ऊचुः पतिं कमलमध्यपिशंगवर्णा -। स्ताम्राधरप्रतिभयाहतविद्रुमाभाः । दंतव्रजप्रमितहास्यसुशोभिवक्त्राः । कामस्य बाणनयनादिविमोहनाभाः
स्त्रिय ऊचुः। कांतकोयं महानर्वास्वर्णपत्रैकशोभितः । कस्य वा भाति शोभाढ्यो गृहाण स्वबलादिमम्
शेष उवाच। तदुक्तं वच आकर्ण्य लीलाललितलोचनः । जग्राह हयमेकेन करपद्मेन लीलया
वाचयित्वा स्वर्णपत्रं स्पष्टवर्णसमन्वितम् । जहास महिलामध्ये जगाद वचनं पुनः
रुक्मांगद उवाच। पृथिव्यां नास्ति मे पित्रा समः शौर्येण च श्रिया । तस्मिन्कथं विधत्ते स उत्सेकं रामभूमिपः
यस्य रक्षां प्रकुरुते सदा रुद्रः पिनाकधृक् । यं देवा दानवा यक्षा नमंति मणिमौलिभिः
कुरुताद्वाजिमेधं वै जनको मे महाबलः । या त्वेष वाजिशालायां बध्नंतु मम वै भटाः
इति वाक्यं समाकर्ण्य महिलास्ता मनोहराः । प्रहर्षवदना जाताः कांतं तु परिरेभिरे
गृहीत्वा च हयं पुत्रो राज्ञो वीरमणेर्महान् । पुरं पत्नीसमायुक्तो महोत्साहमवीविशत्
मृदंगध्वनिषु प्रोच्चैराहतेषु समंततः । बंदिभिः संस्तुतः प्रागात्स्वपितुर्मंदिरं महत्
तस्मै स कथयामास हयं नीतं रघोः पतेः । वाजिमेधाय निर्मुक्तं स्वच्छंदगतिमद्भुतम्
रक्षितं शत्रुसूदेन महाबलसमेतिना । तच्छ्रुत्वा वचनं तस्य नृपो वीरमणिर्महान्
नातिप्रशंसयामास तत्कर्म सुमहामतिः । नीत्वा पुनः समायांतं चौरस्येव विचेष्टितम्
कथयामास जामात्रे शिवायाद्भुतकर्मणे । अर्धांगनाधरायांगभूषाय चंद्रधारिणे
तेन संमंत्रयामास नृपो वीरमणिर्महान् । पुत्रसृष्टं महत्कर्म विनिंद्यं महतां मतः
शिव उवाच। राजन्पुत्रेण भवतः कृतं कर्म महाद्भुतम् । यो जहार महावाहंरामचंद्रस्य धीमतः
अद्य युद्धं महद्भाति सुरासुरविमोहनम् । शत्रुघ्नेन महाराज्ञा वीरकोट्येकरक्षिणा
मया यो ध्रियते स्वांते जिह्वया प्रोच्यते हि यः । तस्य रामस्ययज्ञांगं जहार तव पुत्रकः
परमत्र महाँल्लाभो भविष्यतितरां रणे । यद्रामचरणांभोजं द्रक्ष्यामः स्वीयसेवितम्
अत्र यत्नो महान्कार्यो हयस्य परिरक्षणे । नयिष्यंति बलाद्वाहं मया रक्षितमप्यमुम्
तस्मादिमं महाराज राज्येन सह सन्नतः । वाजिनं भोजनं दत्वा प्रेक्षस्वांघ्रियुगं ततः
इति वाक्यं समाकर्ण्य शिवस्य स नृपोत्तमः । उवाच तं सुरेंद्रादिवंद्यपादांबुजद्वयम्
वीरमणिरुवाच। क्षत्रियाणामयं धर्मो यत्प्रतापस्य रक्षणम् । तदसौ क्रांतुमुद्युक्तः क्रतुना हयसंज्ञिना
तस्माद्रक्ष्यः स्वप्रतापो येनकेनापि मानिना । यावच्छक्यं कर्म कृत्वा शरीरव्ययकारिणा
सर्वं कृतं सुतेनेदं गृहीतोऽश्व पुनर्यतः । कोपितं रामभूपालं समयार्हं कुरु प्रभो
क्षत्त्रियाणामिदं कर्म कर्तव्यार्हं भवेन्नहि । यदकस्माद्रिपोः पादौ प्रणमेद्भयविह्वलः
रिपवो विहसंत्येनं कातरोऽयं नृपाधमः । क्षुद्रः प्राकृतवन्नीचो नतवान्भयविह्वलः
तस्माद्भवान्यथायोग्यं योद्धव्ये समुपस्थिते । यद्विधेयं विचार्यैव कर्तव्यं भक्तरक्षणम्
शेष उवाच। इति वाक्यं समाकर्ण्य चंद्रचूडोवदद्वचः । प्रहसन्मेघगंभीरवाण्या संमोहयन्मनः
यदि देवास्त्रयस्त्रिंशत्कोटयः समुपस्थिताः । तथापि त्वत्तः केनाश्वो गृह्यते मम रक्षितुः