तस्मै स कथयामास हयं नीतं रघोः पतेः । वाजिमेधाय निर्मुक्तं स्वच्छंदगतिमद्भुतम्
रक्षितं शत्रुसूदेन महाबलसमेतिना । तच्छ्रुत्वा वचनं तस्य नृपो वीरमणिर्महान्
नातिप्रशंसयामास तत्कर्म सुमहामतिः । नीत्वा पुनः समायांतं चौरस्येव विचेष्टितम्
कथयामास जामात्रे शिवायाद्भुतकर्मणे । अर्धांगनाधरायांगभूषाय चंद्रधारिणे
तेन संमंत्रयामास नृपो वीरमणिर्महान् । पुत्रसृष्टं महत्कर्म विनिंद्यं महतां मतः
शिव उवाच। राजन्पुत्रेण भवतः कृतं कर्म महाद्भुतम् । यो जहार महावाहंरामचंद्रस्य धीमतः
अद्य युद्धं महद्भाति सुरासुरविमोहनम् । शत्रुघ्नेन महाराज्ञा वीरकोट्येकरक्षिणा
मया यो ध्रियते स्वांते जिह्वया प्रोच्यते हि यः । तस्य रामस्ययज्ञांगं जहार तव पुत्रकः
परमत्र महाँल्लाभो भविष्यतितरां रणे । यद्रामचरणांभोजं द्रक्ष्यामः स्वीयसेवितम्
अत्र यत्नो महान्कार्यो हयस्य परिरक्षणे । नयिष्यंति बलाद्वाहं मया रक्षितमप्यमुम्
तस्मादिमं महाराज राज्येन सह सन्नतः । वाजिनं भोजनं दत्वा प्रेक्षस्वांघ्रियुगं ततः
इति वाक्यं समाकर्ण्य शिवस्य स नृपोत्तमः । उवाच तं सुरेंद्रादिवंद्यपादांबुजद्वयम्
वीरमणिरुवाच। क्षत्रियाणामयं धर्मो यत्प्रतापस्य रक्षणम् । तदसौ क्रांतुमुद्युक्तः क्रतुना हयसंज्ञिना
तस्माद्रक्ष्यः स्वप्रतापो येनकेनापि मानिना । यावच्छक्यं कर्म कृत्वा शरीरव्ययकारिणा
सर्वं कृतं सुतेनेदं गृहीतोऽश्व पुनर्यतः । कोपितं रामभूपालं समयार्हं कुरु प्रभो
क्षत्त्रियाणामिदं कर्म कर्तव्यार्हं भवेन्नहि । यदकस्माद्रिपोः पादौ प्रणमेद्भयविह्वलः
रिपवो विहसंत्येनं कातरोऽयं नृपाधमः । क्षुद्रः प्राकृतवन्नीचो नतवान्भयविह्वलः
तस्माद्भवान्यथायोग्यं योद्धव्ये समुपस्थिते । यद्विधेयं विचार्यैव कर्तव्यं भक्तरक्षणम्
शेष उवाच। इति वाक्यं समाकर्ण्य चंद्रचूडोवदद्वचः । प्रहसन्मेघगंभीरवाण्या संमोहयन्मनः
यदि देवास्त्रयस्त्रिंशत्कोटयः समुपस्थिताः । तथापि त्वत्तः केनाश्वो गृह्यते मम रक्षितुः
यदि रामः समागत्य स्वात्मानं दर्शयिष्यति । तदाहं चरणौ तस्य प्रणमामि सुकोमलौ
स्वामिना न हि योद्धव्यं महान नय उच्यते । अन्ये वीरास्तृणप्रायाः किंचित्कर्तुं न वै क्षमाः
तस्माद्युद्ध्यस्व राजेंद्र रक्षके मयि सुस्थिते । को गृह्णाति बलाद्वाहं त्रिलोकी यदि संगता
शेष उवाच। एतद्वचः परं श्रुत्वा चंद्रचूडस्य भूमिपः । जहर्ष मानसेऽत्यंतं युद्धकर्मणि कौतुकी
शेष उवाच। सेनाचरा महाराज्ञो महाबलसमन्विताः । समागतास्तं पश्यंतो हयं रामस्य भूपतेः
क्वा सावश्वः केन नीतः कथं वा दृश्यते न सः । को गंता यमपुर्यां वै वाहं हृत्वा सुमंदधीः
विलोकयंतस्तन्मार्गं यावत्सेनाचरा रघोः । तावत्प्राप्तो महाराजो महासैन्यपरीवृतः
पप्रच्छ सेवकान्सर्वान्कुत्राश्वो मम सांप्रतम् । न दृश्यते कथं वाहः स्वर्णपत्रसुशोभितः
इति तद्वचनं श्रुत्वा सेवकास्ते हयानुगाः । प्रोचुर्नाथ मनोवेगो वाहः केनापि कानने
हृतो न लक्ष्यते तस्मादस्माभिर्मार्गकोविदैः । तदत्र यत्नः कर्तव्यो हयप्राप्तिं प्रति प्रभो