व्रज त्वं समरे योद्धुमन्यान्मानिवरान्नृपान् । वीरसिंहमुखान्कीश मच्चिंतां मा कुरु प्रभो
वाचमित्थं समाकर्ण्य हनूमान्धीरसेविताम् । जगाम समरे योद्धुं वीरसिंहं नृपानुजम्
लक्ष्मीनिधिः सुतेनास्य शुभांगदसुसंज्ञिना । द्वैरथेन प्रयुयुधे महाशस्त्रास्त्रवेदिना
बलमित्रेण सुमदः स्वप्रतापबलोर्जितः । योद्धुं सशस्त्रः संग्रामं विचचार नृपात्मजः
आह्वयंतं नृपं दृष्ट्वा द्वैरथे युद्धकोविदः । पुष्कलो रुक्मखचिते रथे तिष्ठन्ययौ हि तम्
राजा तमागतं दृष्ट्वा पुष्कलं युद्धकोविदम् । उवाच निर्भिया वाण्या रणमध्ये सुभाषितः
वीरमणिरुवाच। बालमायाहि मां क्रुद्धं संग्रामे चंडकोपनम् । गच्छ प्राणपरीप्सायै मा युद्धं कुरु मे सह
त्वादृशान्बालकान्भूपा मादृशाः कृपयंति हि । प्रहरंति न चैतान्वै तस्माद्गच्छ रणाद्बहिः
यावत्त्वं न मया दृष्टश्चक्षुर्भ्यां तावदुन्मनाः । सांप्रतं त्वां प्रहर्तुं न मनः समभिकांक्षति
यत्त्वया मत्सुतो बाणैर्भिन्नो मूर्च्छीकृतः पुनः । सर्वं मया क्षांतमद्य तवबालधियो महत्
इति वाक्यं समाकर्ण्य पुष्कलो निजगाद तम् । पुष्कल उवाच। बालोऽहं त्वं महावृद्धः सर्वशस्त्रास्त्रकोविदः
क्षत्रियाणां मतं चैव ये बलाधिक्यसंयुताः । त एव वृद्धा भूपाग्र्य न वयोवृद्धतां गताः
मया ते मूर्च्छितः पुत्रः सशौर्यबलदर्पितः । इदानीं त्वामहं शस्त्रैः पातयिष्यामि संगरे
तस्मात्त्वं यत्नतस्तिष्ठ राजन्संग्राममूर्धनि । रामभक्तं न मां कश्चिज्जयतींद्रपदे स्थितः
इत्थं भाषितमाश्रुत्य पुष्कलस्य नृपाग्रणीः । जहास बालं संवीक्ष्य कोपं च व्यदधात्पुनः
तं वै कुपितमालक्ष्य भरतात्मज उन्मदः । जघान शरविंशत्या राजानं हृदि तीक्ष्णया
राजा तानागतान्दृष्ट्वा बाणांस्तेन विमोचितान् । चिच्छेद परमक्रुद्धः शरैस्तीक्ष्णैरनेकधा
तद्बाणच्छेदनं दृष्ट्वा भारतिः परवीरहा । चुकोप हृदयेऽत्यंतं राजानं च त्रिभिः शरैः
विव्याध भाले भूपाल पुत्रः पुष्कलसंज्ञकः । तत्र लग्ना विरेजुस्ते त्रिकूटशिखराणि किम्
तैर्बाणैर्व्यथितो राजा जघान नवभिः शरैः । हृदये पुष्कलं वीरं महाकोपसमन्वितः । तैर्वत्सदन्तैर्बह्वस्रं पीतं रामानुजाङ्गजम्
सर्पा आशीविषा यद्वत्क्रुद्धास्तद्वपुषि स्थिताः । परमं कोपमापन्नः पुष्कलो भूमिपं पुनः
बाणानां शतकेनाशु बिभेद शितपर्वणाम् । तैर्बाणैः कवचं भिन्नं किरीटः सशिरस्त्रकः
रथो धनुर्महत्सज्यं छिन्नं कोपपरिप्लवात् । क्षतजेन परिप्लुष्टो बाणभिन्नकलेवरः
अन्यं स्यंदनमारुह्य जगाम भरतात्मजम् । धन्योसि वीर रामस्य चरणाब्जमधुव्रत
महत्कृतं कर्म तेऽद्य यदहं विरथीकृतः । प्राणान्रक्षस्व भो वीर सांप्रतं मयि युद्ध्यति
सुलभा न तव प्राणाः कालरूपे मयि स्थिते । इत्युक्त्वा व्यहनद्बाणैरसंख्यैः शस्त्रकोविदः
भूमौ दिशि च तद्बाणा नान्यद्दृश्येत तत्र ह । अनेके गजसाहस्रा भिन्ना अश्वाः समंततः
रथारथियुतास्तेन छिन्ना भिन्ना द्विधाकृताः । शोणितौघा सरित्तत्र प्रसुस्राव रणांगणे
यत्रोन्मदा हि मातंगा दृश्यंते शैलशृंगवत् । केशाः शैवाललक्ष्यास्ते मुहुः प्राणिशिरः स्थिताः
अनेके पाणयश्छिन्ना वीराणां मुद्रिकाश्रियः । दृश्यंते अहिवत्तत्र चंदनादिकरूषिताः