तेषां वचनमाकर्ण्य पप्रच्छ सुमतिं नृपः । शत्रुघ्नः शत्रुसंहारकारीमोहनरूपधृक्
शत्रुघ्न उवाच। कोऽत्र राजा निवसति कथं वाहस्य संगमः । कियद्बलं भूमिपतेर्येन मेऽद्य हृतो हयः
सुमतिरुवाच। राजन्देवपुरं ह्येतद्देवेनैव विनिर्मितम् । कैलासमिव दुर्गम्यं वैरिसंघैः सुसंहतैः
अस्मिन्वीरमणी राजा महाशूरः प्रतापवान् । राज्यं करोति धर्मेण शिवेन परिरक्षितः
योऽसौ प्रलयकारी स आस्ते भक्त्या वशीकृतः । चंद्रचूडः स्वभक्तस्य पक्षपातं सृजन्सदा
तस्मादत्र महद्युद्धं गृहीतश्चेद्भविष्यति । यत्ताः संतः प्रकुर्वंतु रक्षणं कटकस्य हि
एवं श्रुत्वा स शत्रुघ्नः सर्वभूपशिरोमणिः । सैन्यव्यूहं रचित्वासौ तिष्ठति स्म महायशाः
अथ तं सुखमासीनं मंत्रयंतं सुमंत्रिणा । आजगाम स देवर्षिर्युद्धकौतुकसंयुतः
तमागतं मुनिं दृष्ट्वा शत्रुघ्नस्तपसां निधिम् । अभ्युत्थायासने स्थाप्य मधुपर्कमथार्पयत्
स्वागतेन च संतुष्टं नारदं मुनिसत्तमम् । उवाच प्रीणयन्वाचा वाक्यवादविशारदः
शत्रुघ्न उवाच। मदीयोऽश्व कुत्र विप्र कथयस्व महामते । न लक्ष्यते गतिस्तस्य सेवकैर्मम कोविदैः
शंस तं येन वा नीतं क्षत्त्रियेण च मानिना । कथमत्र हयप्राप्तिर्भविष्यति तपोधन
इति वाक्यं समाकर्ण्य शत्रुघ्नस्य स नारदः । उवाच वीणां रणयन्गायन्रामकथां मुहुः
नारद उवाच। एतद्देवपुरं राजन्भूपो वीरमणिर्महान् । तत्पुत्रेण वनस्थेन गृहीतस्तव वाजिराट्
तत्र युद्धं महत्तेऽद्य भविष्यति सुदारुणम् । अत्र वीराः पतिष्यंति बलशौर्यसमन्विताः
तस्मादत्र महायत्नात्स्थातव्यं ते महाबल । रचय व्यूहरचनां दुर्गमां परसैनिकैः
जयस्ते भविता राजन्कृच्छ्रेणास्मान्नृपोत्तमात् । रामं को नु पराजीयाद्भुवने सकले ह्यपि
इत्युक्त्वांतर्दधे विप्रो नभसि स्थितवांस्ततः । युद्धं सुदारुणं द्रक्ष्यन्देवदानवयोरिव
शेष उवाच। अथ राजा वीरमणिः सर्वशूरशिरोमणिः । पटहं घोषितुं स्वीये पुरमध्ये महारवम्
आह्वयामास सेनान्यं रिपुवीरं महोन्नतम् । कथयामास च क्षिप्रं मेघगंभीरया गिरा
वीरमणिरुवाच। सेनानीः पटहस्याज्ञां देहि मे शोभने पुरे । तच्छ्रुत्वा मे सुसन्नद्धाः शत्रुघ्नं प्रति यांतु ते
इति वाक्यं समाकर्ण्य राज्ञो वीरमणेस्तदा । कारयामास पटहं महारवनिनादितम्
गेहे गेहे च रथ्यायां श्रूयते पटहध्वनिः । शत्रुघ्नं यांतु ये सर्वे वीरा राजपुरे स्थिताः
ये वै राज्ञः समुल्लंघ्य शासनं वीरमानिनः । पुत्रा वा भ्रातरो वापि ते वध्याः स्युर्नृपाज्ञया
शृण्वंतु वीराः पुनरप्याह ते पटहे रवम् । श्रुत्वा विधीयतामाशु कर्तव्यं मा विलंबितम्
शेष उवाच। इति पटहरवं स्वकर्णगोचरं । नरवरवीरवरा ययुर्नृपोत्तमम् । कनककवचभूषितस्वदेहाः । समरमहोत्सव हृष्टचित्तकोशाः
केचिद्ययुः शिरस्त्राणं धृत्वा शिरसि शोभनम् । कवचेन सुशोभाढ्याः शतकोटिसुशोभिताः
रथेन हययुग्मेन मणिकांचनशोभिना । ययुस्ते राजसंदेशान्नृवरालयमुन्मदाः
केचिन्मतंगजैर्मत्तैः केचिद्वाहैः सुशोभनैः । ययुर्नपगृहं सर्वे राजसंदेशकारकाः
विविक्तस्वर्णकवचशिरस्त्राणसुशोभितः । रुक्मांगदोऽपि च निजे रथे तिष्ठन्मनोजवे