प्राणविच्छेदं वीराणामपि सर्वतः
सर्वे रुधिरसिक्तांगाः सर्वे च्छिन्ननिजांगकाः । दृश्यंते किंशुका यद्वत्सुभटाः प्रधनांगणे
एतस्मिन्समये क्रुद्धः समाभाष्य महीपतिम् । जघान बहुबाणैस्तं रोषपूरपरिप्लुतः
तद्बाणवेधभिन्नांगो विशीर्णकवचो नृपः । महाबलं तं मन्वानः प्राहरच्छरकोटिभिः
तैर्बाणैः कवचान्मुक्तं सुस्राव बहुशोणितम् । वपुर्बभूव रुचिरं शरपंजरगोचरम्
शरपंजरमध्यस्थो विह्वलीकृतमानसः । शरान्नेतुं च संधातुं न क्षमः स च भारतिः
रामं स्मृत्वा धनुर्धृत्वा करे सज्जं महद्दृढम् । मुमोच बाणान्निशितान्वैरिवृंदनिवारणान्
तैर्बाणैः शरजालं तद्विधूय मुनिपुंगव । शंखं प्रध्माय समरे जगाद गतभीर्नृपम्
पुष्कल उवाच। त्वया कृतं महत्कर्म यन्मां बाणस्य पंजरे । गोचरं कृतवान्वीर वीरतापनमुद्भटम्
वृद्धत्वान्मम मान्योसि सांप्रतं रणमंडले । पश्यमेऽद्य पराक्रांतं राजन्वीरमणे महत्
बाणत्रयेण भो वीर मूर्च्छितं करवै नहि । तर्हि प्रतिज्ञां शृणु वै सर्ववीरविमोहिनीम्
गंगां प्राप्यापि यो वै तां निंदित्वा पापहारिणीम् । न मज्जति महापापो महामूढविचेष्टितः
तस्य पापं ममैवास्तु चेन्न त्वां रणमंडले । पातये मूर्च्छया वीर सन्नद्धो भव भूपते
इति वाक्यं समाकर्ण्य पुष्कलस्य नृपोत्तमः । चुकोप भृशमुद्विग्नः संदधे निशिताञ्छरान्
ते शरा हृदयं भित्त्वा गतास्ते भारतेर्महत् । पेतुः क्षितावधो यद्वद्रामभक्तिपराङ्मुखाः
ततः शरं मुमोचास्मै निशितं वह्निसप्रभम् । लक्षीकृत्य महद्वक्षः कपाटतटविस्तृतम्
स बाणो भूमिपतिना द्विधा छिन्नः शरेण हि । पपात रथमध्ये स रविमंडलवज्ज्वलन्
अपरं बाणमाधत्त मातृभक्तिभवं ततः । निधाय पुण्यं सोऽप्येष चिच्छेद महता पुनः
तदा खिन्नः स हृदये किंकर्तव्यमिति स्मरन् । रामं हृदि निजार्तिघ्नं मुमोच परमास्त्रवित्
स बाणस्तस्य हृदये लग्न आशीविषोपमः । मूर्च्छामप्रापयत्तं वै ज्वलन्सूर्यसमप्रभः
ततो हाहाकृतं सर्वं पलायनपरायणम् । राज्ञि संमूर्च्छिते जाते पुष्कलो जयमाप्तवान्
शेष उवाच। आगत्य सविधे रुद्रं समरांगणमूर्धनि । जगाद हनुमान्वीरः संजिहीर्षुः सुराधिपम्