आगत्य संस्थितस्तावद्रथपत्तिसमाकुलम् । समुद्र इव तत्स्थानात्प्लावितुं पुरुषानयात्
तदागतं बलं दृष्ट्वा रथिभिः शस्त्रकोविदैः । कोलाहलीकृतं सर्वमुवाच सुमतिं नृपः
शत्रुघ्न उवाच। समागतो वीरमणिर्मम वाजिधरो बली । योद्धुं मां महता भूयः सैन्येन चतुरंगिणा
कथं युद्धं प्रकर्तव्यं के योत्स्यंति बलोत्कटाः । तान्सर्वान्दिश मे वीरान्यथा स्याज्जय ईप्सितः
सुमतिरुवाच। स्वामिन्नसौ महाराजो महासैन्यपरीवृतः । समागतः स युद्धार्थं शिवभक्तिसमन्वितः
सांप्रतं युद्ध्यतां वीरः पुष्कलः परमास्त्रवित् । अन्येपि नीलरत्नाद्या योद्धारो युद्धकोविदाः
शिवेन सह योद्धव्यं राज्ञा वा भवतानघ । द्वंद्वयुद्धेन जेतव्यो महाबलपराक्रमः
अनेन विधिना राजञ्जयस्तेऽत्र भविष्यति । पश्चाद्यद्रोचते स्वामिंस्तत्कुरुष्व महामते
शेष उवाच। इति वाक्यं समाकर्ण्य शत्रुघ्नः परवीरहा । सुभटानादिदेशाथ युद्धाय कृतनिश्चयः
सर्वैः ससैन्यैर्युद्धार्थं राजभिः शस्त्रकोविदैः । यथा स्यान्मे जयः क्षिप्रं यतितव्यं तथा पुनः
जयार्थं राघवस्यैव श्रुत्वा ते रणकोविदाः । महोत्साहेन संयुक्ता ययुर्योद्धुं तु सैनिकैः
शेष उवाच। आह्वयंतं महासैन्यवारिधौ पुष्कलं नृपम् । समालक्ष्य कपींद्रोऽपि हनूमांस्तमधावत
लांगूलमुद्यम्य विशालदेहं । सरावमातत्य पयोदघोषम् । रणस्थितान्वीरवरान्कपींद्रो । जगाम तं वीरमणिं नृपेन्द्रम्
आयांतं तं हनूमंतं वीक्ष्य पुष्कल उद्भटः । विलोकयामासदृशा वैरिक्रोध सुशोणया
जगाद तं हनूमंतं पुष्कलः परमास्त्रवित् । मेघगंभीरया वाचा नादयन्रणमंडलम्
पुष्कल उवाच। कथं त्वं समरे योद्धुमागतोसि महाकपे । कियद्बलं स्वल्पमेतद्राज्ञो वीरमणेर्महत्
यत्र त्रिजगती सर्वा संमुखे समुपागता । तत्र त्वं लीलया योद्धुं यातुमिच्छसि वा न वा
कोयं राजा वीरमणिः कियद्बलमथाल्पकम् । अत्रागमनमत्युग्रं तव वीर न भाव्यते
रघुनाथकृपापांगादहं निस्तीर्य दुस्तरम् । क्षणान्निर्यामि कीशेंद्र मा चित्तं कुरु संगरे
त्वया राक्षसपाथोधिस्तीर्णो रामकृपाव्रजात् । तथा रामं सुसंस्मृत्य निस्तरिष्यामि दुस्तरम्
ये केचिद्दुस्तरं प्राप्य रघुनाथं स्मरंति च । तेषां दुःखोदधिः शुष्को भविष्यति न संशयः
तस्माद्व्रज महावीर शत्रुघ्नसविधे बलिन् । एष आयामि निर्जित्य भूपं वीरमणिं क्षणात्
शेष उवाच। इति धीरां समाकर्ण्य वाणीं पुष्कलभाषिताम् । जगाद वचनं भूयः पुष्कलं परवीरहा
हनुमानुवाच। पुत्र मा साहसं कार्षीर्भूपं वीरमणिं प्रति । एष दाता शरण्यश्च बलशौर्यसमन्वितः
त्वं बालः स्थविरो भूपोऽखिलशस्त्रास्त्रवित्तमः । अनेके विजिताः संख्ये वीराः शौर्यसुशोभिनः
जानीहि पार्श्वे तस्य त्वं रक्षितारं सदाशिवम् । भक्त्या वशीकृतं स्थाणुं सोमं चैतत्पुरिस्थितम्
तस्मादहमनेनैव योत्स्ये भूपेन पुष्कल । अन्यान्वीरान्विजित्वा त्वं कीर्तिमाप्नुहि पुष्कलाम्
पुष्कल उवाच। शिवो भक्त्या वशीकृत्य स्वपुरे स्थापितोऽमुना । परमस्याशु हृदयेन तिष्ठति महेश्वरः
सदाशिवोयमाराध्य परमं स्थानमागतः । स रामो मन्मनस्त्यक्त्वा न क्वापि परिगच्छति
यत्र रामस्तत्र विश्वं सर्वं स्थास्नु चरिष्णु च । तस्मादहं जयिष्यामि रणे वीरमणिं नृपम्