शत्रुघ्न उवाच। मदीयोऽश्व कुत्र विप्र कथयस्व महामते । न लक्ष्यते गतिस्तस्य सेवकैर्मम कोविदैः
शंस तं येन वा नीतं क्षत्त्रियेण च मानिना । कथमत्र हयप्राप्तिर्भविष्यति तपोधन
इति वाक्यं समाकर्ण्य शत्रुघ्नस्य स नारदः । उवाच वीणां रणयन्गायन्रामकथां मुहुः
नारद उवाच। एतद्देवपुरं राजन्भूपो वीरमणिर्महान् । तत्पुत्रेण वनस्थेन गृहीतस्तव वाजिराट्
तत्र युद्धं महत्तेऽद्य भविष्यति सुदारुणम् । अत्र वीराः पतिष्यंति बलशौर्यसमन्विताः
तस्मादत्र महायत्नात्स्थातव्यं ते महाबल । रचय व्यूहरचनां दुर्गमां परसैनिकैः
जयस्ते भविता राजन्कृच्छ्रेणास्मान्नृपोत्तमात् । रामं को नु पराजीयाद्भुवने सकले ह्यपि
इत्युक्त्वांतर्दधे विप्रो नभसि स्थितवांस्ततः । युद्धं सुदारुणं द्रक्ष्यन्देवदानवयोरिव
शेष उवाच। अथ राजा वीरमणिः सर्वशूरशिरोमणिः । पटहं घोषितुं स्वीये पुरमध्ये महारवम्
आह्वयामास सेनान्यं रिपुवीरं महोन्नतम् । कथयामास च क्षिप्रं मेघगंभीरया गिरा
वीरमणिरुवाच। सेनानीः पटहस्याज्ञां देहि मे शोभने पुरे । तच्छ्रुत्वा मे सुसन्नद्धाः शत्रुघ्नं प्रति यांतु ते
इति वाक्यं समाकर्ण्य राज्ञो वीरमणेस्तदा । कारयामास पटहं महारवनिनादितम्
गेहे गेहे च रथ्यायां श्रूयते पटहध्वनिः । शत्रुघ्नं यांतु ये सर्वे वीरा राजपुरे स्थिताः
ये वै राज्ञः समुल्लंघ्य शासनं वीरमानिनः । पुत्रा वा भ्रातरो वापि ते वध्याः स्युर्नृपाज्ञया
शृण्वंतु वीराः पुनरप्याह ते पटहे रवम् । श्रुत्वा विधीयतामाशु कर्तव्यं मा विलंबितम्
शेष उवाच। इति पटहरवं स्वकर्णगोचरं । नरवरवीरवरा ययुर्नृपोत्तमम् । कनककवचभूषितस्वदेहाः । समरमहोत्सव हृष्टचित्तकोशाः
केचिद्ययुः शिरस्त्राणं धृत्वा शिरसि शोभनम् । कवचेन सुशोभाढ्याः शतकोटिसुशोभिताः
रथेन हययुग्मेन मणिकांचनशोभिना । ययुस्ते राजसंदेशान्नृवरालयमुन्मदाः
केचिन्मतंगजैर्मत्तैः केचिद्वाहैः सुशोभनैः । ययुर्नपगृहं सर्वे राजसंदेशकारकाः
विविक्तस्वर्णकवचशिरस्त्राणसुशोभितः । रुक्मांगदोऽपि च निजे रथे तिष्ठन्मनोजवे
शुभांगदोऽनुजस्तस्य महारत्नमयं दधत् । कवचं वपुषि श्रेष्ठं निजं प्रायाद्रणोत्सवे
राजभ्राता वीरसिंहः सर्वशस्त्रास्त्रकोविदः । ययौ नृपाज्ञया तत्र शासनं भूमिपस्य हि
जामेयस्तस्य राज्ञोऽपि बलमित्र इति स्मृतः । सन्नद्धः कवची खड्गी जगाम नृपमंदिरम्
सेनानी रिपुवारोऽपि सेनां तां चतुरंगिणीम् । सज्जां विधाय भूपाय न्यवेदयदथो महान्
अथ राजा वीरमणिः सर्वशस्त्रास्त्रपूरितम् । मणिसृष्टोच्चचक्रोच्चमारोहत्स्यंदनोत्तमम्
ततो वीरार्णवे शंखनिनादश्च समंततः । श्रूयते कातरान्वीरान्प्रेरयन्निव संगरे
भेर्यः समंततो जघ्नुः शुभवादकवादिताः । अनीकान्यत्र तस्यासन्संग्रामाय प्रतस्थुषः
सर्वे कृतस्वस्त्ययनाः सर्वाभरणभूषिताः । सर्वशस्त्रास्त्रसंपूर्णा ययुः समरमण्डलम्
भेरीशंखनिनादेन पूरिताश्च नगा गुहाः । आकारितुं गतः किं नु तद्रवः स्वर्गसंस्थितान्
तस्मिन्कोलाहले वृत्ते राजा वीरमणिर्महान् । रणोत्साहेन संयुक्तो ययौ प्रधनमंडलम्