शुभांगदोऽनुजस्तस्य महारत्नमयं दधत् । कवचं वपुषि श्रेष्ठं निजं प्रायाद्रणोत्सवे
राजभ्राता वीरसिंहः सर्वशस्त्रास्त्रकोविदः । ययौ नृपाज्ञया तत्र शासनं भूमिपस्य हि
जामेयस्तस्य राज्ञोऽपि बलमित्र इति स्मृतः । सन्नद्धः कवची खड्गी जगाम नृपमंदिरम्
सेनानी रिपुवारोऽपि सेनां तां चतुरंगिणीम् । सज्जां विधाय भूपाय न्यवेदयदथो महान्
अथ राजा वीरमणिः सर्वशस्त्रास्त्रपूरितम् । मणिसृष्टोच्चचक्रोच्चमारोहत्स्यंदनोत्तमम्
ततो वीरार्णवे शंखनिनादश्च समंततः । श्रूयते कातरान्वीरान्प्रेरयन्निव संगरे
भेर्यः समंततो जघ्नुः शुभवादकवादिताः । अनीकान्यत्र तस्यासन्संग्रामाय प्रतस्थुषः
सर्वे कृतस्वस्त्ययनाः सर्वाभरणभूषिताः । सर्वशस्त्रास्त्रसंपूर्णा ययुः समरमण्डलम्
भेरीशंखनिनादेन पूरिताश्च नगा गुहाः । आकारितुं गतः किं नु तद्रवः स्वर्गसंस्थितान्
तस्मिन्कोलाहले वृत्ते राजा वीरमणिर्महान् । रणोत्साहेन संयुक्तो ययौ प्रधनमंडलम्
आगत्य संस्थितस्तावद्रथपत्तिसमाकुलम् । समुद्र इव तत्स्थानात्प्लावितुं पुरुषानयात्
तदागतं बलं दृष्ट्वा रथिभिः शस्त्रकोविदैः । कोलाहलीकृतं सर्वमुवाच सुमतिं नृपः
शत्रुघ्न उवाच। समागतो वीरमणिर्मम वाजिधरो बली । योद्धुं मां महता भूयः सैन्येन चतुरंगिणा
कथं युद्धं प्रकर्तव्यं के योत्स्यंति बलोत्कटाः । तान्सर्वान्दिश मे वीरान्यथा स्याज्जय ईप्सितः
सुमतिरुवाच। स्वामिन्नसौ महाराजो महासैन्यपरीवृतः । समागतः स युद्धार्थं शिवभक्तिसमन्वितः
सांप्रतं युद्ध्यतां वीरः पुष्कलः परमास्त्रवित् । अन्येपि नीलरत्नाद्या योद्धारो युद्धकोविदाः
शिवेन सह योद्धव्यं राज्ञा वा भवतानघ । द्वंद्वयुद्धेन जेतव्यो महाबलपराक्रमः
अनेन विधिना राजञ्जयस्तेऽत्र भविष्यति । पश्चाद्यद्रोचते स्वामिंस्तत्कुरुष्व महामते
शेष उवाच। इति वाक्यं समाकर्ण्य शत्रुघ्नः परवीरहा । सुभटानादिदेशाथ युद्धाय कृतनिश्चयः
सर्वैः ससैन्यैर्युद्धार्थं राजभिः शस्त्रकोविदैः । यथा स्यान्मे जयः क्षिप्रं यतितव्यं तथा पुनः
जयार्थं राघवस्यैव श्रुत्वा ते रणकोविदाः । महोत्साहेन संयुक्ता ययुर्योद्धुं तु सैनिकैः
शेष उवाच। आह्वयंतं महासैन्यवारिधौ पुष्कलं नृपम् । समालक्ष्य कपींद्रोऽपि हनूमांस्तमधावत
लांगूलमुद्यम्य विशालदेहं । सरावमातत्य पयोदघोषम् । रणस्थितान्वीरवरान्कपींद्रो । जगाम तं वीरमणिं नृपेन्द्रम्
आयांतं तं हनूमंतं वीक्ष्य पुष्कल उद्भटः । विलोकयामासदृशा वैरिक्रोध सुशोणया
जगाद तं हनूमंतं पुष्कलः परमास्त्रवित् । मेघगंभीरया वाचा नादयन्रणमंडलम्
पुष्कल उवाच। कथं त्वं समरे योद्धुमागतोसि महाकपे । कियद्बलं स्वल्पमेतद्राज्ञो वीरमणेर्महत्
यत्र त्रिजगती सर्वा संमुखे समुपागता । तत्र त्वं लीलया योद्धुं यातुमिच्छसि वा न वा
कोयं राजा वीरमणिः कियद्बलमथाल्पकम् । अत्रागमनमत्युग्रं तव वीर न भाव्यते
रघुनाथकृपापांगादहं निस्तीर्य दुस्तरम् । क्षणान्निर्यामि कीशेंद्र मा चित्तं कुरु संगरे
त्वया राक्षसपाथोधिस्तीर्णो रामकृपाव्रजात् । तथा रामं सुसंस्मृत्य निस्तरिष्यामि दुस्तरम्